Click here to access the best NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 11 Question Answer पृथिव्यां त्रीणि रत्नानि textbook exercise questions and answers.
पृथिव्यां त्रीणि रत्नानि Class 6th Sanskrit Deepakam Chapter 11 Question Answer
NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 11 पृथिव्यां त्रीणि रत्नानि
वयम् अभ्यासं कुर्मः
१. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च ।
(इन सभी सुभाषितों को जोर से पढ़ो, याद करो और लिखो ।)
२. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखें)
(क) पृथिव्यां कति रत्नानि सन्ति? – ……………..
उत्तरम्:
त्रीणि।
(ख) अयं निजः परो वा इति गणना केषां भवति ? – ………..
उत्तरम्:
लघुचेतसाम्।
(ग) कार्याणि क्रेन सिध्यन्ति ? – …………
उत्तरम्:
उद्यमेन ।
(घ) विद्या किं ददाति ? – …………
उत्तरम्:
विनयम् ।
(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ? – ………..
उत्तरम्:
स्वर्गात् ।
(च) लङ्का कीदृशी आसीत्? – ……………
उत्तरम्:
स्वर्णमयी।
![]()
३. अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।
(अधोलिखित प्रश्नों के उत्तर एक वाक्य में लिखो)
(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
उत्तरम्:
पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं च सन्ति ।
(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्:
उदारचरितानां वसुधा एव कुटुम्बकम् अस्ति ।
(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
उत्तरम्:
मृगाः स्वयमेव सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
(घ) अभिवादनशीलस्य नित्यं कानि वर्धन्ते ?
उत्तरम्:
अभिवादनशीलस्य नित्यं चत्वारि आयुर्विद्यायशोबलं वर्धन्ते ।
(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्:
मनुष्यः धनात् धर्मं प्राप्नोति ।
(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तरम्:
उत्पन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति ।
४. चित्रं दृष्ट्वा वाक्यानि रचयन्तु ।
(चित्र देखकर वाक्यों की रचना करो)

उदाहरणम्- वृक्षः फलानि यच्छति । त्वं फलानि स्वीकरोषि । अहं फलानि स्वीकरोमि ।
उत्तरम्:
(क) वृक्षः छायां यच्छति । छाया शीतला भवति । वयं छायायाम् विश्रामम् कुर्मः ।
(ख) वृक्ष: कर्गदम् यच्छति । कर्गदः उपयोगाय भवति। वयम् कर्गदेषु लिखामः ।
(ग) वृक्षः काष्ठं यच्छति । काष्ठम् इन्धनाय भवति। भवननिर्माणे काष्ठस्य आवश्यकता भवति ।
(घ) वृक्षः शुद्धं वायुं यच्छति । अनेन पर्यावरणस्य शुद्धिः भवति । शुद्धेन वायुना वयं स्वस्थाः भवामः ।
(ङ) वृक्षः पुष्पाणि यच्छति । पुष्पाणि सुगन्धं प्रसारयन्ति । पुष्पाणां माला भवति ।
५. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु ।

(अधोलिखित वाक्यों को पढ़कर ‘हाँ’ अथवा ‘नहीं’ में लिखो ।)
यथा – किं पृथिव्यां त्रीणि रत्नानि सन्ति? (आम्)
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति? …………
उत्तरम्:
न
(ख) किं धर्मेण सुखं प्राप्यते ? ……..
उत्तरम्:
आम्
(ग) किं विद्या विनयं ददाति ? ……..
उत्तरम्:
आम्
(घ) किम् अभिवादनशीलस्य विद्या वर्धते ? ………
उत्तरम्:
आम्
![]()
(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ? …………
उत्तरम्:
न
(च) किं जन्मभूमि स्वर्गात् गरीयसी भवति ?
उत्तरम्:
आम्
६. चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु ।

(चित्र में दर्शाए गए का नाम और लिङ्ग लिखो ।)
उत्तरम्:

७. वलये पदानि विलिख्य सुभाषितं पूरयन्तु ।
(घेरे में पदों को लिख कर सुभाषित पूरा करो।)

उत्तरम्:

८. पट्टिकातः पदानि चित्वा निर्देशानुसार पदानि लिखन्तु ।

(पट्टी से पदों को चुनकर निर्देशानुसार पद लिखो ।)
जननी धैर्यम् विद्या विनयः निजः पत्रम्
बुद्धि: मूलम् पराक्रमः शक्तिः धनम् उद्यमः
(क) प्रथमान्त-पुंलिङ्गपदानि सन्ति
1. उद्यमः
2. …………….
3. …………….
4. ……………
उत्तरम्:
1. उद्यमः
2. विनयः
3. निजः
4. पराक्रमः
(ख) प्रथमान्त – स्त्रीलिङ्गपदानि सन्ति
1. वसुधा
2. …………….
3. ……………
4. ……………
5. ……………
उत्तरम्:
1. वसुधा
2. जननी
3. विद्या
4. बुद्धिः
5. शक्ति:
(ग) प्रथमान्त नपुंसकलिङ्गपदानि सन्ति
1. साहसम्
2. ……………….
3. ……………….
4. ………………
5. ……………..
उत्तरम्:
1. साहसम्
2. धैर्यम्
3. पत्रम्
4. मूलम्
5. धनम्
![]()
९. पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु।
(पाठ में आए सुभाषितों को याद करके रिक्तस्थानों को पूरा करें।)
(क) पृथिव्यां त्रीणि रत्नानि ……… सुभाषितम्।
उत्तरम्:
पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्।
(ख) उदारचरितानां तु ……….. कुटुम्बकं भवति ।
उत्तरम्:
उदारचरितानां तु वसुधैव कुटुम्बकं भवति ।
(ग) उद्यमेन हि ………. सिद्ध्यन्ति ।
उत्तरम्:
उद्यमेन हि कार्याणि सिद्ध्यन्ति ।
(घ) अभिवादनशीलस्य वृद्धोपसेविनः ……….. वर्धन्ते ।
उत्तरम्:
अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या यशोबलं वर्धन्ते ।
(ङ) उद्यमः …………. पराक्रमः ।
उत्तरम्:
उद्यमः साहसं धैर्यं बुद्धिः वर्त्तन्ते, तत्र देवः सहायकृत् पराक्रमः ।
(च) विद्या ………… ददाति ।
उत्तरम्:
विद्या विनयं ददाति ।
(छ) जननी जन्मभूमिश्च ……….. गरीयसी भवति ।
उत्तरम्:
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति ।
![]()
१०. चित्राणि दृष्ट्वा उचितान् श्लोकांशान् लिखन्तु ।
(चित्र देखकर उचित श्लोकों का अंश लिखो)


