Students can easily access the NCERT Solutions for Class 10 Sanskrit Grammar Book अपठित-अवबोधनम् Questions and Answers which include important questions and deep explanations provided by our experts.
Sanskrit Vyakaran Class 10 Solutions अपठित-अवबोधनम्
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत
निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के उत्तर लिखें।
Read the following passage and answer the questions given:
प्रश्न 1.
आदर्शरामचरितस्य लेखकः वाल्मीकिः जनमानसस्य हृदये प्रतिष्ठितः। एकदा तमसातीरे भ्रमता सः निषादेन विध्यमानमेकं क्रौञ्चपक्षिणमपश्यत्। करुणाभिभूतस्य तस्य मुखात् अनुष्टुप् छन्दसि श्लोकः नि:सृतः। तदा ब्राह्मणः आदेशेन सः अस्मिन् छन्दसि रामायणमहाकाव्यम् अलिखत्। रामायणे मर्यादापुरुषोत्तमस्य रामस्य चरित्रं निबद्धम्। पित्रोः आज्ञया रामः चतुर्दशवर्षाणि वने अवसत्। रामायणे तत्कालीन समाज व्यवस्थायाः विशदं वर्णनं प्राप्यते। अस्य ग्रन्थस्य विश्वस्य अनेकासु भाषासु अनुवादः कृतः। अस्य कथानकमाश्रित्य संस्कृतस्य अनेके कवयः ग्रन्थान् अरचयन्। अस्य ग्रन्थस्य पाठं जनाः प्रतिदिनं कुर्वन्ति। रामायणे सप्तकाण्डानि चतुर्विंशतिसहस्त्रश्लोकाश्च सन्ति।
प्रश्ना :
I. एकपदेन उत्तरत
(i) वाल्मीकिः निषादेन विध्यमानं क्रौञ्चपक्षिणं कुत्र अपश्यत्?
(ii) कस्मिन् छन्दसि रामायणं लिखितम्?
उत्तर:
(i) तमसातीरे
(ii) अनुष्टुप्
II. पूर्णवाक्येन उत्तरत
(i) रामायणे कति काण्डानि, कति श्लोकाश्च सन्ति?
(ii) रामायणे कस्याः विशदं वर्णनं प्राप्यते?
उत्तर:
(i) रामायणे सप्तकाण्डानि चतुर्विंशतिसहस्त्रश्लोकाश्च सन्ति।
(ii) रामायणे तत्कालीन समाजस्य व्यवस्थायाः विशदं वर्णनं प्राप्यते।
More Resources for CBSE Class 10
- NCERT Solutions
- NCERT Solutions for Class 10 Science
- NCERT Solutions for Class 10 Maths
- NCERT Solutions for Class 10 Social
- NCERT Solutions for Class 10 English
- NCERT Solutions for Class 10 Hindi
- NCERT Solutions for Class 10 Sanskrit
- NCERT Solutions for Class 10 Foundation of IT
- RD Sharma Class 10 Solutions
III. निर्देशानुसारम्
(i) ‘संस्कृतस्य अनेके कवयः ग्रन्थान् अरचयन्।’ अत्र ‘अरचयन्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) ग्रन्थान्
(ख) कवयः
(ग) अनेके
(घ) संस्कृतस्य
उत्तर:
(ख) कवयः
(ii) ‘रामायणे मर्यादापुरुषोत्तमस्य रामस्य चरित्रं निबद्धम्’ अत्र ‘रामस्य’ इति पदस्य किं विशेषणपदं प्रयुक्तम्?
(क) रामस्य
(ख) मर्यादा
(ग) मर्यादापुरुषोत्तमस्य
(घ) चरित्रम्
उत्तर:
(ग) मर्यादापुरुषोत्तमस्य
(iii) ‘निषादेन’ इति पदस्य पर्यायपदं किम्?
(क) व्याधेन
(ख) हर्षेण
(ग) करुणा
(घ) मर्यादा
उत्तर:
(क) व्याधेन
(iv) ‘ब्राह्मणः आदेशेन सः …’ अत्र ‘सः’ इति पदं कस्मै प्रयुक्तम्?
(क) रामाय
(ख) वाल्मीकये
(ग) पुरुषोत्तमाय
(घ) मर्यादायै
उत्तर:
(ख) वाल्मीकये
IV. अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तर:
रामायणस्य प्रणेता ‘वाल्मीकिः’।
प्रश्न 2.
भारतद्वारं प्रसिद्ध स्मारकं वर्तते। वीराणां बलिदानस्य पुण्यस्मृतिस्थलम् इदम्। अस्मिन् द्वारे वीराणां नामानि उत्कीर्णानि सन्ति। इदम् ऐतिहासिकं स्थलं दृष्ट्वा जनाः नतमस्तकाः भवन्ति।
भारतद्वारं परितः हरिताः वृक्षाः शोभन्ते। देश-विदेशेभ्यः आगताः जनाः भारतद्वारं द्रष्टुम् आगच्छन्ति। एतत् द्वारं सर्वान् आकर्षयति। विस्तृताः स्वच्छाः मार्गाः, हरिताः वृक्षाः अस्य शोभां वर्धन्ते। भारतद्वारस्य पार्वे ‘बोटक्लब’ इति पर्यटनस्थलम् अस्ति।अवकाशदिवसे तु जनाः परिवारेण सह अत्र आगच्छन्ति। अनागत्य सहभोजनं कुर्वन्ति।
रात्रौ विद्युद्दीपकानां प्रकाशैः प्रकाशितं भारतद्वारम् दूरात् एव सुशोभते। गणतन्त्रदिवसे स्वतन्त्रतादिवसे च जनाः अत्रागत्य दिवङ्गतसैनिकान् स्मरन्ति तेभ्यः श्रद्धाञ्जलिं च यच्छन्ति। भारतद्वारं भारतस्य गौरवम् अस्ति ।
प्रश्ना :
I. एकपदेन उचितम् उत्तरं लिखत
(i) भारतद्वारं परितः के शोभन्ते?
(ii) भारतस्य गौरवं किम्?
उत्तर:
(i) वृक्षाः
(ii) भारतद्वारम्
II. पूर्णवाक्येन उत्तरत
(i) भारतद्वारस्य शोभा के के वर्धन्ते?
(ii) कैः प्रकाशितं भारतद्वारं दूरादेव शोभते?
उत्तर:
(i) भारतद्वारस्य शोभा विस्तृताः स्वच्छाः मार्गाः हरिताः वृक्षाः च वर्धन्ते।
(ii) विद्युद्दीपकानाम् प्रकाशैः प्रकाशितं भारतद्वारं दूरादेव शोभते।
III. विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘स्मरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(अ) वीराः
(ब) जनाः
(स) पर्यटकाः
(द) सर्वे
उत्तर:
(ब) जनाः
(ii) ‘प्रकाशितम्’ इति पदं कस्य विशेषणपदम् अस्ति?
