Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 2 Set 3 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 3 with Solutions
समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40
प्रश्नपत्रस्वरूपम :
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
- उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)
प्रश्न: 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (10)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
कालिदासः मेघदूतं रचितवान्। मेघदूते मानसूनविज्ञानस्य अद्भुतं वर्णनम् अस्ति। मानसूनसमयः आषाढ़मासात् प्रारभ्यते। श्याममेघान् दृष्ट्वा सर्वे जनाः प्रसन्नाः भवन्ति। मयूराः नृत्यन्ति। मानसूनमेघाः सर्वेषां जीवानां कष्टम् अपहरन्ति। मेघानां जलं वनस्पतिभ्यः पशुपक्षिभ्यः किं वा सर्वेभ्यः प्राणिभ्यः जीवनं प्रयच्छति। मेघजलैः भूमेः उर्वराशक्ति: वर्धते। क्षेत्राणां सिञ्चनं भवति। गगने यदा कदा इन्द्रधनुः अपि दृश्यते। वायुः शीतलः भवति। शुष्कभूमौ वर्षायाः बिन्दवः पतन्ति। भूमेः सुगन्धितं वाष्पं निर्गच्छति। कदम्बपुष्पाणि विकसन्ति। तेषु भ्रमराः गुञ्जन्ति। हरिणाः प्रसन्नाः भूत्वा इतस्ततः धावन्ति। चातकाः जलबिन्दून् पिबन्ति। बलाकाः पङ्कित बद्ध्वा आकाशं उड्डीयन्ते। मेघदूते मेघः यक्षस्य सन्देशं नयतु इति प्रार्थितः। अतः कालिदासः वायुमार्गस्य ज्ञानवर्धकं वर्णनं करोति।
(अ) एकपदेन उत्तरत-(केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) भ्रमराः कुत्र गुञ्जन्ति?
उत्तरः
कदम्बपुष्पेषु
(ii) मेघानां जलं प्राणिभ्यः किम् प्रयच्छति?
उत्तरः
जीवनं
(iii) कैः क्षेत्राणां सिञ्चनं भवति?
उत्तरः
मेघजलैः
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्न-द्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) मेघदूतं कः रचितवान्?
उत्तरः
मेघदूतं कालिदासः रचितवान्।
(ii) बलाकाः कथम् आकाशे उड्डीयन्ते?
उत्तरः
बलाका: पंक्तिं बद्ध्वा आकाशे उड्डीयन्ते।
(iii) मेघदूते किम् प्रार्थितः?
उत्तरः
पूर्णवाक्येन
मेघदूते मेघः यक्षस्य सन्देशं नयतु इति प्रार्थितः।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (द्वित्रिशष्दात्मक-वाक्यम्) (1)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तरः
महाकवि कालिदासः। कालिदासस्य रचना।
(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) मेघदूतम् कः रचितवान्? रचितवान् इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
(क) कालिदासः
(ख) भारविः
(ग) भर्तृहरिः
उत्तरः
यथानिर्देशम्
(क) कालिदासः
(ii) ‘मयूराः’ इति पदस्य किं क्रियापदम्?
(क) पक्षिणः
(ख) नृत्यन्ति
(ग) अस्ति
उत्तरः
(ख) नृत्यन्ति
(iii) मेघानां जलं केभ्यः जीवनं प्रयच्छति?
(क) वनस्पतिभ्यः
(ख) पशुपक्षिभ्यः
(ग) सर्वेभ्यः
उत्तरः
(ग) सर्वेभ्यः
(iv) ‘मृगाः’ इति पदस्य किं पर्यायपदं प्रयुक्तम् अत्र?
(क) मेघः
(ख) नगरं प्रति
(ग) हरिणाः
उत्तरः
(ग) हरिणाः
रचनात्मकं-कार्यम्
प्रश्न: 2.
सुकन्या कोलकातानगरे छात्रावासे निवसति। सा विद्यालयतः शैक्षिकभ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमतिं राशिं प्राप्तुं सा नव दिल्लीस्थं पितरं प्रति पत्रं एकं लिखति। मञ्जूषातः पदानि विचित्य पत्रे रिक्त स्थानानि पूरयन्तु। (½ × 10 = 5)
छात्रावासः
राजकीयः विद्यालयः
(i) ……….