उत्तरम्:
(क) उद्यमेन हि सिध्यन्ति कार्याणि ।
(ख) पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्।
(ग) जननीजन्मभूमिश्च स्वर्गादपि गरीयसी ।
(घ) पात्रत्वाद् धनम् आप्नोति ।
(ङ) उदारचरितानां तु वसुधैव कुटुम्बकम् ।
योग्यताविस्तरः
एतानि सुभाषितानि विविधग्रन्थेभ्य: स्वीकृतानि सन्ति ।
तेषां ग्रन्थानां परिचयः अत्र वर्णितः अस्ति, यथा-
(क) चाणक्यनीतिः – एषः एकः नीतिग्रन्थः अस्ति । अस्य रचनाकार: चाणक्यः अस्ति । अस्मिन् ग्रन्थे सूत्ररूपेण धर्म-संस्कृति-न्यायव्यवस्था – शान्ति – सुशिक्षा – इत्यादीनां विषये सुन्दरं विवरणम् अस्ति ।
(ख) मनुस्मृतिः – मनुस्मृतिः एकः प्रसिद्धः नीतिग्रन्थः धर्मग्रन्थः च अस्ति । अस्य रचनाकार: महर्षि मनुः अस्ति । अस्मिन् ग्रन्थे द्वादश अध्यायाः सन्ति । अस्मिन् ग्रन्थे संसारस्य उत्पत्तिः, धर्म, संस्कृतिः मनुष्यस्य कर्तव्यानि इत्यादीनां वर्णनम् अस्ति ।
(ग) पञ्चतन्त्रम्ः- पञ्चतन्त्रं कथाग्रन्थः अस्ति । अस्य रचनाकार: पण्डितः विष्णुशर्मा अस्ति । अस्मिन् पञ्च तन्त्राणि सन्ति । मित्रभेदः, मित्रलाभः काकोलूकीयम्, लब्धप्रणाशः, अपरीक्षितकारकं च ।
(घ) हितोपदेशः – हितोपदेशस्य रचनाकार : नारायणपण्डितः अस्ति। अस्मिन् पशु-पक्षिणां कथाभिः बालानां कृते नीतिबोध: प्रस्तुतः अस्ति ।
(ङ) रामायणम् – एषः ग्रन्थः भारतीयसंस्कृतेः आदर्शस्वरूपं दर्शयति । रामायणस्य रचयिता महर्षि वाल्मीकि : अस्ति । अस्मिन् ग्रन्थे भगवतः श्रीरामस्य चरितं वर्णितम् अस्ति । एषः ग्रन्थः आदिकाव्यम् इति नाम्ना प्रसिद्धः अस्ति ।
(घ) सुभाषितरत्नभाण्डागारः – अस्मिन् ग्रन्थे सुभाषितानां संग्रह: अस्ति । विविध संस्कृतग्रन्थेभ्य: सुभाषितानि चित्वा अस्मिन् ग्रन्थे तेषां सङ्कलनं कृतम् अस्ति ।
परियोजनाकार्यम्
१. पाठस्य सर्वाणि सुभाषितानि बृहत् स्फोरकपत्रे सचित्रं लिखित्वा कक्षायाः भित्तौ स्थापयन्तु ।
उत्तरम्:
स्वयेव कुर्वन्तु ।
२. सुभाषितेषु प्रयुक्तानां क्रियापदानां सूचीं कुर्वन्तु । तेषाम् आधारेण वाक्यरचनां कुर्वन्तु ।
उत्तरम्:
सुभाषितेषु प्रयुक्तानां क्रियापदानां वाक्यरचना:-
- भवन्ति – संस्कृते त्रीणि वचनानि भवन्ति ।
- सन्ति – अन्नम् जलं सुभाषितं च रत्नानि सन्ति ।
- सिध्यन्ति परिश्रमेण एव कार्याणि सिध्यन्ति ।
- प्रविशन्ति – मृगाः सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
- वर्धन्ते – अभिवादनशीलस्य आयुः विद्या, यशः बलम् च वर्धन्ते ।
- ददाति – विद्या विनयम् ददाति ।
- आप्नोति – योग्य नरः जीवने सर्वसुखं आप्नोति ।
- रोचते – मह्यम् मम देशं एव रोचते ।
- यच्छन्ति – धनिकाः दरिद्रेभ्यः भोजनं यच्छन्ति ।
३. विद्या, उद्यम, अभिवादनशीलः, इत्यादिगुणाः येषु सन्ति तादृशानां पञ्चानां महापुरुषाणां जीवनपरिचयं पठन्तु लिखन्तु च ।
उत्तरम्:
1. पण्डित जवाहरलालनेहरू महोदयः पण्डित जवाहरलालनेहरू महोदयः स्वतन्त्र – भारतस्य प्रथमप्रधानमन्त्री आसीत् । तस्य जन्म उत्तरप्रदेशस्य प्रयागराजनगरे अभवत् । तस्य पिता मोतीलाल नेहरू माता च स्वरूपारानी आस्ताम्। सः आङ्ग्लदेशं उच्चशिक्षार्थम् अगच्छत्। स्वतन्त्रतासंग्रामे तस्य महत् योगदानम् आसीत्। स्वतन्त्रतायै सः बहुवारं कारागारम् अगच्छत् । सः कुशलः राजनीतिज्ञ: लेखक: च आसीत् । तस्य बालकान् प्रति प्रेमपूर्ण आचरणं आसीत् । एतदर्थं तस्य जन्मदिनम् अपि ‘बालदिवस’ इति रूपेण मन्यते।
2. महात्मा गान्धिमहोदयः भारतीयानाम् प्रियः नेता महात्मा गान्धिमहोदयः अस्ति । तस्य पूर्णनाम ‘मोहनदास करमचन्द गाँधी’ अस्ति । तस्य जन्म गुजरातराज्ये ‘पोरबन्दर’ इति नगरे अभवत् । तस्य माता ‘पुतलीबाई’, पिता ‘करमचन्द गाँधी’ भार्या च ‘कस्तूरबा ‘ आसन्। सः सत्ये अहिंसायां च विश्वसिति स्म । भारतस्य स्वतन्त्रतायै सः बहुवारं कारागृहम् अगच्छत् । ‘राष्ट्रपिता’ महात्मा, ‘बापू’ इत्यादिभिः उपाधिभिः भारतीयाः तस्य सम्मानं अद्यापि कुर्वन्ति ।