(अ) स्मारकस्य
(ब) बलिदानस्य
(स) भारतद्वारस्य
(द) भारतस्य
उत्तर:
(स) भारतद्वारस्य
(iii) ‘निशायाम्’ इत्यर्थे अत्र किं पदं प्रयुक्तम्?
(अ) प्रकाशे
(ब) दिवसे
(स) द्वारे
(द) रात्रौ
उत्तर:
(द) रात्रौ
(iv) ‘इदम् ऐतिहासिक स्थलं दृष्ट्वा जनाः नतमस्तकाः भवन्ति’ इति वाक्ये ‘इदम् ‘ सर्वनामपदं कस्मै प्रयुक्तम्?
(अ) स्मारकाय
(ब) स्थलाय
(स) भारतद्वाराय
(द) द्वाराय
उत्तर:
(स) भारतद्वाराय
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत।
उत्तर:
‘भारतस्य गौरवम् भारतद्वारम्’।
प्रश्न 3
एकस्मिन् गृहे आसीत् एका वीणा। यदा कदा यः कोऽपि तत्र गच्छति स वीणां वादयति स्म। परन्तु वीणाशब्दः सम्यक् नास्फुरत्। तस्याः शब्दं श्रुत्वा सर्वे कर्णपीडाम् अनुभवन्ति स्म। कदाचित् क्रोधेन गृहमुख्यः तां वीणा बहिः निष्कास्य स्थापितवान्। एकः भिक्षुकः तां वीणां प्राप्य गृहस्य वरण्डे उपविश्य तां वीणां वादितवान्। वीणायाः मनोहरशब्देन जनाः तत्र एकत्रिताः अभवन्। परिवारसदस्याः अपि चकिताः अभवन्। यथेयं वीणा तथा जीवन-वीणा। तस्याः स्वरसंयोजनार्थम् अस्माभिः यत्न कर्तव्यः। सत्कर्म-साधनं विना, रागद्वेषपरिहारं विना कौशलशिक्षणं विना च जीवनवीणास्वरः सर्वेषाम् आकर्षणे समर्थो न स्यात्। अतः सर्वैः मानवैः तदर्थमेव यत्न विधेयः। (CBSE 2015)
प्रश्ना :
I. एकपदेन उचितम् उत्तरं लिखत
(i) एकस्मिन् गृहे का आसीत्?
(ii) वीणायाः मनोहरशब्देन के एकत्रिताः अभवन्?
उत्तर:
(i) वीणा
(ii) जनाः
II. पूर्णवाक्येन उत्तरत
(i) कस्याः स्वरसंयोजनार्थम् अस्माभिः यत्नः कर्त्तव्यः?
(ii) भिक्षुकः कुत्र उपविश्य वीणां वादितवान्?
उत्तर:
(i) जीवन-वीणायाः स्वरसंयोजनार्थम् अस्माभिः यत्नः कर्त्तव्यः।
(ii) भिक्षुकः गृहस्य वरण्डे उपविश्य वीणाम् वादितवान्।
III. निर्देशानुसारम् प्रदत्तविकल्पेभ्य उचितम् उत्तरं चित्वा लिखत
(i) ‘स्थापितवान्’ इति क्रियापदस्य कर्तृपदं किम्?
(अ) वीणा
(ब) सः
(स) गृहमुख्यः
(द) भिक्षुकः
उत्तर:
(स) गृहमुख्यः
(ii) ‘तस्याः स्वरसंयोजनार्थम्’ अत्र ‘तस्याः’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(अ) सदस्यैः
(ब) वीणायै
(स) कर्णपीडायै
(द) सर्वैः
उत्तर:
(ब) वीणायै
(iii) ‘आकर्ण्य’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(अ) श्रुत्वा
(ब) निष्कास्य
(स) उपविश्य
(द) प्राप्य
उत्तर:
(अ) श्रुत्वा
(iv) ‘स्वरः’ इति कर्तृपदस्य किं क्रियापदम् अत्र प्रयुक्तम्?
(अ) कर्त्तव्यः
(ब) विधेयः
(स) अभवन्
(द) स्यात्
उत्तर:
(द) स्यात्
IV. अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
‘जीवनवीणास्वरः’ / ‘जीवनस्वर: वीणास्वरः इव’।
प्रश्न 4
महाकवि कालिदासः न केवलं संस्कृतसाहित्यस्य अपितु विश्वसाहित्यस्य श्रेष्ठः कविः अस्ति। अतएव इंगलैण्डदेशवासिनः स्वकीयाभ्यां सर्वश्रेष्ठाभ्यां दान्ते-वर्जिलाभ्यां सह तस्य तुलनां कुर्वन्ति। जर्मनी देशवासिनः तु तं “शेक्सपीयर” इति कथयन्ति। एषः महान् कवि नाटककारः चासीत्। कालिदासेन विरचिताः सप्त ग्रन्थाः सन्ति। एतेषु रघुवंश कुमारसंभवम् इति द्वे महाकाव्ये, ऋतुसंहार मेघदूतम् नामके द्वे खण्डकाव्ये, अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रम् चेति त्रीणि नाटकानि सन्ति। सौन्दर्य-वर्णने काव्यप्रतिभायां च महाकविः कालिदासः अद्यापि अप्रतिमः वर्तते। भारतीय महाकविषु सः ‘कविकुलगुरु’ इति उपाधिना विभूषितः।
प्रश्ना :
I. एकपदेन उत्तरत
(i) कालिदासः कति नाटकानि अरचय?
(ii) कः कविकुलगुरुः कथ्यते?
उत्तर:
(i) त्रीणि
(ii) कालिदासः
II. पूर्णवाक्येन उत्तरत
(i) कस्मिन् विषये कालिदासः अद्यापि अप्रतिमः वर्तते?
(ii) कालिदासस्य द्वे महाकाव्ये के स्तः?
उत्तर:
(i) सौन्दर्य-वर्णने काव्यप्रतिभायां च विषये कालिदासः अद्यापि अप्रतिमः वर्तते।
(ii) रघुवंशम्, कुमारसम्भवं च कालिदासस्य द्वे महाकाव्ये स्तः।
III. निर्देशानुसारमुत्तरत
(i) श्रेष्ठः कविः अनयोः पदयोः किम् विशेषणपदम् अस्ति?
(क) श्रेष्ठः
(ख) कविः
(ग) श्रेष्ठः कविः
(घ) कालिदासः
उत्तर:
(क) श्रेष्ठः
(ii) ‘अद्वितीयः’ इत्यर्थे गद्यांशे किम् पदम् प्रयुक्तम्?
