Click here to access the best NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 8 Question Answer बुद्धिः सर्वार्थसाधिका textbook exercise questions and answers.
बुद्धिः सर्वार्थसाधिका Class 6th Sanskrit Deepakam Chapter 8 Question Answer
NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 8 बुद्धिः सर्वार्थसाधिका
वयम् अभ्यासं कुर्मः
१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ?
उत्तरम्:
शशका:
(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ?
उत्तरम्:
गजानां
(ग) शशकराजः कस्य समीपं गच्छति?
उत्तरम्:
गजराजस्य
(घ) के स्वमतं प्रकाशयन्ति ?
उत्तरम्:
शशका:
(ङ) कः चन्द्रं नमति ?
उत्तरम्:
गजराजः
(च) के सुखेन तिष्ठन्ति ?
उत्तरम्:
शशका:
२. पूर्णवाक्येन उत्तराणि लिखन्तु ।
(क) चन्द्रः कदा प्रसन्नः भवति ?
उत्तरम्:
यदा शशका: जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।
(ख) सायङ्काले केषां सभा भवति ?
उत्तरम्:
सायङ्काले शशकानां सभा भवति ।
(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति ?
उत्तरम्:
शशकाः स्वरक्षार्थम् उपायं चिन्तयन्ति ।
(घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ?
उत्तरम्:
चन्द्रः ‘शशाङ्कः’ इति नाम्ना प्रसिद्धः अस्ति ।
(ङ) “आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलाव:” इति कः कथयति ?
उत्तरम्:
“आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एवं सरोवरं प्रति चलावः । ” इति शशकः कथयति ।
३. पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु ।
निवसन्ति चिन्तयन्ति भवति कथयति तिष्ठति
(क) किं चन्द्रः सरोवरे ………….. ।
उत्तरम्:
तिष्ठति
(ख) सर्वे शशका: उपाय ……….. ।
उत्तरम्:
चिन्तयन्ति
(ग) सायंकाले शशकानां सभा ……… ।
उत्तरम्:
भवति
(घ) शशकाः सरोवरस्य तीरे ……… ।
उत्तरम्:
निवसन्ति
(ङ) सः गजराजं ………. ।
उत्तरम्:
कथयति
४. उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु ।
पदम् | पुरुषः | वचनम् |
यथा – चिन्तयति | प्रथमपुरुषः | बहुवचनम् |
तिष्ठन्ति | …………… | …………… |
जीवन्ति | …………… | …………… |
नमति | …………… | …………… |
कथयति | …………… | …………… |
गच्छति | …………… | …………… |
उत्तरम्:
पदम् | पुरुषः | वचनम् |
यथा – चिन्तयति | प्रथमपुरुषः | बहुवचनम् |
तिष्ठन्ति | प्रथमपुरुषः | बहुवचनम् |
जीवन्ति | प्रथमपुरुषः | बहुवचनम् |
नमति | प्रथमपुरुषः | एकवचनम् |
कथयति | प्रथमपुरुषः | एकवचनम् |
गच्छति | प्रथमपुरुषः | एकवचनम् |
५. उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानान पूरयन्तु।
धातुः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- गम् | गच्छति | गच्छतः | गच्छन्ति |
कथ् | कथयति | …. | |
स्था | तिष्ठन्ति | ||
कृ | करोमि | कुर्वः | |
जीव् | जीवन्ति | ||
चल् | चलाव: |
उत्तरम्:
धातुः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- गम् | गच्छति | गच्छतः | गच्छन्ति |
कथ् | कथयति | कथयतः | कथयन्ति |
स्था | तिष्ठति | तिष्ठतः | तिष्ठन्ति |
कृ | करोमि | कुर्वः | कुर्मः |
जीव् | जीवति | जीवतः | जीवन्ति |
चल् | चलामि | चलाव: | चलामः |
६. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु ।
उत्तरम्:
(क) ………………..
(ख) ……………….
(ग) ……………….
(घ) ……………….
(ङ) ……………….
उत्तरम्:
(क) एतत् चित्रम् उपवनस्य अस्ति।
(ख) एष: वृक्ष: सेवफलस्य अस्ति ।
(ग) वृक्षस्य अधः सेवफलानि सन्ति ।
(घ) सेवफलानि खादित्वा बालकाः प्रसन्नाः भवन्ति ।
(ङ) सेवफलस्य वर्णः रक्तः अस्ति ।
७. अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु ।
उत्तरम्:
(क) गजः हस्ती
(ख) पदम् चरण:
(ग) चन्द्रः शशाङ्क:
(घ) सरोवर: जलाशय:
(ङ) प्रजा जनता
योग्यताविस्तरः
१. कार्यारम्भात् कार्यपरिसमाप्तेः कालः वर्तमानकालः उच्यते ।
२. वर्तमान कालस्य कृते लट्लकारः भवति ।
३. लकारेषु त्रयः पुरुषाः (प्रथम मध्यमः उत्तमः) एवञ्च त्रीणि वचनानि (एकवचनम् द्विवचनम् बहुचनम्) भवन्ति ।
लट्लकारस्य क्रियापदे अधोलिखितानि चिह्नानि भवन्ति ।
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुष: | ति | तः | अन्ति |
मध्यमपुरुष: | सि | थः | थ |
उत्तमपुरुष: | मि | वः | मः |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुष: | पठति | पठतः | पठन्ति |
मध्यमपुरुष: | पठसि | पठथः | पठथ |
उत्तमपुरुष: | पठामि | पठाव: | पठामः |
परियोजनाकार्यम
पाठे पठितानां धातुरूपाणां संग्रहणं कुर्वन्तु । तेषां पुरुषं वचनं च लिखन्तु ।
उत्तरम्:
पठित-अवबोधनम्
पठित- सामग्रीम् आधृत्य अवबोधनकार्यम्
१. निम्नलिखितं गद्याशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए)
गजराजः शशकेन सह सरोवरस्य समीपं गच्छति । सः जले चन्द्रस्य प्रतिबिम्बं पश्यति चकितः च भवति । सः भयेन चन्द्रं नमति । ततः सः गजयूथेन सह अन्यत्र गच्छति । सः गजयूथः पुनः कदापि तस्य सरोवरस्य समीपं न आगच्छति । शशकाः तत्र सुखेन तिष्ठन्ति । सत्यम् एव उक्तम् -‘बुद्धिः सर्वार्थसाधिका ।’।
प्रश्ना:-
I. एकपदेन उत्तरत-
(i) कः भयेन चन्द्रं नमति ?
उत्तरम्:
गजराज :
(ii) गजराजः जले कस्य प्रतिबिम्बम् पश्यति?
उत्तरम्:
चन्द्रस्य
(iii) गजराजः केन सह सरोवरस्य समीपं गच्छति ?
उत्तरम्:
शशकेन
(iv) के सुखेन तिष्ठन्ति ?
उत्तरम्:
शशका:
II. पूर्णवाक्येन उत्तरत-
गजयूथः पुनः कदापि कुत्र न आगच्छति ?
उत्तरम्:
गजयूथः पुनः कदापि सरोवरस्य समीपं न आगच्छति ।
III. निर्देशानुसारं उत्तरत-
(i) ‘जले’ अत्र का विभक्तिः ?
(क) प्रथमा
(ख) तृतीया
(ग) पञ्चमी
(घ) सप्तमी
उत्तरम्:
(घ) सप्तमी
(ii) ‘तिष्ठन्ति’ इत्यत्र कः धातुः ?
(क) तिष्ठ्
(ख) स्थ
(ग) स्था
(घ) स्थ
उत्तरम्:
(ग) स्था
२. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(i) शशकाः स्वरक्षार्थं उपायम् अचिन्तयत् ।
उत्तरम्:
के स्वरक्षार्थं उपायम् अचिन्तयत् ?
(ii) वयम् शशकाः तस्य प्रजाः स्मः ।
उत्तरम्:
वयम् शशका: कस्य प्रजाः स्मः ?
(iii) चन्द्रः सरोवरे तिष्ठति ।
उत्तरम्:
चन्द्रः कुत्र तिष्ठति ?
(iv) शशकराज: गजराजस्य समीपं गच्छति ।
उत्तरम्:
क: गजराजस्य समीपं गच्छति ?
(v) गजराजः भयेन चन्द्रम् नमति ।
उत्तरम्:
गजराज भयेन कम् नमति ?
३. मञ्जूषात: समानार्थकानि पदानि चित्वा लिखत-
(i) रवि: ……………..
(ii) चन्द्रः …………..
(iii) जलाशयः ………..
(iv) हस्ती ……………
(v) तीरे ………….
उत्तरम्:
(i) रवि: सूर्य:
(ii) चन्द्रः शशाङ्क:
(iii) जलाशय: सरोवर:
(iv) हस्ती गजः
(v) तीरे तटे
४. कथापूर्ति
मञ्जूषायाः उचितपदैः कथापूर्तिः कुरुत –
पिपासाकुलं क्षतविक्षताः, वासस्थानम्, सरोवरस्य, नित्यजलपूर्णः, शशक- बिलानि, उपाय, सह, प्रसन्नः, प्रतिबिम्बम्
एकस्मिन् वने एक: ……..(i) ……… महान् सरोवर: अस्ति। कदाचित् एकं …….(ii)……. गजयूथं वनान्तरात् तत्र आगच्छति। तस्य च सरोवरस्य तीरे समन्तात् सुकोमलभूमौ बहुनि ………..(iii)…….. सन्ति, येषु बहवः शशकाः निवसन्ति । गजानां परिभ्रमणेन तेषु बिलेषु बहवः शशकाः …….(iv)…….. भवन्ति । ते दुःखम् अनुभवन्ति । स्वरक्षार्थं च ते …..(v)….. चिन्तयति ।। शशकराज : गजराजं कथयति – ” हे गजराज ! एषः सरोवर: चन्द्रस्य …….(vi)…….. अस्ति । यदा शशका: जीवन्ति तदा एव चन्द्रः ……(vii)……. भवति । ” गजराजः शशकराजेन ……..(viii)…… सरोवरस्य समीपं गच्छति । सः जले चन्द्रस्य ……(ix)…. पश्यति । सः गजयूथः पुनः कदापि ……..(x) ……. समीपं न आगच्छति ।
उत्तरम्:
(i) नित्यजलपूर्ण:
(ii) पिपासाकुलं
(iii) शशक – बिलानि
(iv) क्षतविक्षता:
(v) उपायं
(vi) वासस्थानं
(vii) प्रसन्नः
(viii) सह
(ix) प्रतिबिम्बम्
(x) सरोवरस्य