Click here to access the best NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 7 Question Answer अतिथिदेवो भव textbook exercise questions and answers.
अतिथिदेवो भव Class 6th Sanskrit Deepakam Chapter 7 Question Answer
NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 7 अतिथिदेवो भव
वयम् अभ्यासं कुर्मः
१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) राधिका कथं चलति स्म ?
उत्तरम्:
कूर्दमाना
(ख) गृहे कति अतिथयः सन्ति ?
उत्तरम्:
पञ्च
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?
उत्तरम्:
राधिकां
(घ) मार्जार्याः कति शावका: ?
उत्तरम्:
चत्वारः
(ङ) राधिका मार्जार्यै किं ददाति ?
उत्तरम्:
क्षीरं
(च) चित्रवर्णः कः अस्ति ?
उत्तरम्:
शबल:
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(क) मार्जारीशावकानां नामानि कानि ?
उत्तरम्:
मार्जारीशावकानां नामानि सन्ति – तन्वी, मृद्वी, शबलः, भीमः च इति ।
(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तरम्:
राधिका मार्जारीशावकान् – ‘अतिथिदेवो भव’ पाठयति ।
(ग) विशिष्टाः अतिथयः के?
उत्तरम्:
मार्जारी चत्वारः शावका: च विशिष्टाः अतिथयः सन्ति ।
(घ) पितामही राधिकां किं वदति ?
उत्तरम्:
पितामही राधिकां वदति – “ राधिके ! अतिथयः कदा आगच्छति इति न जानीमः । ”
(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तरम्:
यदा शावकानां समीपं राधिका गच्छति मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति ।
(च) मार्जार्या: शावकाः कीदृशाः सन्ति ?
उत्तरम्:
तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः सन्ति ।
३. अधोलिखितानां वाक्यानां प्रश्न-सूचक- वाक्यानि लिखन्तु ।
यथा – लेखनी अत्र अस्ति । लेखनी कुत्र अस्ति ?
(क) वृक्षः तत्र अस्ति ।
उत्तरम्:
(ख) देवालयः अन्यत्र अस्ति ।
उत्तरम्:
(ग) वायुः सर्वत्र अस्ति ।
उत्तरम्:
(घ) बालकाः एकत्र तिष्ठन्ति ।
उत्तरम्:
(ङ) माता अत्र अस्ति ।
उत्तरम्:
माता कुत्र अस्ति ?
४. उत्पीठिकायां किम् अस्ति ? किं नास्ति ? इति चित्रं दृष्टवा लिखन्तु ।
यथा – उत्पीठिकायां पुस्तकम् अस्ति ।
उत्पीठिकायां घटी नास्ति ।
(पुस्तकम्, घटी, लेखनी, चषक:, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुक:)
उत्तरम्:
- उत्पीठिकायां सङ्गणकम् अस्ति ।
- उत्पीठिकायां लेखनी नास्ति ।
- उत्पीठिकायां कन्दुकम् अस्ति ।
- उत्पीठिकायां वृक्षः नास्ति ।
- उत्पीठिकायां घटी नास्ति ।
- उत्पीठिकायां फलम् नास्ति ।
- उत्पीठिकायां चषक: नास्ति ।
- उत्पीठिकायां कूपी अस्ति ।
- उत्पीठिकायां स्यूतः अस्ति ।
- उत्पीठिकायां पुस्तकम् अस्ति ।
५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।
यथा – मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
सेवकः कुत्र अस्ति ? सेवक: तत्र अस्ति ।
उत्तरम्-
अत्र-
(1) छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति ।
(2) काकः कुत्र अस्ति? काकः अत्र अस्ति ।
(3) दीपक: कुत्र अस्ति ? दीपकः अत्र अस्ति ।
(4) घटः कुत्र अस्ति ? घटः अत्र अस्ति ।
(5) सुधाखण्डः कुत्र अस्ति ? सुधाखण्डः अत्र अस्ति ।
(6) शिक्षकः कुत्र अस्ति ? शिक्षकः अत्र अस्ति ।
(7) बालिका कुत्र अस्ति ? बालिका अत्र अस्ति ।
(8) लेखनी कुत्र अस्ति ? लेखनी अत्र अस्ति ।
(9) माला कुत्र अस्ति ? माला अत्र अस्ति ।
तत्र-
(1) विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति ।
(2) गायक : कुत्र अस्ति ? गायकः तत्र अस्ति ।
(3) घटी कुत्र अस्ति ? घटी तत्र अस्ति ।
(4) फलम् कुत्र अस्ति ? फलम् तत्र अस्ति ।
(5) गृहम् कुत्र अस्ति ? गृहम् तत्र अस्ति ।
(6) वाटिका कुत्र अस्ति ? वाटिका तत्र अस्ति ।
(7) हरिणः कुत्र अस्ति ? हरिणः तत्र अस्ति ।
(8) अजः कुत्र अस्ति ? अजः तत्र अस्ति ।
(9) मूषकः कुत्र अस्ति ? मूषकः तत्र अस्ति ।
सर्वत्र-
(1) प्रकाशः कुत्र अस्ति ? प्रकाश: सर्वत्र अस्ति ।
(2) परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति ।
(3) ज्ञानम् कुत्र अस्ति ? ज्ञानम् सर्वत्र अस्ति ।
(4) आकाशः कुत्र अस्ति? आकाशः सर्वत्र अस्ति ।
(5) अणवः कुत्र अस्ति ? अणवः सर्वत्र अस्ति ।
(6) प्रकृतिः कुत्र अस्ति ? प्रकृतिः सर्वत्र अस्ति ।
(7) पुष्पाणि कुत्र अस्ति ? पुष्पाणि सर्वत्र अस्ति ।
(8) वायुः कुत्र अस्ति ? वायुः सर्वत्र अस्ति ।
(9) प्रेम कुत्र अस्ति ? प्रेम सर्वत्र अस्ति ।
एकत्र –
(1) बालकः कुत्र अस्ति ? बालक: एकत्र अस्ति ।
(2) मयूरः कुत्र अस्ति ? मयूर : एकत्र अस्ति ।
(3) मित्रम् कुत्र अस्ति ? मित्रम् एकत्र अस्ति ।
(4) पुत्रः कुत्र अस्ति ? पुत्रः एकत्र अस्ति ।
(5) महिला कुत्र अस्ति ? महिला एकत्र अस्ति ।
(6) सेविका कुत्र अस्ति ? सेविका एकत्र अस्ति ।
(7) चटका कुत्र अस्ति ? चटका एकत्र अस्ति ।
(8) दोला कुत्र अस्ति ? दोला एकत्र अस्ति ।
६. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु ।
यथा- भोजनशालायां पाचकः अस्ति ।
(सूचकपदानि पाचकः, पात्रम्, तण्डुलाः शाकानि, अग्निः, जलम्)
उत्तरम्:
- भोजनशालायां पात्रम् अस्ति ।
- भोजनशालायां अग्निः अस्ति ।
- भोजनशालायां जलम् अस्ति ।
- भोजनशालायां तण्डुलाः सन्ति ।
- भोजनशालायां शाकानि सन्ति ।
७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ?
(क) अमितः गृहात् बहिः गच्छति । …………
(ख) एक वानरः वृक्षस्य उपरि तिष्ठति । …………
(ग) सः फलानि अधः क्षिपति । ………….
(घ) तत्र एक: बिडालः अस्ति । ………..
(ङ) बिडाल : गृहस्य अन्तः प्रविशति । …………
(क) अमितः गृहात् बहिः गच्छति ।
उत्तरम्:
बहि:
(ख) एक वानरः वृक्षस्य उपरि तिष्ठति ।
उत्तरम्:
उपरि
(ग) सः फलानि अधः क्षिपति ।
उत्तरम्:
अधः
(घ) तत्र एक: बिडालः अस्ति ।
उत्तरम्:
तत्र
(ङ) बिडाल : गृहस्य अन्तः प्रविशति ।
उत्तरम्:
अन्तः
८. उदाहरणानुसार कः कुत्र अस्ति ? कुत्र नास्ति ? इति लिखन्तु ।
यथा-
यथा-
सिंह: | वने | कार्यालये | सिंह: वने अस्ति । कार्यालये नास्ति । |
छात्र: | आकाशे | विद्यालये | छात्रः आकाशे नास्ति । छात्रः विद्यालये अस्ति । |
मत्स्य: | समुद्रे | वृक्षे | |
मधुरता | लड्डुके | कषाये | |
उष्णता | सूर्ये | चन्द्रे | |
वानरः | नद्याम् | वृक्षे | |
नौका | जले | पर्वते | |
अज्ञानम् | पण्डि | मूर्खे | |
चन्द्रः | अमावस्यायाम् | पूर्णिमायाम् | |
अवकाश: | सोमवासरे | रविवासरे |
उत्तरम्:
(1) मत्स्यः समुद्रे अस्ति । मत्स्यः वृक्षे नास्ति ।
(2) मधुरता लड्डुके अस्ति । लड्डुके कषाय नास्ति ।
(3) उष्णता सूर्ये अस्ति । चन्द्रे नास्ति ।
(4) वानरः वृक्षे अस्ति । नद्याम् नास्ति ।
(5) नौका जले अस्ति । पर्वते नास्ति ।
(6) अज्ञानम् पण्डिते नास्ति । मूर्खे अस्ति ।
(7) चन्द्रः पूर्णिमायाम् अस्ति। अमावस्यायाम् नास्ति ।
(8) अवकाश: रविवासरे अस्ति। सोमवासरें नास्ति ।
योग्यताविस्तरः
१. एतत् गीतं सर्वेऽपि मिलित्वा पठन्तु आलपन्तु च ।
मार्जाल ! रे मार्जाल ! कुत्र गतोऽसि त्वम्
अत्रैवास्मि आगतोऽस्मि राजगृहादेवम्
मार्जाल ! रे मार्जाल ! किं दृष्टं तत्र ?
तावदीर्घः मूषकपुत्रः न हि दृष्टोऽन्यत्र ।
२. पाठे स्थूलाक्षरैः लिखिताः शब्दाः अव्ययपदानि सन्ति । ‘अत्र’ इति अव्ययं परिशीलयामः ।
३. अव्ययलक्षणम्
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
अव्ययपदेषु वचनभेदः, विभक्तिभेदः लिङ्गभेदः च न भवति । एतानि अव्ययपदानि सर्वदा समानरूपेण वाक्ये भवन्ति ।
४. निम्नलिखितानि वाक्यानि सावधानं पठन्तु लिखन्तु च ।
• छात्रः अत्र अस्ति।
• क्रीडाङ्गणं तत्र अस्ति ।
• कन्दुक : कुत्र अस्ति ?
• नगरम् अन्यत्र अस्ति ।
• परमेश्वरः सर्वत्र अस्ति ।
• भोजनम् अत्र नास्ति ।
परियोजनाकार्यम्
१. पाठे मार्जारशावकानां नामानि पश्यन्तु । तेषां नामकरणे राधिकायाः किं चिन्तनम् आसीत्? तदनुसारं स्वनामधेये किम् उद्देश्यं स्यात् इति विमर्श कुर्वन्तु ।
उत्तरम्:
मार्जारशावकानाम् नामकरणे राधिकायाः चिन्तनम् आसीत् यत् तन्वी शरीरस्य सौंदर्येण सुन्दरी आसीत् । मृद्वी स्पर्शेन अतीव कोमला आसीत् । शबल: चित्रवर्ण : आसीत्। भीमः स्थूलः आसीत् । राधिका तेषाम् नामानि शरीरस्य गुणानुसारेण अचिन्तयत् ।
२. विद्यालयपरिसरे किम् अस्ति किं नास्ति इति लिखन्तु कक्षायां च श्रावयन्तु।
उत्तरम्:
विद्यालयपरिसरे एकं क्रीडाक्षेत्रम् अस्ति। विद्यालयस्य भवनम् भव्यम् विशालम् च अस्ति । विद्यालयं परितः वृक्षाः सन्ति। पादपेषु सुन्दराणि पुष्पाणि विकसन्ति । विद्यालयस्य भवने अनेके कक्षाः प्रकोष्ठाः च सन्ति । एक: पुस्तकालयः अस्ति । तत्र एक भोजनालयः अपि अस्ति । तत्र सर्वत्र स्वच्छं क्षेत्रम् अस्ति । अस्वच्छता नास्ति ।
• बिडालः कुत्र अस्ति ?
उपरि – बिडाल: फलकस्य उपरि अस्ति ।
अधः – बिडालः फलकस्य अधः अस्ति ।
कोणे – बिडालः फलकस्य कोणे अस्ति ।
केन्द्रे – बिडाल: आसनस्य केन्द्रे अस्ति ।
समीपे – बिडाल: पेटिकायाः समीपे अस्ति ।
दूरे – बिडाल: पेटिकायाः दूरे अस्ति ।
अन्तः – बिडाल: पेटिकायाः अन्तः अस्ति ।
बहि: – बिडाल: पेटिकायाः बहिः अस्ति ।
पुरतः – बिडालः कन्दुकस्य पुरतः अस्ति ।
पृष्ठतः – बिडालः कन्दुकस्य पृष्ठतः अस्ति ।
दक्षिणतः – बिडाल : बालकस्य दक्षिणतः अस्ति ।
वामतः – बिडालः बालकस्य वामतः अस्ति ।
पठित-अवबोधनम्
I. पठित सामग्रीम् आधृत्य अवबोधनकार्यम्
१. निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए)
राधिका एषु दिनेषु कूर्दमाना एव चलति । यतः गृहे नूतनाः अतिथयः सन्ति । ते च विशिष्टाः सन्ति । माता, पुत्रौ पुत्र्यौ च मिलित्वा ते तत्र पञ्च सन्ति । अहोरात्रं तस्याः चिन्ता एकत्र एव । गृहस्य छद्याः उपरि । तत्र एव तस्याः मनः अस्ति । कुतूहलम् अस्ति के ते इति ? ते न अन्ये, काचित् मार्जारी तस्याः चत्वारः शावकाः च। आम्, एव विशिष्टाः अतिथयः । सा तु तेषां नामानि अपि चिन्तितवती – तन्वी, मृद्वी, शबलः, भीमः च इति ।
प्रश्ना:-
प्रश्न 1.
एकपदेन उत्तरत-
(i) मार्जार्या: कति शावका: ?
उत्तरम्:
चत्वारः
(ii) चित्रवर्ण : का अस्ति ?
उत्तरम्:
शबल:
(iii) अतिथयः कति सन्ति?
उत्तरम्:
पञ्च
(iv) राधिका कथम् चलति ?
उत्तरम्:
कूर्दमाना
II. पूर्णवाक्येन उत्तरत-
विशिष्टाः अतिथयः के सन्ति?
उत्तरम्:
मार्जारी, तस्याः चत्वारः शावका:
च विशिष्टाः अतिथयः सन्ति ।
III. निर्देशानुसारं उत्तरत-,
(i) ‘विशिष्ट:’ इति पदस्य विलोमशब्द लिखत |
(क) सामान्यः
(ख) अतिविशिष्य्
(ग) उच्चतर
(घ) निम्नतर
उत्तरम्:
(क) सामान्यः
(ii) ‘शावका:’ इत्यत्र का विभक्तिः ?
(क) द्वितीया
(ख) प्रथमा
(ग) तृतीया
(घ) षष्ठी
उत्तरम्:
(ख) प्रथमा
(iii) ‘चलति’ इत्यत्र कः लकारः ?
(क) लोट् लकार
(ख) लट् लकार
(ग) लृट लकार
(घ) लङ् लकार
उत्तरम्:
(क) लोट् लकार
II रिक्तस्थानपूर्तिः कुरुत
२. अधोलिखिते संदर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत-
मञ्जूषा –
अतीव, मार्जार्यै, राधिकां, सुंदरी, भीमः, मार्जारी, चित्रवर्णः
तन्वी आकृत्या …………, मृद्वी स्पर्शेन …………. कोमला । शबलः ………… तथा च ………….. किञ्चित् स्थूलः । ………….. कदा गच्छति, कदा आगच्छति एतत् सर्वम् अपि राधिका जानाति । सा ……….. क्षीरं ददाति । मार्जारी पिबति । अनन्तरं सा सधन्यवादं ………… पश्यति ।
उत्तरम्:
तन्वी आकृत्या सुंदरी, मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः । मार्जारी कदा गच्छति, कदा आगच्छति एतत् सर्वम् अपि राधिका जानाति । सा मार्जार्यै क्षीरं ददाति । मार्जारी पिबति । अनन्तरं सा सधन्यवादं राधिकां पश्यति ।
३. अधोलिखितानां पर्यायपदानां मेलनं कुरुत-
उत्तरम्:
III. पाठक्रमानुसारं क्रमसंयोजनम्
४. पाठक्रमानुसार अधोलिखितानि वाक्यानि पुनः लेखनीयानि ।
(पाठ के क्रमानुसार क्रम संयोजित कर पुनः लिखिए।)
(क) माता, पुत्र, पुत्र्यौ च मिलित्वा ते तत्र पञ्च सन्ति ।
उत्तरम्:
राधिका एषु दिनेषु कूर्दमाना एव चलति ।
(ख) आम्, ते एव विशिष्टाः अतिथयः ।
उत्तरम्:
यतः गृहे नूतनाः अतिथयः सन्ति ।
(ग) तत्र एव तस्याः मनः अस्ति ।
उत्तरम्:
माता, पुत्रौ पुत्र्यौ च मिलित्वा ते तत्र पञ्च सन्ति ।
(घ) राधिका एषु दिनेषु कूर्दमाना एव चलति ।
उत्तरम्:
गृहस्य छद्याः उपरि ।
(ङ) यतः गृहे नूतनाः अतिथयः सन्ति ।
उत्तरम्:
तत्र एव तस्याः मनः अस्ति ।
(च) गृहस्य छद्याः उपरि ।
उत्तरम्:
आम्, ते एव विशिष्टाः अतिथयः ।