3. स्वामी विवेकानन्दः विवेकानन्दस्य नाम नरेन्द्रनाथः आसीत् । सः रामकृष्ण परमहंसस्य शिष्यः आसीत्। भारतीयानाम् दुर्दशां परतन्त्रताम् च दृष्ट्वा तस्य मनः अति खिन्नम् अभवत् । अमेरिकादेशे शिकागोनगरे अखिल विश्व धार्मिक-सम्मेलने भाषणं कृत्वा अयं महापुरुषः प्रसिद्धि प्राप्तवान् । अयं युगपुरुष: सम्पूर्ण विश्वे प्रातः स्मरणीयः अस्ति ।
4. महात्मा बुद्धः भारतवर्षे कपिलवस्तु नगरे राजपरिवारे अस्य जन्म अभवत् । अस्य नाम ‘सिद्धार्थः ‘ आसीत्। पिता शुद्धोधनः आसीत् माता च मायादेवी । बाल्याकालात् एव सः गम्भीर विरक्तमनः दयालुः च आसीत् । अस्य विवाह: ‘यशोधरा’ नाम कन्यया सह अभवत् । ‘राहुल: ‘ तस्य पुत्रः आसीत् । एकदा रात्रौ सः सर्वम् त्यक्त्वा गृहात् निर्गतः । स्थानात् स्थानं भ्रमन् सः बोधगयाम् अगच्छत् । तत्रैव सः वटमूले तपः अकरोत् महाबोधं च अलभत् । अत एव सः ‘बुद्ध:’ इति नाम्ना विख्यातः अभवत् । तेन बौद्धधर्मस्य प्रचारः प्रसारः च कृतः।
5. स्वामी दयानन्दः भारतस्य प्रमुखः समाज सुधारक: स्वामी दयानन्दः आसीत् । तस्य जन्म भारतस्य गुजरातप्रदेशे 1824 तमे वर्षे फरवरी मासस्य 12 दिनांके अभवत् । अध्यात्मविषये तस्य विशेषरुचिः आसीत् । सः आर्यसमाजस्य स्थापना अकरोत् । सः वैदिक शिक्षायाः प्रचाराय प्रसाराय च कार्यम् अकरोत् । अस्पृश्यता जातिभेदः इत्यादीनां सामाजिक दोषाणाम् सः तीव्रं विरोधं अकरोत् । ‘सत्यार्थ प्रकाश’ इति तेन लिखित: महत्वपूर्ण: ग्रन्थः प्रसिद्धः अस्ति ।
४. “वसुधैव कुटुम्बकम्” इति विषये एकां भाषणप्रतियोगिताम् आयोजयन्तु ।
उत्तरम्:
‘वसुधैव कुटुम्बकम्’: सृष्टेः स्त्रष्टा ईश्वर: एकः एव अस्ति । संसारस्य सर्वे प्राणिनः ईश्वरस्य सन्ततिः । अतः सम्पूर्णे विश्वे स्थिताः जनाः रूप-वर्ण- भाषा-संस्कृति-भेदान् धारयन्तः अपि ते सर्वे समानाः एव सन्ति। अतः श्रेष्ठः जनः सर्वप्राणिषु समानं व्यवहारं करोति, सर्वे स्निह्यति ते कमपि न पीडयति । भारतीयाः एतदर्थम् कथयन्ति । ‘सर्वे भवन्तु सुखिन: ‘ सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। अस्माकम् कृते तु वसुधैव कुटुम्बकम् इव अस्ति ।
![]()
पठित-अवबोधनम्|
१. अधोलिखितश्लोकं पठित्वा प्रश्नानाम् उत्तरत-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः । ।
प्रश्ना:-
I. एकपदेन उत्तरत-
प्रश्न i.
के मुखे न प्रविशन्ति ?
उत्तरम्:
मृगा:
प्रश्न ii.
उद्यमेन कानि सिध्यन्ति ?
उत्तरम्:
कार्याणि
प्रश्न iii.
मनोरथैः कानि न सिध्यन्ति ?
उत्तरम्:
कार्याणि
प्रश्न iv.
कार्याणि केन सिध्यन्ति ?
उत्तरम्:
उद्यमेन
II. पूर्णवाक्येन उत्तरत-
(i) मृगाः कस्य मुखे न प्रविशन्ति ?
उत्तरम्:
मृगाः सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
III. निर्देशानुसारं उत्तरत-
(i) ‘मनोरथैः’ इति पदे का विभक्तिः ?
(क) द्वितीया
(ग) षष्ठी
(ख) तृतीया
(घ) सप्तमी
उत्तरम्:
(ख) तृतीया
(ii) प्रविशन्ति ‘ अत्र कः लकारः ?
(क) लृट्
(ख) लटू
(ग) लङ्
(घ) लोट्
उत्तरम्:
(क) लृट्
२. निम्नलिखितश्लोकस्य अन्वयं मञ्जूषातः समुचितं पदं चित्वा पूरयत-
श्लोक – विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मः ततः सुखम् ।।
![]()
मञ्जूषा – धर्मः, विनयं धनम्,
अन्वयः – विद्या ……..(i)……… ददाति विनयात् ……… (ii)…… याति पात्रत्वात् …….(iii)……. आप्नोति, धनात् ……(iv)……. ततः सुखम्।
उत्तरम्:
(i) विनयं
(iii) धनम्
(ii) पात्रताम्
(iv) धर्म:
![]()
३. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(i) लङ्का स्वर्णमयी आसीत्।
उत्तरम्:
लङ्का कीदृशी आसीत्?
(ii) अभिवादनशीलस्य चत्वारि वर्धन्ते ।
उत्तरम्:
कस्य चत्वारि वर्धन्ते ?
(iii) देवः सहायक : भवति ।
उत्तरम्:
कः सहायक : भवति ?
(iv) विद्या विनयं ददाति ।
उत्तरम्:
का विनयं ददाति ?
(v) पात्रत्वात् धनम् आप्नोति ।
उत्तरम्:
पात्रत्वाद् किम् आप्नोति ? दैः सह मेलयत-
४. पर्यायपदैः

उत्तरम्:
