Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 2 Set 7 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 7 for Practice
समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40
प्रश्नपत्रस्वरूपम :
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
- उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (10 )
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
सत्सङ्गतेः महिमानं को न जानाति? संसारे सज्जनाः अपि दुर्जनाः अपि सन्ति। दुर्जनस्य संगतिः कोऽपि कर्तुं न इच्छति। अपरत्र सत्संगं विना मानवस्य जीवनम् एव दुर्जीवनम् भवति। वस्तुतः सत्संगतिः जनानां पोषिका कुसंगतिश्च नाशिका। सर्वे जनाः स्वपोषमेव इच्छन्ति विनाशं तु न। अतः सत्संगतिः एव श्रेयसी। सज्जनाः तु स्वगुणैः एव सन्ताः कथ्यन्ते, अत एव जनाः सज्जनानां गुणेभ्यः स्पृहयन्ति। सद्गुणेनैव जनः मनसा वाचा, कर्मणा स्वस्थो भवति। तेन तस्य आयुः वर्धते, यशः अपि सततं वर्धते। को न जानाति यत् सर्वेषां देशानां महापुरुषाः अपि सत्संगत्या श्रेष्ठं पदवीम् आप्नुवन्। उक्तं हि भवभूतिना- सत्संगजानि निधनान्यपि तारयन्ति।’
(अ) एकपदेन उत्तरत-(केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) कस्याः महिमानं को न जानाति?
(ii) संसारे के के सन्ति ?
(iii) संत्संगतिः केषां पोषिका?
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्न-द्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) जनः कथं स्वस्थो भवति?
(ii) भवभूतिना किम् उक्तम्
(iii) सत्संगत्या श्रेष्ठां पदवीं के प्राप्नुवन्?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (द्वित्रिशष्दात्मक-वाक्यम्) (1)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्न-त्रयम्) (एकपदेन) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘सर्वे जनाः’ अनयोः पदयोः किं विशेषण पदम् ?
(क) सर्वे
(ख) जनाः
(ग) दुर्जनाः
(ii) ‘सज्जनाः’ इति पदस्य किं विलोम आगतम् ?
(क) जनाः
(ख) मानवाः
(ग) दुर्जनाः
(i) ‘इच्छन्ति’ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम्?
(क) जनाः
(ख) दुर्जनाः
(ग) महापुरुषाः
(iv) आयुः’ इत्यस्य क्रियापदं किम्?
(क) वर्धते
(ख) इच्छति
(ग) भवति
रचनात्मकं-कार्यम्
प्रश्न 2.
भवतः अनुजः अनयः सन्तुलितं भोजनं न सेवते। अतः अनुजं अनयं (भ्रातर) संतुलितं भोजनं खादनार्थं लिखिते पत्रे मञ्जूषा पद सहायतया रिक्त स्थानपूर्ति कृत्वा पुनः लिखत। (½ × 10 = 5)
सत्संग विहारः
(i) ………….
दिनाङ्कः
प्रिये अनुज अनय,
‘सप्रेम नमोनमः’
ह्य एव पित्रा (ii) …………. पत्रं प्राप्तम्। पित्रा लिखितं यत् भवान् (iii) …………. न सेवते। प्रतिदिनं ‘जंकफूड’ आदीनि एव खादति। एतत् (iv) ………….. न उचितम्। यदि आयोजने शाकादीनां (v) ………….. न करिष्यति तदात शरीर (vi) ……………… भविष्यति। शरीरस्य रोगाणां (vii) ………….. शक्तः अपि ह्रासः भविष्यति। अनेन शरीरंच (viii) …………. जायते। भवान् च (ix) ………….. भविष्यति। यदा कदाचित् तु चाऊमीनादीनाम् सेवनम् उचितं परं प्रतिदिनं प्रति-आहारे तु न। जीवनं समुचित रूपेण सञ्चालनार्थं तु दुग्ध-दधि-शाकादीनि सर्वाणि एव (x) …………. आवश्यकानि।
भवतः अग्रजः
……. रमणः।
[मञ्जूषा-अवरोधनस्य, सेवनं, रोगग्रस्तं, रूग्णः, अस्वस्थं, इलाहाबादतः, लिखितं, संतुलितं भोजनम्, स्वास्थाय, वस्तूनि)]
प्रश्न 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
[मञ्जूषा-उद्यानम्, वृक्षा, पादपाः, प्रसीदन्ति, जनाः वरिष्ठनागरिको, पादकन्दुकम्, शिक्षिका बैडमिंटन खेलम्, भ्रमतः बालाः।]
अथवा
मञ्जूषायां प्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयं अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
(मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
“मम प्रियः अध्यापकः”
[मञ्जूषा-अध्यक्षः परीक्षापरिणामः, मृदुभाषी, संस्कृतभाषाया, वक्ता, त्यागशीलः, विलम्बेन, आदर्शवान्, शत प्रतिशतम्, पाठयति।]
प्रश्न 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं पञ्चवाक्यम्, रचनात्मकम्) 1 × 5 = 5
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए) (केवल पाँच वाक्य)
(i) हमें दूध पीना चाहिए।
We should drink milk
(ii) हम घूमने के लिए श्रीनगर जाएंगे।
We will go to srinagar to hang out.
(iii) पुस्तक के बिना कैसे पढ़ोगे।
How to read with out a book ?
(iv) सड़क के दोनों ओर वृक्ष हैं।
There are trees on either side of the road.
(v) मुझे मिठाई अच्छी लगती है।
I love sweets.
(vi) सदा गुरुजनों का आदर करो।
Always respect Gurus.
(vii) ईश्वर ने इस संसार की रचना की है।
God created this world.
पठित-अवबोधनम्
प्रश्न 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिप्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति। आश्चर्यमघटत् सः शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् – मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि “त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः अतः निजकृत्यस्य फलं भुव। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति। न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।
(अ) एकपदेन उत्तरत (केवलं प्रश्न द्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) न्यायाधीशेन पुनः तौ कस्याः विषये वक्तुमादिष्टौ?
(ii) निजपक्षं कः प्रस्तुतवति?
(iii) आरक्षिणा कुत्र (शवं) उक्तं?
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) तत्र किम् आश्चर्यम् अघटत्?
(ii) न्यायाधीशः किम् निर्णयम् श्रुतवान् ?
(iii) त्वं कति वर्षस्य कारादण्डं लप्स्यसे?
प्रश्न 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं, प्राणेभ्योऽपि विशेषतः॥
(अ) एकपदेन उत्तरत (केवलं प्रश्न द्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) कः प्रथमः धर्मः?
(ii) तस्मात् किम् रक्षेत्?
(iii) प्राणेभ्यः अपि किम् रक्षेत्?
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) विदुषां वचः किम्?
(ii) केभ्यः अपि विशेषतः सदाचारः रक्षणीयः?
(iii) कः प्राणेभ्योऽपि रक्षेत्?
प्रश्न 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
प्रकृतिमाता-अहं प्रकृतिः युष्माकं सर्वेषां
जननी? यूयं एव मे प्रियाः। सर्वेषामेव
मत्कृते महत्त्वं विद्यते यथासमयम् न तावत्
कलहेन समयं वृथा यापयन्तु अपि तु मिलित्वा
एव मोदध्वं जीवनं च रसमयं कुरुध्वम्। तद्यथा कथितम्
प्रजा सुखे राज्ञः, प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम्॥
अपि च
अगाधजलसञ्चारी न गर्वं याति रोहितः।
अगुष्ठोदकमात्रेण शफरी फु(रायते॥
अतः भवन्तः सर्वेऽपि शफरीवत् एकैकस्य गुणस्य चर्चा विहाय, मिलित्वा प्रकृतिसौन्दर्याय वनरक्षायै च प्रयतन्ताम्। सर्वे प्रकृतिमातरं प्रणमन्ति मिलित्वा दृढ़संकल्पपूर्वकं च गायन्ति
प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते॥
(अ) एकपदेन उत्तरत (केवलं प्रश्न द्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) परस्पर विवादेन केषां हानिः जायते?
(ii) सर्वेषां जननी का?
(ii) प्रजासुखे कस्य सुखं भवति?
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) अगाधजलसञ्चारी कः अस्ति?
(ii) अन्योन्यसहयोगेन केषां लाभः प्रजायते।
(iii) वयं सर्वे किमर्थं प्रयत्नं कुर्याम ?
प्रश्न 8.
मञ्जूषातः समुचितानि पदानि चित्वा अधोलिखित तस्य श्लोकस्य अन्वयं पूरयत (½ × 4 = 8)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोक के अन्वय को पूरा कीजिए।)
गुणी गुणं वेत्ति न वेत्ति निगुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥
अन्वयः-गुणी (i) ………… वेत्ति, निर्गुणः (गुणं) न (ii) ………… बली बलं वेत्ति, (iii) ………… (बलं) न वेत्ति, वसन्तस्य गुणं पिकः (वेत्ति) मूषक: न। | मञ्जूषा-वायसः, वेत्ति, गुणं, निर्बलः
अथवा
मञ्जूषायाः साहाय्येन शलोक भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से श्लोक के भावार्थ से रिक्तस्थानों को पूरा करके पुनः लिखिए।)
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुर्नामनी मते॥
भावार्थ:-अत्र विदुषां ………… (i) ………… प्रतिपादितम्। अस्मिन् संसारे विद्वान्स एव नेत्रवन्तः (ii) ………… ते एव योग्याः (iii) ………… अपरे तु मूर्खाः एव। अपरेषां वा मुखे तु नेत्राणि नामानी भवन्ति।
[मञ्जूषा-मूर्खाणां, महत्वम्, भवन्ति, मन्यन्ते]
प्रश्न 9.
अधोलिखित-कथांशं समुचितक्रमेण लिखत (½ × 8 = 4)
(निम्नलिखित कथाशं को समुचित क्रम में लिखिए।)
(i) स शवः प्रावारकमपसार्य निवेदितवान्।
(ii) त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः।
(iii) न्यायाधीशेन पुरस्तौ घटनायाः विषये वक्तुमादिष्टौ है।
(iv) न्यायाधीशः आरक्षिणे कारादण्डम् आदिष्टवान्।
(v) तं (अतिथि) जनं ससम्मानं मुक्तवान्।
(vi) एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि।
(vii) आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् ।
(viii) अतः निजकृत्यस्य फलं भुङ्क्व।