(क) नाटककारः
(ख) प्रसिद्धः
(ग) अप्रतिमः
(घ) काव्यप्रतिभा
उत्तर:
(ग) अप्रतिमः
(iii) जर्मनीदेशवासिनः तु ‘तं’ शेक्सपीयर इति कथयति अत्र ‘तं’ इति पदं कस्मै प्रयुक्तम्
(क) शेक्सपीयर इति पदाय
(ख) कालिदासाय
(ग) भारताय
(घ) मेघदूताय
उत्तर:
(ख) कालिदासाय
(iv) ‘कालिदासः अद्यापि अप्रतिमः वर्तते’ अस्मिन् वाक्यांशे ‘वर्तते’ क्रियापदस्य कर्तृपदम् किम्?
(क) अद्यापि
(ख) अप्रतिमः
(ग) कालिदासः
(घ) अपि
उत्तर:
(ग) कालिदासः
IV. अस्य गद्यांशस्य उचितम् शीर्षकम् लिखत।
उत्तर:
महाकवि कालिदासः।
प्रश्न 5
ज्ञानप्राप्ति कृते अनेकानि साधनानि भवन्ति। कक्षायां वयं पुस्तकेभ्यः ज्ञान प्राप्तुमः, परं व्यावहारिक ज्ञानं जगतः प्राप्तुं शक्यते, यद्धि जीवनाय परमोपयोगि। व्यावहारिकज्ञानस्य प्राप्तिकृते लोकव्यवहारः सर्वाधिक महत्त्वपूर्ण साधनमस्ति। लोकव्यवहारज्ञानं देशस्य विभिन्नप्रदेशानां पर्यटनेन सरलतया भवति।
सममेव तत्रत्य-संस्कृति-वेषभूषा-वातावरण-भूगोल-इतिहास-उत्सव-प्रथादीनां विषयाणां ज्ञानं भवति। एतदेव कारणं यद् विद्यालयेषु छात्राणां कृते अवकाशकाले शैक्षणिकयात्रायाः आयोज़नं क्रियते। (CBSE 2018)
प्रश्ना :
I. एकपदेन उत्तरत
(i) ज्ञानप्राप्ति कृते कति साधनानि भवन्ति?
(ii) व्यावहारिकं ज्ञानं कुतः प्राप्तुं शक्यते?
(iii) विद्यालयेषु शैक्षणिकयात्रायाः आयोजनं कदा क्रियते?
(iv) व्यावहारिकं ज्ञानं कस्मै परमोपयोगि?
उत्तर:
(i) अनेकानि
(ii) जगतः
(ii) अवकाशकाले
(iv) जीवनाय
II. पूर्णवाक्येन उत्तरत
(i) विभिन्नप्रदेशानां पर्यटनेन केषां ज्ञानं भवति?
(ii) व्यावहारिकज्ञानप्राप्तये महत्त्वपूर्ण साधनं किम्?
उत्तर:
(i) विभिन्नप्रदेशानां पर्यटनेन लोकव्यवहारस्य ज्ञानं भवति।
(ii) व्यावहारिकज्ञानप्राप्तये लोकव्यवहारः महत्त्वपूर्ण साधनं अस्ति।
III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘प्राप्नुमः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) कक्षायाम्
(ख) वयम्
(ग) छात्राणाम्
(घ) जीवनाय
उत्तर:
(ख) वयम्
(ii) ‘विद्यार्थिनाम्’ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
(क) विषयाणाम्
(ख) प्रथादीनाम्
(ग) छात्राणाम्
(घ) शैक्षणिकयात्रायाः
उत्तर:
(ग) छात्राणाम्
(iii) ‘मृत्युकाले’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(क) प्राप्तुम्
(ख) क्रियते
(ग) जीवनाय
(घ) सरलतया
उत्तर:
(ग) जीवनाय
(iv) ‘साधनानि’ इति पदस्य किं विशेषण पदं प्रयुक्तम्?
(क) आयोजनम्
(ख) महत्त्वपूर्णम्
(ग) अनेकानि
(घ) विद्यालयेषु
उत्तर:
(ग) अनेकानि
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं संस्कृतेन लिखत।
उत्तर:
‘लोकव्यवहारः।
प्रश्न 6
सुन्दरराजः सोमदेवस्य गृहे उद्योगी आसीत्। सः सोमदेवे विशेषविश्वासं प्रदर्शयति स्म। दश वर्षाणि यावत् सः सोमदेवस्य गृहे कार्यं कृतवान्, तथापि सोमदेवः तस्य वेतनं न वर्धितवान्। अतः खिन्नः सुन्दरराजः सोमदेवस्य गृहस्य कार्य परित्यज्य दुर्गदेवस्य गृहे उद्योग प्राप्तवान्। सोमदेवः यावत् वेतनं ददाति स्म ततोऽपि द्विगुणितं वेतनं ददाति स्म दुर्गदेवः। विश्वासः तस्मिन् एव कर्तुं शक्यते, यश्च विश्वासपात्रं भवति। (CBSE 2017)
प्रश्नाः
I. एकपदेन उत्तरत
(i) सोमदेवे क: विशेषविश्वासं प्रदर्शयति स्म?
(ii) दुर्गदेवः कियत् वेतनं ददाति स्म?
उत्तर:
(i) सुन्दरराजः
(ii) द्विगुणितं
II. पूर्णवाक्येन उत्तरत
(i) सुन्दरराजः कियत् वर्षाणि यावत् सोमदेवस्य गृहे कार्यं कृतवान्?
(ii) विश्वासः कस्मिन् एव कर्तुं शक्यते?
उत्तर:
(i) सुन्दरराजः दश वर्षाणि यावत् सोमदेवस्य गृहे कार्यं कृतवान्।
(ii) विश्वासः तस्मिन् एव कर्तुम् शक्यते, यः च विश्वासपात्रं भवति।
III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘खिन्नः’ इति कस्य पदस्य विशेषणम्?
(क) सोमदेवस्य
(ख) सुन्दरराजस्य
(ग) दुर्गदेवस्य
(घ) भीमदेवस्य।
उत्तर:
(ख) सुन्दरराजस्य
(ii) ‘वर्धितवान्’ इति क्रियापदस्य किं कर्तृपदं गद्यांशे प्रयुक्तम्?
(क) सुन्दरराजः
(ख) दुर्गदेवः
(ग) सोमदेवः
(घ) रामदेवः।
उत्तर:
(ग) सोमदेवः
(iii) ‘पर्यन्तम्’ इत्यर्थ किम् अव्ययपदं गद्यांशे प्रयुक्तम्?
(क) अत एव
(ख) ततः
(ग) यावत्
(घ) तथापि
उत्तर:
(ग) यावत्
(iv) ‘उद्यमी’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
(क) विश्वासपात्रम्
(ख) उद्योगम्
(ग) उद्योगी
(घ) परिश्रमी
उत्तर:
(ग) उद्योगी
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं संस्कृतेन लिखत।
उत्तर:
‘अति-विश्वासः न करणीयः’।
प्रश्न 7
संसारे सज्जनाः तथैव दुर्जनाः अपि वर्तन्ते। सज्जनानां संगतिः सत्सङ्गतिः दुर्जनानां संगतिश्च कुसंगतिः भवति। सामाजिकः प्राणी संगतिं विना स्थातुं न शक्नोति। अतः मनुष्याय संगतिः अनिवार्या एव। सत्सङ्गत्या मनुष्यः सदैव उन्नतिं करोति कुसङ्गत्या तु सः पतनमार्गे नूनं पतति। गुणं विना कोऽपि मानवः सन्मानवः न भवति। सत्संगेन सज्जनः सन्मार्गम् अनुसरति, गुणानभिनन्दति। सत्संगस्य प्रभावेन मनुष्येषु शनैः शनैः गुणाः प्रविश्यन्ति अवगुणाश्च बहिः निर्गच्छन्ति। संगस्य प्रभावः सर्वत्र दृश्यते। उक्तञ्च-‘कोटोऽपि सुमनः संगात् आरोहति सतां शिरः’ सत्संगत्या मनुष्यः समाजे मानं प्राप्नोति किन्तु कुसंगतौ पतित्वा तु मनुष्यः अपयशः निन्दाम् अपमानमेव प्राप्तनोति किन्तु कुसंगतौ पतित्वा तु मनुष्यः
अपयशः निन्दाम् अपमानवमेव प्राप्नोति। अतः सर्वदा सत्संगतौ एव वस्तव्यम्। (CBSE 2016)
प्रश्ना :
I. एकपदेन उत्तरत
(i) केषां संगतिः सत्संगतिः भवति?
(ii) संगतिः कस्मै अनिवार्या एव अस्ति?
(iii) कुत्र सज्जनाः दुर्जनाः च वर्तन्ते?
(iv) कया मनुष्यः पतनमार्गे नूनं पतति?
उत्तर:
(i) सज्जनानाम्
(ii) मनुष्याय
(iii) संसारे
(iv) कुसङ्गत्या
II. पूर्णवाक्येन उत्तरत
(i) सत्संगेन मनुष्यः किं किं करोति?
(ii) कुसंगतौ पतित्वा मनुष्यः किं प्राप्नोति?
उत्तर:
(i) सत्संगेन मनुष्यः सदैव उन्नतिं करोति। सत्संगस्य प्रभावेण मनुष्येषु शनैः शनैः गुणाः प्रविश्यन्ति अवगुणाः च बहिः निर्गच्छन्ति।
(ii) कुसंगतौ पतित्वा मनुष्यः अपयशः निन्दाम् अपमानम् एव प्राप्नोति।
III. निर्देशानुसारम् उत्तरत
(i) ‘आरोहति’ इति क्रियापदस्य कर्तृपदं गद्यांशात् चित्वा लिखत्?
(क) संगात्
(ख) अनुसरति
(ग) सुमनः
(घ) कीट:
उत्तर:
(घ) कीट:
(ii) सः पतनमार्गे नूनं पतति अत्र ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) कीटाय
(ख) गुणाय
(ग) मनुष्याय
(घ) प्रभावाय
उत्तर:
(ग) मनुष्याय
(iii) ‘कुमार्गम्’ इत्यस्य विलोमपदं चित्वा लिखत?
(क) सन्मार्गम्
(ख) नूनम्
(ग) वस्तव्यम्
(घ) सत्संगतिः
उत्तर:
(क) सन्मार्गम्
(iv) ‘प्राणी’ इति पदस्य विशेषणपदं किम्?
(क) सामाजिकः
(ख) मनुष्यः
(ग) दुर्जनः
(घ) कीट:
उत्तर:
(क) सामाजिकः
IV. गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर:
‘सत्संगस्य प्रभावः । सत्संगतौ एव वस्तव्यम्’।
प्रश्न 8.
जगति परोपकार एव धर्मः। परोपकार-प्रवृत्तो हि धर्मात्मा पुण्यात्मा च अस्ति। उत्तमाः पुरुषाः तु स्वार्थम् उपेक्ष्य अपि परहितसाधनतत्पराः भवन्ति। स्वोदरभरणरताः तु काककुक्करा एव सन्ति। वयं पश्यामः हि यत् प्रकृतिः अपि परहितसाधनपरा वर्तते। वृक्षाः परोपकाराय एव सुस्वादूनि फलानि फलन्ति। नद्यः परोपकाराय एव शीतलं जलं वहन्ति। गावः तु परोपकाराय एव प्रकृत्या मधुरं पयः दुहन्ति। सर्वत्र एव प्रकत्या परोपकारार्थ स्वशरीरमर्पितं क्रियते। अत्रैव शरीरस्य साफल्यम् अस्ति। परोपकाराय एव पादपः तीव्रतमं सूर्यतापं स्वमूर्ध्नि सहमानः स्वाश्रितेभ्यः पथिकेभ्यः छायां विस्तार्य सुखं वितरति। यथा दिनकरः पद्याकरं विकासयति, निशाकरः कैरवकुलं विकासयति, मेघः जलं यच्छति। परोपकार एव शरीरस्य सत्यं भूषणमस्ति। (CBSE 2015)
प्रश्ना :
I. एकपदेन उत्तरत
(i) जगति कः धर्मः?
(ii) परोपकारः शरीरस्य कीदृशं भूषणम् अस्ति?
उत्तर:
(i) परोपकारः
(ii) सत्यं
II. पूर्णवाक्येन उत्तरत
(i) स्वोदरभरणरताः मनुष्याः कीदृशाः भवन्ति?
(ii) प्रकृतिः परोपकारार्थं किं करोति?
उत्तर:
(i) स्वोदरभरणरताः मनुष्याः काककुक्कुराः एव भवन्ति।
(ii) प्रकृतिः परोपकारार्थम् स्वशरीरम् अर्पितम् करोति।
III. भाषिककार्यम्
(i) ‘वहन्ति’ पदस्य कर्तृपदं किम् अस्ति ?
(क) परोपकारः
(ख) धर्मः
(ग) दिनकरः
(घ) नद्यः
उत्तर:
(घ) नद्यः
(ii) ‘शीतलं जलं’ अनयोः पदयोः किं विशेष्यपदम् अस्ति?
(क) शीतलं
(ख) जलम्
(ग) शीतलजलम्
(घ) नद्यः
उत्तर:
(ख) जलम्
(iii) ‘दुष्टात्मा’ पदस्य विलोमपदं लिखत।
(क) सूर्यतापं
(ख) पुण्यात्मा
(ग) उत्तमाः
(घ) पद्माकरं
उत्तर:
(ख) पुण्यात्मा
(iv) ‘तरवः’ पदस्य समानार्थकपदम् गद्यांशात् चित्वा लिखत।
(क) वृक्षाः
(ख) नद्यः
(ग) पुरुषाः
(घ) गावः
उत्तर:
(क) वृक्षाः
IV. अनुच्छेदम् आधृत्य समुचितं शीर्षकं लिखत।
उत्तर:
‘परोपकारः सर्वोत्तमः धर्म:’।
प्रश्न 9
‘कः श्रेष्ठः? अहं ईश्वरः वा?’ अहंकारी राजा राज्यसभायां स्वराज्यस्य सर्वान् पण्डितान् पृष्टवान् “किं कर्तव्यम् यदि सत्यं वदेम् तर्हि प्राणहानिः तु निश्चिता अस्ति’ इति परस्परं विचारयन्तः भयत्रस्ताः पण्डिताः निरूत्तराः अभवन् राजानं च प्रार्थयन् देव दिनद्वयस्य अवधिः दीयताम्’ ‘तथास्तु’ राजा अवदत्। ‘अलं चिन्तया। अहं उत्तरं दास्यामि।’ चिन्ताकुलेषु तेषु एकः ज्ञानवृद्धः पण्डितः अकथयत्। नियते दिने सर्वे पण्डिताः राज्यसभां प्राप्तवन्तः। अञ्जलिं बद्धवा दण्डवत् प्रणम्य सः ज्ञानवृद्धः राजानम् अवदत् “राजन् निस्सन्देहं भवान् एव श्रेष्ठः न तु ईश्वरः।” ‘तत् कथम्’ गर्वेण मदोद्धतः राजा अपृच्छत्। ‘भवान् एव श्रेष्ठः’ यतः भवान् अस्मान् स्वराज्यात् बहिः निष्कासयितुं समर्थः। ईश्वरः स्वनिर्मितात् जगतः अस्मान् बहिष्कृत्य कुत्र निवासं दास्यति पण्डितः उदतरत्। (CBSE 2015)
प्रश्ना:
I. एकपदेन उत्तरत
(i) राजा आत्मानं कं मन्यते स्म?
(ii) राजा केन मदोद्धतः आसीत?
(iii) पण्डिताः कति दिवसानाम् अवधिम् अयाचन्?
(iv) पण्डितेषु क: राज्ञे उत्तरम् अयच्छत्?
उत्तर:
(i) ईश्वरः
(ii) गर्वेण
(iii) दिनद्वयस्य
(iv) एकः ज्ञानवृद्धः पण्डितः
II. पूर्णवाक्येन उत्तरत
(i) पण्डिताः किमर्थम् भयभीताः अभवन्?
(ii) राजा किं कर्तुं समर्थः ईश्वरः च किं कर्तुं समर्थः न अस्ति?
उत्तर:
(i) ‘किं कर्तव्यम् यदि सत्यं वदेम् तर्हि प्राणहानिः तु निश्चिता अस्ति’ इति परस्परं विचारयन्तः पण्डिताः भयभीताः आसन्।
(ii) राजा स्वराज्यात् बहिः निष्कासयितुम् समर्थः अस्ति परम् ईश्वरः स्वनिर्मितात् जगतः जनान् बहिष्कृत्य कुत्र निवासं दास्यति।
III. निर्देशानुसारम् उत्तरत
(i) ‘यतः भवान् अस्मान् स्वराज्यात् बहिः निष्कासयितुं समर्थः’ अत्र ‘अस्मान्’ पदं कस्मै प्रयुक्तम्?
(क) ज्ञानवृद्धान्
(ख) पण्डितान्
(ग) पण्डितेभ्यः
(घ) राजे
उत्तर:
(ग) पण्डितेभ्यः
(ii) ‘जगतः’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम्?
(क) समर्थः
(ख) स्वनिर्मितात्
(ग) श्रेष्ठः
(घ) स्वराज्यात्
उत्तर:
(ख) स्वनिर्मितात्
(iii) अस्मिन् अनुच्छेदे ‘समयः’ इत्यर्थ किं पदं प्रयुक्तम्?
(क) नियते
(ख) अञ्जलिं
(ग) अवधिः
(घ) निश्चिता
उत्तर:
(ग) अवधिः
(iv) ‘अन्तः’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) बहिः
(ख) बहिष्कृत्य
(ग) मदोद्धतः
(घ) श्रेष्ठः
उत्तर:
(क) बहिः
IV. अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तर:
‘अहंकारी राजा’।
प्रश्न 10.
“एकदा एकः संन्यासी नृपस्य भवनम् अगच्छत्। नृपः तस्य हार्दिक स्वागतम् अकरोत् समुचित भोजनप्रदानादिभिश्च अतिथिसत्कारम् अकारयत्। संन्यासिना सह वार्तालापप्रसङ्गे राजा तम् अपृच्छत्-‘हे महात्मन्! मम कृते सर्वाधिकं करणीयं किं कार्यम् अस्ति येन अहं पुण्यं प्राप्तुं शक्नुयाम्?’ स्पष्टवक्ता संन्यासी अवदत्-‘हे राजन्! यदि भवान् पुण्यं प्राप्तुमिच्छपित तर्हि अधिकाधिकं शयनं करोतु।’ नृपः विस्मयेन अपृच्छत्-‘भवता एतत् कीदृशं करणीयम् उपदिश्यते? अधिकाधिकशयनेन अधिकाधिकं पुण्यं प्राप्यते किम्? अहम् तु एतद् अवगन्तुं सर्वथा असमर्थोऽस्मि।’ संन्यासी विहस्य अवदत्-‘यावदधिकं भवान् स्वप्स्यति, तावदधिकमेव प्रजाः तव अत्याचारेभ्यः मुक्ताः भविष्यन्ति। भवतः पापानामपि तावान् क्षयः भविष्यति।’ एतदुक्त्वा संन्यासी बहिरगच्छत्, परं नृपस्तु प्रजानाम् पीडाम् अनुभवन् आत्मानं समीक्षमाणः पश्चात्तापं कर्तुमारभत। अहो! महात्मनाम् प्रभाव:!” (CBSE 2015)
प्रश्ना :
I. एकपदेन उत्तरत
(i) कः नृपस्य भवनम् आगच्छत्?
(ii) संन्यासिनः मतेन राजा कथम् अधिकाधिकं पुण्यं प्राप्तुं शक्नोति?
(iii) नृपस्य अधिकाधिकशयनेन प्रजाः केभ्यः मुक्ताः भविष्यन्ति?
(iv) अधिकाधिकशयनेन नृपस्य केषां क्षयः भविष्यति?
उत्तर:
(i) संन्यासी
(ii) अधिकाधिकं शयनं
(ii) अत्याचारेभ्यः
(iv) पापानाम्
II. पूर्णवाक्येन उत्तरत
(i) वार्तालापप्रसङ्गे राजा संन्यासिनं किम् अपृच्छत्?
(ii) संन्यासिनः बहिर्गमनान्तरं नृपस्य कीदृशी अवस्था अभवत्?
उत्तर:
(i) वार्तालापप्रसङ्गे राजा संन्यासिनम् अपृच्छत्, “हे महात्मन्! मम कृते सर्वाधिकं करणीयं किं कार्यम् अस्ति येन अहम् पुण्यं प्राप्तुम् शक्नुयाम्।”
(ii) संन्यासिनः बहिर्गमनान्तरं नृपः प्रजानाम् पीडाम् अनुभवन् आत्मानं समीक्षमाणः पश्चात्तापं कर्तुमारभत।
III. भाषिककार्यम्
(i) हानिः अस्य पदस्य समानार्थकं पदम् अनुच्छेदात् चित्वा लिखत।
(अ) प्रभावः
(ब) पुण्यम्
(स) क्षयः
(द) कृते
उत्तर:
(स) क्षयः
(ii) अस्मिन् अनुच्छेदे रुदित्वा इति पदस्य किं विलोमपदं प्रयुक्तम्?
(अ) एतदुक्त्वा
(ब) अनुभवन्
(स) शक्नुयाम्
(द) विहस्य
उत्तर:
(द) विहस्य
(iii) ‘भवतः पापानाम् अपि तावान् क्षयः भविष्यति।’-अस्मिन् वाक्ये किं विशेषणपदम्?
(अ) भवतः
(ब) पापानाम्
(स) तावान्
(द) क्षयः
उत्तर:
(स) तावान्
(iv) “भवता एतत् कीदृशं करणीयम् उपदिश्यते?” अस्मिन् वाक्ये ‘भवता’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(अ) संन्यासिने
(ब) राज्ञे
(स) प्रजायै
(द) अत्याचाराय
उत्तर:
(अ) संन्यासिने
IV. अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तर:
‘महात्मनाम् प्रभावः’।
प्रश्न 11
विश्वामित्रः एकः क्षत्रियः नृपः आसीत्। तस्य बलेन सर्वे भयभीताः भवन्ति स्म। एकदा सः मुनेः वशिष्ठस्य आश्रमम् अगच्छत्। मुनिः तस्य अतीव सम्मानम् अकरोत्। आश्रमे विश्वामित्र: ‘नन्दिनी’ इति नाम्नः धेनुम् अपश्यत्। तस्याः रूपम् गुणान् च दृष्ट्वा तस्य मनसि लोभः जागृतः अभवत्। सः वशिष्ठम् ताम् धेनुम् अयाचत परम् वशिष्ठेन अस्वीकृतम्। तदा क्रोधवशात् विश्वामित्रः स्व-सैनिकान् ताम् धेनुम् हर्तुम् आदिष्टवान्। वशिष्ठः निर्भयः भूत्वा अवदत्-“कोऽपि मम आज्ञाम् बिना एनाम् स्प्रष्टुम् अपि न शक्नोति” इति। विश्वामित्रः वशिष्ठस्य “आत्मबलं दृष्ट्वा विस्मितः अभवत् सः अनायासम् अवदत् धिक् बलं, क्षत्रिय बलं, ब्रह्मतेजो बलं बलम्।” तत्पश्चात् विश्वामित्रः घोरतपस्यां कृत्वा ब्रह्मतेजं प्राप्नोत्।
प्रश्ना :
I. एकपदेन उत्तरत
(i) कस्य बलेन सर्वे भयभीताः भवन्ति स्म?
(ii) विश्वामित्रः वशिष्ठम् काम् अयाचत?
उत्तर:
(i) विश्वामित्रस्य
(ii) धेनुम्
II. पूर्णवाक्येन उत्तरत
(i) वशिष्ठः किम् अवदत्?
(ii) विस्मितः भूत्वा विश्वामित्रः किम् अवदत्?
उत्तर:
(i) वशिष्ठः अवदत्, “कोऽपि मम आज्ञाम् बिना धेनुम् स्प्रष्टुम् अपि न शक्नोति।”
(ii) विस्मितः भूत्वा विश्वामित्रः अवदत् यत् धिक् बलं क्षत्रिय बलं, ब्रह्मतेजो बलं बलम्।
III. यथानिर्देशमुत्तरत
(i) ‘आदिष्टवान्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) क्रोधवशात्
(ख) विश्वामित्रः
(ग) स्व-सैनिकान्
(घ) धेनुम्
उत्तर:
(ख) विश्वामित्रः
(ii) ‘तस्याः रूपम् गुणान् च’ अत्र ‘तस्याः’ इति सर्वनामस्थाने संज्ञापदम् किम्?
(क) वशिष्ठस्य
(ख) विश्वामित्रस्य
(ग) धेनोः
(घ) सैनिकस्य
उत्तर:
(ग) धेनोः
(iii) ‘विधाय’ इति अर्थे अनुच्छेदे किं पदं प्रयुक्तम्?
(क) प्राप्नोत्
(ख) अगच्छत्
(ग) अपश्यत्
(घ) कृत्वा
उत्तर:
(घ) कृत्वा
(iv) ‘एकदा सः मुनेः वशिष्ठस्य आश्रमम् अगच्छत्’-अत्र विशेषणपदम् किम्?
(क) मुनेः
(ख) वशिष्ठस्य
(ग) सः
(घ) आश्रमम्
उत्तर:
(क) मुनेः
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकम् लिखत।
उत्तर:
वशिष्ठस्य आत्मबलम्।
प्रश्न 12
एकस्मिन् ग्रामे जगत्पालो नाम एकः सज्जनो वसति। तस्य पत्नी कला अस्ति। जगत्पालः सप्तत्रिंशत् वर्षीयः कला द्वात्रिंशत् वर्षीया च स्तः। जगत्पालस्य हृदयम् अतीव उदारं, कलायाः स्वभावश्च अतीव मधुरो विद्यते। तौ दम्पती सुखेन निवसतः। तयोः एकः तनयः एका तनया च स्तः। तनयस्य नाम विवेकः तनयायाश्च नाम प्रतिभा अस्ति। विवेकः एकादशवर्षीयः प्रतिभा सप्तवर्षीया च। विवेकः सप्तकक्षायां पठति, प्रतिभा तृतीयकक्षायां च। आम्र-निम्ब-मधूकादि-वृक्षाणां छायासु स्थितं जगत्पालस्य गृहम् अत्यन्तं रमणीयं वर्तते। जगत्पालः एकः उद्योगी कुशलश्च कृषकः अस्ति। सः सर्वदा कृषिकर्मणि संलग्नः स्वकर्तव्यं पालयति। सः परिश्रमं कृत्वा स्वक्षेत्रे पर्याप्तम् अन्नं, शाकं, फलं च उत्पादयति। तस्य गृहे एका श्वेतवर्णा धेनुः वर्तते। सा यथेप्सितं दुग्धं ददाति।
प्रश्ना :
I. एकपदेन उत्तरत
(i) कलायाः स्वभावः कीदृशः वर्तते?
(ii) धेनुः कीदृशं दुग्धं ददाति?
उत्तर:
(i) मधुरः
(ii) यथेप्सितम्
II. पूर्णवाक्येन उत्तरत
(i) जगत्पालस्य गृहं कुत्र स्थितं वर्तते?
(ii) जगत्पालः स्वक्षेत्रे किम्-किम् उत्पादयति?
उत्तर:
(i) जगत्पालस्य गृहं आम्र-निम्ब-मधूकादि-वृक्षाणाम् छायासु स्थितं वर्तते।
(ii) जगत्पालः स्वक्षेत्रे पर्याप्तं अन्नं शाकं फलं च उत्पादयति।
III. यथानिर्देशमुत्तरत
(i) ‘निरतः’ इत्यर्थे अस्मिन् अनुच्छेदे किं पदं प्रयुक्तम् अस्ति?
(क) तनयः
(ख) वर्षीयः
(ग) संलग्नः
(घ) निवसतः
उत्तर:
(ग) संलग्नः
(ii) अस्मिन् अनुच्छेदे ‘उत्पादयति’ इति क्रियापदस्य कर्ता कः अस्ति?
(क) उद्योगी
(ख) जगत्पाल:
(ग) सः
(घ) धेनुः
उत्तर:
(ग) सः
(iii) अत्र ‘सप्तवर्षीया’ इत्यस्य पदस्य विशेष्यपदं किम् अस्ति?
(क) प्रतिभा
(ख) कला
(ग) तनया
(घ) पत्नी
उत्तर:
(क) प्रतिभा
(iv) ‘तस्य गृहे’ इत्यत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् अस्ति?
(क) धेनवे
(ख) कलायै
(ग) तस्मै
(घ) जगत्पालाय
उत्तर:
(घ) जगत्पालाय
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
उत्तर:
कृषकः जगत्पालः।
प्रश्न 13
ईश्वरस्य भक्तः एकः बालकः आसीत्। एकदा ईश्वरः स्वप्ने तमकथयत्- ‘त्वं तु मम भक्तः असि, अतः मम एकं कार्यं कुरु। तव गृहात् बहिः एका शिला अस्ति। तां शिलां तत्स्थानात् अपसारय।’ तस्य बालकस्य ईश्वरे दृढविश्वासः आसीत्। अतः अविचार्य एव सः ईश्वरादेशम् अमन्यत। प्रातःकाले उत्थाय सः बृहच्छिलाम् अपश्यत्। ईश्वरं स्मृत्वा बालकः तस्मिन् कार्ये नियुक्तः जातः। तदा तं दृष्ट्वा जनाः अकथयन्- “अस्याः शिलायाः अपसारणम् असम्भवम्, अतः वृथा परिश्रमं मा कुरु।” परं सः बालकः तस्मिन् कार्ये संलग्नः अभवत्। इत्थं कार्यं कुर्वन् तस्य शरीरं तु बलवत् अभवत् परं सः नि रात्रौ स्वप्ने पुनरागतम् ईश्वरं सः अकथयत्-मया कृतः श्रमः तु व्यर्थः जातः। शिला तु तत्रैव वर्तते। स्मितमानः ईश्वरः प्रत्यवदत्-संसारेऽस्मिन् किमपि कार्यं तु निष्फलं न भवति। पश्य, निर्बलः त्वं अधुना सबलः असि। जीवने कदाचित् परोक्षः लाभः नरः लभते। (CBSE 2017)
प्रश्ना :
I. एकपदेन उत्तरत
(i) कं स्मृत्वा बालकः कार्यम् अकरोत् ?
(ii) बलवत् किम् अभवत्?
उत्तर:
(i) ईश्वरं
(ii) शरीरं
II. पूर्णवाक्येन उत्तरत
(i) जनाः किम् अकथयन्?
(ii) स्वप्ने आगतम् ईश्वरं बालक: किमकथयत्?
उत्तर:
(i) जनाः अकथयन् यत् शिलायाः अपसारणम् असम्भवम्, अतः वृथा परिश्रमम् मा करणीयम्।
(ii) स्वप्ने आगतम् ईश्वरम् बालकः अकथयत् यत् बालकेन कृतः श्रमः तु व्यर्थः जातः। शिला तु तत्रैव वर्तते।
III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘अमन्यत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) ईश्वरः
(ख) जनः
(ग) भक्तः
(घ) सः (बालकः)
उत्तर:
(घ) सः (बालकः)
(ii) ‘विस्मृत्य’ इति पदस्य किं विपरीतपदम् अत्र प्रयुक्तम्?
(क) अविचार्य
(ख) उत्थाय
(ग) स्मृत्वा
(घ) दृष्ट्वा
उत्तर:
(ग) स्मृत्वा
(iii) ‘स्मितमानः’ इति पदं कस्य विशेषणपदम् अस्ति?
(क) बालकस्य
(ख) भक्तस्य
(ग) जनस्य
(घ) ईश्वरस्य
उत्तर:
(घ) ईश्वरस्य
(iv) ‘त्वं तु मम भक्तः असि’ अत्र ‘त्वम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जनाय
(ख) बालकाय
(ग) ईश्वराय
(घ) भक्ताय
उत्तर:
(ख) बालकाय
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत।
उत्तर:
‘किमपि कार्यं निष्फलं न भवति।’
प्रश्न 14.
गुरुकुले पठन् एकः बालकः आयुर्वेदस्य ज्ञानम् अर्जति स्म। एकदा सः अतिरुग्णः जातः। गुरुणा तस्य उपचारः न कृतः। औषधिम् अन्वेष्टुं सः वनं च प्रेषितः। औषधिम् अन्विषयन् एकं वर्ष व्यतीतम् परं सः रोगमुक्तः नाभवत्। सः अचिन्तयत्- ‘जीवनस्य अन्तिमे काले गुरुकुलं गमनम् एव श्रेष्ठतरम्’ इति विचार्य सः गुरुकुलं प्रत्यागच्छत्। रुग्णं तं दृष्ट्वा गुरुः तस्मै औषधिं प्रायच्छत्। अचिरात् एव सः नीरोगः जातः। रोगमुक्तः क्रुद्धः सः गुरुम् अकथयत्-“यदा भवान् रोगमुक्तकर्तुं समर्थं आसीत् तर्हि किमर्थं माम् वनं प्रेषितवान्।” विनम्रः गुरुः प्रत्यवदत्-“यदि अहम् तुभ्यम् अत्रैव औषधिं दद्याम् तदा त्वं तत्ज्ञानार्जनं कर्तुं समर्थं न भवेः यत् स्वानुभवेन त्वया अर्जितम्।” सः शिष्यः आयुर्वेदस्य ज्ञाता महर्षिः चरकः आसीत्। उक्तम् एव-“नास्ति आत्मसमं बलम्।”
प्रश्ना :
I. एकपदेन उत्तरत
(i) बालकः गुरुकुले कस्य ज्ञानं अर्जति स्म?
(ii) किम् अन्विषयन् बालकस्य एकं वर्ष व्यतीतम्?
उत्तर:
(i) आयुर्वेदस्य
(ii) औषधिम्
II. पूर्णवाक्येन उत्तरत
(i) बालकं रुग्णं दृष्ट्वा गुरुः किमकरोत्?
(ii) रोगयुक्तः बालकः किम् अचिन्तयत्?
उत्तर:
(i) बालकम् रुग्णं दृष्ट्वा गुरुः तस्य उपचार न कृत्वा औषधिम् अन्वेष्टुम् बालकम् वनं प्रेषितवान्।
(ii) रोगयुक्तः बालकः अचिन्तयत् यत् जीवनस्य अन्तिमे काले गुरुकुलम् गमनम् एव श्रेष्ठतरम्।
III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘प्रत्यागच्छत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) गुरुः
(ख) विनम्रः
(ग) समर्थः
(घ) सः (शिष्यः)
उत्तर:
(घ) सः (शिष्य)
(ii) ‘रोगी’ इत्यर्थ अत्र किं पदं प्रयुक्तम्?
(क) रोगमुक्तः
(ख) रोगयुक्तः
(ग) रुग्णः
(घ) नीरोगी
उत्तर:
(ग) रुग्णः
(iii) ‘गुरुणा तस्य उपचारः न कृतः’ अत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) गुरवे
(ख) औषधये
(ग) बालकाय
(घ) रोगमुक्ताय
उत्तर:
(ग) बालकाय
(iv) ‘अन्तिमे’ इति पदं कस्य विशेषणपदम् अस्ति?
(क) जातस्य
(ख) कालस्य
(ग) वर्षस्य
(घ) गमनस्य
उत्तर:
(ख) कालस्य
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत।
उत्तर:
‘नास्ति आत्मसमम् सुखम्।’
प्रश्न 15.
पुरा श्रीहर्षः भारतस्य चक्रवर्ती आसीत्। तस्मिन् काले ‘ह्यूनत्साङ्गः’ नाम चीनदेशीयः यात्री भारतम् आगतवान्। सः भारते अनेकेषु स्थलेषु अटितवान्। जनानां व्यवहारं भारतीयसंस्कृतिम् च अवगतवान्। विविधान् धर्मग्रन्थान् विविधानि ऐतिहासिकवस्तूनि च सगृहीतवान्। सः स्वदेशगमनतः पूर्वं हर्षचक्रवर्तिनम् अपश्यत्। तस्मै स्वानुभवं च निवेदितवान्। तस्मै कृतज्ञतां समर्पितवान्। हर्षः तस्मै अनेकान् उपहारान् दत्त्वा सम्मानितवान्। तस्य प्रयाणाय नौकां व्यवस्थापितवान्। रक्षणार्थं विंशतिः योधान् अपि प्रेषितवान्।
हर्षः योधान् उद्दिश्य उक्तवान्-“भोः भटाः! एतस्यां नौकायां विविधाः भारतीयधर्मग्रंथाः सन्ति। अनेकानि ऐतिहासिकवस्तूनि च सन्ति। एतानि भारतीयसंस्कृतेः प्रतीकानि अमूल्यानि च। अतः एतेषां ग्रंथानां वस्तूनां च रक्षणं भवतां कर्तव्यम्” इति। एकस्मिन् दिने समुद्रे अकस्मात् नौका दोलायमाना अभवत्। भीतः प्रधाननाविकः उक्तवान् “भोः। नौकायाः, भारः अधिकः अस्ति। झटिति एतानि पुस्तकानि समुद्रे क्षिपन्तु। स्वप्राणान् च रक्षन्तु” इति। इदं वचनं श्रुत्वा सर्वे योधाः संस्कृतेः रक्षणार्थं झटिति एकैकशः तृणमिव स्वशरीरम् एव समुद्रे क्षिप्तवन्तः। एतत् दृश्यं दृष्ट्वा ह्यूनत्साङ्गः नेत्राभ्याम् अश्रूणि स्रावितवान्।
I. एकपदेन उत्तरत
(i) स्वदेशगमनतः पूर्वं ह्यूनत्साङ्ग कं दृष्टवान्?
(ii) कः नेत्राभ्याम् अश्रूणि स्रावितवान्?
उत्तर:
(i) हर्षचक्रवर्तिनम्
(ii) ह्यूनत्साङ्गः
II. पूर्णवाक्येन उत्तरत
(i) भीतः प्रधाननाविकः किम् उक्तवान् ?
(ii) ह्यूनत्साङ्गः भारते अनेकेषु स्थलेषु अटित्वा किं किं ज्ञातवान्?
उत्तर:
(i) भीतः प्रधाननाविकः उक्तवान् यत् नौकायाः भारः अधिकः अस्ति। झटिति एतानि पुस्तकानि समुद्रे क्षिपन्तु स्वप्राणान् च रक्षन्तु।
(ii) ह्यूनत्साङ्गः भारते अनेकेषु स्थलेषु अटित्वा जनानां व्यवहारं भारतीय संस्कृतिम् च ज्ञातवान्।
III. निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘सः भारते अनेकेषु स्थलेषु अटितवान्’ अस्मिन् वाक्ये कर्तृपदं किम्?
(क) सः
(ख) अटितवान्
(ग) अनेकेषु
(घ) स्थलेषु
उत्तर:
(क) सः
(ii) “एतेषां ग्रन्थानां, वस्तूनां च रक्षणं भवतां कर्तव्यम्” इति अस्मिन् वाक्ये विशेषणपदं चित्वा लिखत।
(क) एतेषां
(ख) वस्तूनां
(ग) ग्रन्थानां
(घ) भवताम्
उत्तर:
(क) एतेषां
(iii) ‘तस्मै स्वानुभवं निवेदितवान्।’ अस्मिन् वाक्ये ‘तस्मै’ इति सर्वनामपदस्य स्थाने संज्ञापदं किं भविष्यति?
(क) नाविकम्
(ख) नायकम्
(ग) हर्षाय
(घ) ह्यूनत्साङ्गम्
उत्तर:
(ग) हर्षाय
(iv) ‘शीघ्रम्’ इति पदस्य पर्यायपदं चित्वा लिखत।
(क) झटिति
(ख) मन्दम्
(ग) तृणम्
(घ) आद्यम्
उत्तर:
(क) झटिति
IV. अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
उत्तर:
‘चीनदेशीययात्री ह्यूनत्साङ्गः’।