Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 2 Set 5 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 5 with Solutions
समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40
प्रश्नपत्रस्वरूपम :
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
- उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)
प्रश्नः 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (10)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
संस्कृते एव विश्वस्य प्राचीनतमः आलेखः ऋग्वेदः निबद्धः। अस्यां भाषायाम् भारतीय-संस्कृतेः, मूलाधाराः रामायणं, महाभारतम् पुराणानि चापि प्राप्यन्ते। इयं सा भाषा यस्यां निबद्धाः विचाराः प्राचीनकालात् आरभ्य आधुनिक कालं यावत् सततम् अखिले विश्वं प्रभावितं कुर्वन्ति। वेदानां ज्ञानं विश्वस्य मानवेभ्यः प्रेरणादायकम् अस्ति। श्रीमद्भगवद्गीतायाः सन्देशः विश्वस्य जनेषु विविधभाषानुवाद माध्यमेन प्रख्यातः। विश्वस्य अनेकेषु विश्वविद्यालयेषु संस्कृतस्य विभिन्नशाखानाम् अध्ययनार्थं विभागाः सन्ति। इयं देवभाषा सम्पूर्ण विश्वे भारतवर्षस्य गौरवं वर्धयते।
(अ) एकपदेन उत्तरत। (केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) विश्वस्य प्राचीनतमः आलेखः कः?
उत्तरः
ऋग्वेदः
(ii) संस्कृतम् कस्य गौरवं वर्धयते?
उत्तरः
भारतवर्षस्य
(iii) कस्य ज्ञानं विश्वस्य मानवेभ्यः प्रेरणादायक अस्ति ?
उत्तरः
वेदस्य
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्न-द्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) संस्कृतभाषायाम् किं किं प्राप्यते?
उत्तरः
संस्कृतभाषायां रामायाणं, महाभारतं, पुराणानि च प्राप्यन्ते।
(ii) संस्कृते निबद्धविचाराणां का विशेषता?
उत्तरः
संस्कृते निबद्धविचाराः प्राचीनकालात् आरभ्य आधुनिकं कालं यावत् सततम् अखिलं विश्वं प्रभावितं कुर्वन्ति इति विशेषता।
(iii) संस्कृतस्य विभिन्नशाखानाम् अध्ययनार्थम् विभागाः कुत्र सन्ति?
उत्तरः
विश्वस्य अनेकेषु विश्वविद्यालये संस्कृतस्य विभिन्नशाखानाम् अध्ययनार्थं विभागाः सन्ति।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (द्वित्रिशब्दात्मक) (1)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तरः
संस्कृत भाषायाः महत्वम्।
(ई) निर्देशानुसारं उत्तरत।(केवलं प्रश्न-त्रयम्) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘इयम्’ इति सर्वनाम पदं कस्यै प्रयुक्तम्?
(क) भाषायै
(ख) संस्कृताय
(ग) विश्वाय
उत्तरः
(क) भाषायै
(ii) ‘निरन्तरम्’ इत्यर्थे किं पर्यायपदं प्रयुक्तम्?
(क) सततम्
(ख) अखिलम्
(ग) गौरवं
उत्तरः
(क) सततम्
(iii) प्रेरणादायकम् अस्ति इत्यत्र अस्ति क्रियापदस्य किं कर्तृपदं प्रयुक्तम्?
(क) प्रेरणादायकम्
(ख) ज्ञानम्
(ग) वेदानाम्
उत्तरः
(ख) ज्ञानम्
(iv) ‘सम्पूर्ण विश्वे’ इत्यत्र किं विशेषणपदं प्रयुक्तम् ?
(क) इयं
(ख) सम्पूर्णे
(ग) विश्वे
उत्तरः
(ख) सम्पूर्णे
रचनात्मकं-कार्यम्
प्रश्नः 2.
भवत्या नाम पूजा अस्ति। विद्यालये पर्यावरण दिवसः परिपालितः। एतद् विषये स्वसखीं लतां प्रति लिखिते पत्रे रिक्त स्थानानि पूरयित्वा पत्रं मञ्जूषातः पुनः उत्तर पुस्तिकायां लिखत।। (½ × 10 = 5)
प्रिय (i)……. परीक्षा भवनात्
सस्नेहम् (ii) …… दिनाङ्कः ……….
मम विद्यालये (ii) ……. मानितः। सर्वे छात्राः (iv) …….