तिथि: 06.07.2020
माननीयाः
(ii) …………
सादरं प्रणमामि।
भवतः पत्रं प्राप्तम्। मम (iii) …… परीक्षा समाप्ता। परीक्षा पत्राणि अतिशोभनानि जातानि। यावत् परीक्षा परिणामः न आगच्छति तावत् आगामिमासस्य प्रथम सप्ताहे (iv)….. विद्यालस्य अध्यापिका अस्मान् शैक्षिक भ्रमणाय (v)….. नेष्यन्ति। अहम् अपि ताभिः (vi)……गन्तुम् इच्छामि। एतदर्थम् मया कक्षाध्यापिकायै (vii)……. रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः (viii)…. तर्हि अहम् अपि गच्छेयम्। अतः कृपया उपर्युक्तां राशि प्रेषयित्वा माम् अनुगृहीतां कुर्वन्तु। सर्वेभ्यः मम (ix). निवेदनीयाः।
भवतां प्रिया (x)……सुकन्या।
मञ्जूषा-प्रणामाः, सह, कोलकातानगरम्, स्यात्, | पञ्चशतम्, पितृवर्याः, भुवनेश्वरम्, प्रथमसत्रीया, मम, पुत्री
उत्तरः
पत्रलेखनम्
(i) कोलकातानगरम्
(ii) पितृवर्याः
(ii) प्रथमसत्रीया
(iv) मम
(v) भुवनेश्वरम्
(vi) सह
(vii) पञ्चशतम्
(viii) स्यात्
(ix) प्रणामाः
(x) पुत्री
प्रश्नः 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत- (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा-छात्रः, परीक्षादिवसः, पुष्पपात्रम्, छात्रा, मञ्चौ, श्यामपट्टे घटिकायन्त्रम्, तिष्ठतः, कुरुतः, परीक्षाः, दृश्यते
अथवा
मञ्जूषायां प्रदत्तशब्दानां सहाय्येन निम्नलिखितं विषयं अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत। (मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
“मार्ग-सरक्षा”
मञ्जूषा-यातायातनियमाः, रक्त, पीत, हरित, विद्युत् संकेतान्, अवधानेन, वाहनचालन समये, पदयात्री, जीवनघातकाः, वामतः, दक्षिणतः
उत्तरः
चित्र वर्णनम्
(i) चित्रे एकः छात्रः दृश्यते।
(ii) अत्र एकं घटिकायन्त्रम् अस्ति।
(iii) अस्मिन् चित्रे श्यामपट्ट मञ्चौ अपि सन्ति।
(iv) परीक्षा दिवसे छात्रः छात्रा च अनुशासितरूपेण परीक्षां कुरुतः।
(v) अत्र पुष्पपात्रम् अपि दृश्यते।
अथवा
(i) वयं सर्वदा यातायातनियमानां पालनं करणीयम्।
(ii) सर्वदा मार्गस्य वामतः गमनीयः।
(iii) यदा रक्त-पीत-विद्युत-संकेतं भवति तदा स्थातव्यम्।
(iv) यदा हरित-विद्युत संकेतम् भवति तदा गन्तव्यम् ।
(v) मार्गे अवधानेन गमनीयम्।
प्रश्नः 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं पञ्चवाक्यम्, रचनात्मक) (1 × 5 = 5)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए)
(केवल पाँच वाक्य)
(i) सीता पत्र लिखती है।
Seeta writes a letter.
उत्तरः
सीता पत्रं लिखति।
(ii) हम सब विद्यालय जाते हैं।
All of us go to school
उत्तरः
वयम् विद्यालयं गच्छामः।
(iii) कल विद्यालय में अवकाश था।
It was holiday in the school yesterday.
उत्तरः
ह्यः विद्यालये अवकाशः आसीत्।
(iv) हम दोनों गेंद से खेलेंगे।
Both of us will play with ball.
उत्तरः
आवाम् कन्दुकेन क्रीडिष्यावः।
(v) तुम लोग पाठ याद करो।
You learn the lesson.
उत्तरः
यूयं पाठं स्मरथ।
(vi) छात्र अध्यापक से डरते हैं।
Students fear from the teachers.
उत्तरः
छात्रा: अध्यापकात् बिभ्यन्ति।
(vii) क्या वे लोग जायें?
May they go?
उत्तरः
किम् ते गच्छन्तु?
पठित-अवबोधनम्
प्रश्नः 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (3)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच-रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुझ्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(i) सुपुष्टदेहः कः आसीत् ?
उत्तरः
आरक्षी
(ii) अभियुक्तः कीदृशः आसीत् ?
उत्तरः
कृशकायः
(iii) मुदितः कः आसीत् ?
उत्तरः
आरक्षी
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(i) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान् ?
उत्तरः
आरक्षी उक्तवान् यत् रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषायाः |
(ii) कौ कम् आनीय स्थापितवन्तौ ?
उत्तरः
आरक्षी अभियुक्तश्च शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।
(iii) कः कया क्रन्दति स्म?
उत्तरः
अभियुक्तः भारवेदनया क्रन्दति स्म।
प्रश्नः 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
सम्पत्तौ च विपत्तौ महतामेकरूपता।
उदये सविता रक्तो रक्तश्चास्तमये तथा॥
(अ) एकपदेन उत्तरत (केवलं प्रश्न द्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) उदये सविता कीदृशः भवति?
उत्तरः
रक्तः
(ii) अस्तसमये सविता कीदृशः भवति?
उत्तरः
रक्तः
(iii) ‘संपत्तौ’ अत्र का विभक्ति?
उत्तरः
सप्तमी
(आ)पूर्णवाक्येन उत्तरत-(केवलं प्रश्न द्वयम्) (1 × 2 = 2)
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) महताम् एकरूपता कदा भवति?
उत्तरः
महताम् संपत्तौ च विपत्तौ च एकरूपता भवति ।
(ii) ‘विपत्तौ’ पदस्य पदपरिचयं लिखत?
उत्तरः
विपत्तौ-विपत्ति, सप्तमी, एकवचन, स्त्री।
(iii) ‘उदये सविता’ विलोमपदं लिखत।
उत्तरः
अस्ते सविता’ इति विलोमशब्दः।
प्रश्नः 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।) (एतस्मिन्नेव काले व्याघ्रचित्रको अपि नदीजलं पातुमागतौ एतं विवादं शृणुतः वदतः च) व्याघ्रचित्रकौ – अरे किं वनराजपदाय सुपात्रं चीयते? एतदर्थं तु आवामेव योग्यौ। यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मत्या। सिंह:- तूष्णीं भव भोः। युवामपि मत्सदृशौ भक्षको न तु रक्षको। एते वन्यजीवाः भक्षकं रक्षकंपदयोग्यं न मन्यन्ते, अतएव विचार विर्मशः प्रचलति। बक:- सर्वथा सम्यगुक्तम् सिंहमहोदयेन। वस्तुतः एव सिंहेन बहु-कालपर्यन्तं शासनं कृतं परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाश: एव नास्ति।
(अ) एकपदेन उत्तरत (केवलं प्रश्न द्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) व्याघ्रचित्रको कथं आगतौ?
उत्तरः
नदीजल-पातुं
(ii) सुपात्रं कस्मै चीयते?
उत्तरः
वनराजपदाय
(iii) ‘तूष्णीं’ भव भो!’ इति कः कथयति?
उत्तरः
सिंहः
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) बकः किं कथयति?
उत्तरः
बकः कथयति, “सर्वथा सिंहमहोदयेन एव नास्ति।”
(ii) सर्वसम्मत्या कस्य चयनं भवति?
उत्तरः
सर्वसम्मत्या सुपात्रस्य शासकस्य चयनं भवति।
(iii) के: वन्यजीवाः मन्यन्ते?
उत्तरः
वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते।
प्रश्नः 8.
मञ्जूषातः समुचित पदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयत- (2 × 4 = 2)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोक के अन्वय को पूरा कीजिए।)
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽअस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥
अन्वयः-नित्यं (i)……. कुर्वतो विरूद्धमपि (ii)……
विदग्धमविदग्धं (iii)….. निर्दोषं (iv)……. ।
मञ्जूषा-तत्कृतज्ञता, यच्छति, तपः बाल्ये
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से श्लोक के भावार्थ से रिक्तस्थानों को पूरा करके पुनः लिखिए।)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
भावार्थ:-इदं सत्यमेव यत् (i)…. तु मानवानां शरीरेषु स्थितः (ii)…… शत्रुः अस्ति। यतः शरीरे आलस्यकारणात् मानवस्य विकासगतिः स्थिरा भवति। मानवानां कृते जगति। (iii)…….. कोऽपि बन्धुः नास्ति। मानवः उद्यमं कृत्वा एव निरन्तरं विकासं करोति, अनेन कदापि। (iv)……. न भवति।
मञ्जूषा-दुःखितः, उद्यमसमः, आलस्यम्, महान् |
उत्तरः
(i) बाल्ये
(ii) यच्छति
(iii) तपः
(iv) तत्कृतज्ञता।
अथवा
(i) आलस्यम्
(ii) महान्
(ii) उद्यमसमः
(iv) दुःखितः।
प्रश्नः 9.
अधोलिखित-कथांशं समुचितक्रमेण लिखत (½ × 8 = 4)
(निम्नलिखित कथांश को समुचित क्रम में लिखिए।)
(i) वनस्य समीपे एका नदी वहति ।
(ii) अपर: वानरः सिंहस्य कर्णमाकृष्यति।
(iii) सिंहः क्रुद्धः भवति।
(iv) एवमेव वानराः वारं-वारं सिंहम् तुदन्ति ।
(v) एकः सिंहः सुखेन विश्रामं करोति।
(vi) सः तं प्रहर्तुमिच्छति।
(vii) एकः वानरः तस्य पुच्छं धुनोति।
(viii) वानरः कूर्दित्वा वृक्षमारोहति।
उत्तरः
(i) वनस्य समीपे एका नदी वहति ।
(v) एकः सिंहः सुखेन विश्रामं करोति।
(vii) एकः वानरः तस्य पुच्छं धुनोति।
(iii) सिंहः क्रुद्धः भवति।
(vi) सः तं प्रहर्तुमिच्छति।
(viii) वानरः कूर्दित्वा वृक्षमारोहति।
(ii) अपर: वानरः सिंहस्य कर्णमाकृष्यति।
(iv) एवमेव वानराः वारं-वारं सिंहं तुदन्ति।