आसन्। छात्राः अध्यापकैः सह (v)…….. आरोपणे व्यस्ताः आसन् । मम विद्यालयस्य परिसरे तु (vi) …….. प्रसृतः। अनेके छात्राः विद्यालयात् बहिः गत्वा (vii) ……. उभयतः पादपान् आरोपितवन्तः। सर्वे (vi)…..अस्माकं विद्यालयस्य छात्राणां प्रयासस्य प्रशंसाम् कृतवन्तः। यदि सर्वे जनाः एवं कुर्युः तर्हि (ix) …….. रक्षणं स्यात्।
भवदीया अभिन्ना सखी (x) ………
मञ्जूषा-लते, हरीतिमा, नमस्ते, मार्गम्, पूजा, पादपानाम्, जनाः, उत्साहिताः, वातावरणस्य
उत्तरः
(i) लते
(ii) नमस्ते
(ii) पर्यावरण दिवसः
(iv) उत्साहिताः
(v) पादपानाम्
(vi) हरीतिमा
(vii) मार्गम्
(viii) जनाः
(ix) वातावरणस्य
(x) पूजा
प्रश्नः 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा-समुद्रतटस्थ-दृश्यम्, अनेकजनाः, बालाः वृद्धाः, जले, विहरन्ति, वाहनानि, वृक्षाः, पादकन्दुकम्, नौकायाम्, खेलन्ति।
अथवा
मञ्जूषायां प्रदत्तशब्दानां सहाय्येन निम्नलिखितं विषयं अधिकृत्य पञ्चाभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
(मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
“स्वच्छतायाः महत्वम्”
मञ्जूषा-स्वच्छतायाः, सभ्यतायै, स्वच्छम्, शरीरं, स्थानम्, वस्त्रादिकम्, जलम्, खाद्यवस्तूनि, मनसि प्रसन्नता, समाजे सम्मानम्।
उत्तरः
- इदम् चित्रम् समुद्रतटस्थ रमणीयम् दृश्यम् अस्ति।
- बालकाः बालिकाश्च अस्मिम् चित्रे पादकन्दुकेन् क्रीडन्ति।
- अस्मिन् चित्रे अनेका वृक्षाः जले दृश्यन्ते।
- वृद्धाः बालः च अपि जले नौकायाम् विहरन्ति।
- चित्रस्य दृश्यम् रमणीयम् अस्ति।
अथवा
- प्राचीन काले अपि सभ्यतायै स्वच्छता अति अनिवार्या आसीत्।
- यस्मिन् स्थाने स्वच्छता भवति तत्र एव प्रसन्नता भवति।
- स्वच्छं शरीरं, वस्त्रादिकम् च सह मनसि अपि स्वच्छता आवश्यकी भवती।
- सर्वदा स्वच्छ खाद्य वस्तूनि खादितव्यानि, स्वच्छं जलं चैव पातव्यम्।
- स्वच्छतायाः समाजे सम्मानम्, महत्त्वम् सर्वदा एव अस्ति ।
प्रश्नः 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं पञ्चवाक्यम्, रचनात्मकम्) (1 × 5 = 5)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए) (केवल पाँच वाक्य)
(i) छात्र अध्यापक से डरता है।
Student fears of teacher.
उत्तरः
छात्रः अध्यापकात् त्रस्यति ।
(ii) तुम लोग क्या करते हो?
What do you all do?
उत्तरः
यूयं किम् कुरुथ?
(iii) हमसब कलम से नहीं लिखेंगे।
We all will not write with a pen.
उत्तरः
वयम् कलमेन न लेखिष्यामः
(iv) कल तुम कहाँ थे?
Where were you yesterday?
उत्तरः
ह्य त्वं कुत्र आसी?
(v) माता ने खाना पकाया।
Mother cooked the food.
उत्तरः
माता/जननी भोजनम् अपाचयत्।
(vi) क्या हमसब बाहर जाएँ?
May we all go outside?
उत्तरः
किम् वयं बहिः गच्छेम/गच्छाम?
पठित-अवबोधनम्
प्रश्नः 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (3)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
कश्चन निर्धनः जनः भरि परिश्रम्य किञ्चिद् वित्तमुपाजिर्तवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा सः पिता तनुजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येनि पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्।
पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा एवं विचार्य सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कश्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) वित्तं कः उपार्जितवान् ?
उत्तरः
निर्धनः जनः
(ii) तनयः कुत्र वसति स्म?
उत्तरः
छात्रावासे
(iii) तस्मै आश्रयं कः प्रायच्छत् ?
उत्तरः
करुणापरो गृही
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) पदयात्रा कदा कुत्र न शुभावहा?
उत्तरः
निशान्धकारे पदयात्रा न शुभावहा।
(ii) पिता कथं व्याकुलो जातः?
उत्तरः
तनुजस्य रुग्णतामाकर्ण्य पिता व्याकुलो जातः।
(iii) सर्वदा यात्रा काले किम् विचारणीयाः?
उत्तरः
सर्वदा विजने प्रदेशे प्रसृते निशान्धकारे पद यात्रा न करणीया इति विचारणीया।
प्रश्नः 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (1 × 2 = 2)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः॥
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) के अपि कथितं विषयम् अवगच्छन्ति?
उत्तरः
पंडिताः जनाः
(ii) बुद्धिमान् कम् अपि ऊहति?
उत्तरः
अनुक्तम्।
(iii) के भारं वहन्ति ?
उत्तरः
हयाः/नागाः
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) पण्डितानां बुद्धिः कीद्वशी अस्ति?
उत्तरः
पण्डितानां: बुद्धिः परेङ्गित ज्ञानफला भवति।
(ii) बोधिताः पशवः कथम् आचरन्ति?
उत्तरः
बोधिताः पशवः अनुक्तम् ऊहति आचरन्ति।
(iii) ज्ञानीनाम् आचारणं कथम् भवति?
उत्तरः
ज्ञानीनाम् आचारणं सर्वदा उदीरितोऽर्थः भवति।
प्रश्नः 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (3)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
- मयूरः- को न जानाति तव ध्यानावस्थाम्! स्थितप्रज्ञ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्।
- वानरः – (सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।
- मयूरः- अरे वानर! तूष्णी भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं माम् वनराज-रूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना यतः कथं कोऽप्यन्य: विधातुः निर्णयम् अन्यथाकर्तुं क्षमः।
- मयूरः- यतः मम नृत्यं तु प्रकृते:आराधना। पश्य। पश्य। मम पिच्छानामपूर्वं सौन्दर्यम्। (पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः सन्) न कोऽपि त्रैलोक्ये मत्सदृशः सुन्दरः। वन्यजन्तूनामुपरि आक्रमणं कर्तारं तु अहं स्वसौन्दर्येण नृत्येन च आकर्षितं कृत्वा वनात् बहिष्करिष्यामि। अतः अहमेव योग्यः वनराजपदाय।
(अ) एकपदेन उत्तरत। (केवलं प्रश्न द्वयम्) (2 × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) नृत्यं कस्य विशेषता?
उत्तरः
मयूरस्य
(ii) वकः कीदृशः इव वारकान् मीनान् भक्षयति?
उत्तरः
स्थितप्रज्ञः
(iii) विधात्रा कः पक्षिराजः कृतः?
उत्तरः
मयूरः
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) मयूरः कथं आत्मानं वनराजपदाय योग्यं मन्यते?
उत्तरः
पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयिता विधात्रा एवाहं पक्षिराजः कृतः एवमेव मयूरः आत्मनं वनराजपदाय आत्मानं योग्यं मन्यते।
(ii) मयूरः काकं किं कथयित्वा तिरस्करोति?
उत्तरः
धिक् त्वाम्! वराकान् मीनान् छलेन अधिगह्य क्रूरतया भक्षयसि। तव कारणात् तु सर्व पक्षिकुलमेवावमानितं इति कथयित्वा तिरस्करोति।
(iii) नाट्यांशे कस्य वर्णनम् अस्ति?
उत्तरः
नाटयांशे पक्षिराजमयूरस्य वर्णनम् अस्ति।
प्रश्नः 8.
मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकयोः अन्वयं पूरयत (½ × 4 = 2)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा कीजिए।)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
अन्वयः- (i)….. शरीरस्थः महान् (ii) …….. आलस्यम्। उद्यमासमः (iii)……. न अस्ति यं कृत्वा (मनुष्यः) न (iv)……. । |
मञ्जूषा-शत्रुः, अवसीदति, मनुष्याणां, बन्धुः
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से श्लोक के भावार्थ से रिक्तस्थानों को पूरा करके पुनः लिखिए।)
त्यक्त्वा धर्मप्रदां वाचं पुरुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं, भुड्क्तेऽपक्वं विमूढधीः॥
भावार्थ:-मूढः पुरुषः एकः (i)…… (सत्यां मधुरां वाणी परित्यज्य कठोरां वाणी वदति) वस्तुतःसः (ii) ……. पक्वंफलं (iii)……. अपक्वं फलमेव खादति। बुद्धिमान् तु सदैव सत्यां मधुरां च (iv)……. वदति। |
मञ्जूषा-मन्दगतिः, व्यक्त्वा, धर्मप्रदां, वाचं
उत्तरः
(i) मनुष्याणां
(ii) शत्रुः
(iii) बन्धुः
(iv) अवसीदति
अथवा
(i) धर्मप्रदां
(ii) मन्दतिः
(iii) व्यक्त्वा
(iv) वाचं
प्रश्नः 9.
अधोलिखित-कथांशं समुचितक्रमेण लिखत (½ × 8 = 4)
(निम्नलिखित कथाशं को समुचित क्रम में लिखिए।)
(i) अहम् एव करुणापरः पक्षिसम्राट् काकः।
(ii) अहम् अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः?
(iii) अस्माकं परिश्रमः ऐक्यं च विश्वप्रधितम्।
(iv) मम सत्यप्रियता तु जनानांकृते उदाहरण स्वपाअस्ति।
(v) काकचेष्टाः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
(vi) अनृतं वदसि चेत् काकः दशेत्।
(vi) अलम् अलम् अतिविकत्थनेन।
(viii) अहं यदि तव सन्ततिं न पालयामि तर्हि कुत्र स्युः पिकाः?
उत्तरः
(ii) यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङगः?
(iv) मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा अस्ति।
(vi) अनृतं वदसि चेत् काकः दशेत्।
(ii) अस्माकं परिश्रमः ऐक्यं च विश्वप्रधितम्।
(v) काकचेष्ट: विद्यार्थी एव आदर्शच्छात्रः मन्यते।
(vii) अलम् अलम् अतिविकत्थनेन।
(vii) अहं यदि तव सन्ततिं न पालयामि तर्हिकुत्र स्युः पिकाः?
(i) अहम् एव करुणापरः पक्षिसम्राट् काकः।