Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 2 Set 1 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 1 with Solutions
समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40
प्रश्नपत्रस्वरूपम :
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
- उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)
प्रश्नः 1.
अधोलिखतं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत् – (10)
एकदा सर्वे पक्षिणः मिलित्वा उलूकं स्वाधिपतिं विधातं विचारितवन्तः। तस्य अभिषेकवेलापि तैः निश्निता। ततो यदा अभिषेकोत्सवः प्रारब्धः तदैव कश्नित् वायसः तत्रागच्छत्। उलूकस्याभिषेक-समाचारं श्रुत्वा सोऽवदत् -“भोः ! किं विचार्य भवद्भिः एषः दिवान्धः उलूकः राजपदे प्रतिष्ठापयितुं निश्नितः? यस्य देशस्य राजा एवम् अन्धो भविष्यति तस्य प्रजा अपि तथैव भविष्यति। किं न श्रुतं भवद्भिः – यथा राजा तथा प्रजा इति।” ततः सर्वेऽपि तस्यस परामर्शं मत्वा यत्र तत्र प्रस्थिताः। कथैषा पुरातनी परम् अस्याः तात्पर्यं तु अद्यापि अक्षरशः सत्यम्।
लोकतान्त्रिकदेशेषु यथा राष्ट्रप्रमुखः सर्वकारो वा तथा तस्य देशस्य स्थितिः भवति। अतः राजपदे योग्यजनः एवं प्रतिष्ठापयितव्यः। सम्प्रति यथा नेतारः तथा जनाः।
(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) पक्षिणः कं स्वाधिपतिं विधातुम् उद्यता:?
उत्तरः
उलूकम्
(ii) यदा अभिषेकोत्सवः प्रारब्धः तदा कः तत्रागच्छत् ?
उत्तरः
वायसः
(iii) राजपदे कीदृशः जनः प्रतिष्ठापयितव्यः?
उत्तरः
शिक्षित:/योग्यजनः
(आ) पूर्णवाक्येन – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) वायसः उलूकस्य राजपदे प्रतिष्ठापनविषये किम् अवदत् ?
उत्तरः
वायसः उलूकस्य राजपदे प्रतिष्ठापनविषये अवदत् यत्-“यस्य देशस्य राजा एवम् अन्धो भविष्यति तस्य प्रजा अपि तथैव भविष्यति।
(ii) लोकतान्त्रिकदेशेषु देशस्य कीदृशी स्थितिः भवति?
उत्तरः
लोकतान्त्रिकदेशेषु यथा राष्ट्रप्रमुखः सर्वकारो वा तथा तस्य देशस्य स्थितिः भवति।
(iii) वायसः तत्र कदा आगच्छत् ?
उत्तरः
वायसः यदा उलूकस्य अभिषेकोत्सवः प्रारब्धः तदैव तत्रागच्छत्।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
उत्तरः
अस्य अनुच्छेदसः कृते उपयुक्तं शीर्षकं बुद्धिमान् वायसः/चतुरः वायसः / यथा राजा तथा
प्रजा / अथवा योग्यः राजा। छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितः निर्णयः करणीयः।
(ई) यथानिर्देशम् उत्तरत -(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) ‘काकः’ इत्यस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
उत्तरः
वायसः
(ii) ‘आगच्छत्’ इति क्रियायाः कर्तृपदं गद्यांशात् चित्वा लिखत।
उत्तरः
वायसः
(iii) ‘नवीना’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
उत्तरः
पुरातनी
(iv) ‘दिवान्धः उलूकः’ इत्यनयोः पदयोः विशेषणपदं किम्?
उत्तरः
दिवान्धः
रचनात्मकं-कार्यम्
प्रश्नः 2.
भवान् हार्दिकः। भवान् प्रतिदिनं च ‘चाऊमीन-बर्गर’ इत्यादिकं त्वरित-भोजनं खादति। स्वस्थभोजनस्य महत्त्वं वर्णयन्त्या अग्रजया भवन्तं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु। (½ × 10 = 5)
गुरुग्रामात्,
दिनाङ्क : ……………
प्रिय हार्दिक !
(i) ……….. ।
मया मात्रा लिखितं पत्रं प्राप्तम्। तेन (ii)……. मया ज्ञातं यत् भवान् सन्तुलितभोजनं न (iii)……… प्रतिदिनं च ‘चाऊमीन-बर्गर’ इति खादति। (iv) ….. भोजनं स्वास्थ्याय सम्यक् न अस्ति। यदा कदा तु अस्य (v)……….. कर्तुं शक्यते, परं प्रतिदिनं (vi) ……. सेवनं स्वास्थ्याय हानिकरम्। स्वास्थ्याय तु सन्तुलितभोजनम् एव (vii) ……… यतः ‘स्वस्थशरीरे एव स्वस्थमनसः विकासः’ भवति। अतः भवान् त्वरितभोजनस्य सेवनं (viii)………. करोतु। स्वास्थ्यवर्धकं भोजनमेव खादतु। अनेन भवान् कदापि (ix)… न भविष्यति। भवान् स्वस्वास्थ्यविषये जागरूकः तिष्ठतु इति मे अनुरोधः।
भवदीया अग्रजा (x) ………. ।
हिमांशी
मञ्जूषा-त्वरितभोजनस्य, त्यजतु, पत्रेण, सेवनम्, ईदृशम्, ग्रहीतव्यम्, स्नेहाशिषः, सेवते, रुग्णः, अग्रजा
उत्तरः
पत्रलेखम् ।
गुरुग्रामात्,
दिनाङ्क : 05.03.22
प्रिय हार्दिक !
(i) स्नेहाशिषः।
मात्रा लिखितं पत्रं प्राप्तम्। तेन (ii) पत्रेण मया ज्ञातं यत् भवान् सन्तुलितभोजनं न (iii) सेवते, प्रतिदिनं च ‘चाऊमीन-बर्गर’ इति खादति। (iv) ईदृशं भोजनं स्वास्थ्याय सम्यक् न अस्ति। यदा कदा तु अस्य (v) सेवनं कर्तुं शक्यते, परं प्रतिदिनं (vi) त्वरितभोजनस्य सेवनं स्वास्थ्याय हानिकरम्। स्वास्थ्याय तु सन्तुलितभोजनं (vii) ग्रहीतव्यम् एव यतः ‘स्वस्थशरीरे एव स्वस्थमनसः वासः’ भवति। अतः भवान् त्वरितभोजनस्य सेवनं (viii) त्यजतु करोतु। स्वास्थ्यवर्धकं भोजनमेव खादतु। अनेन भवान् कदापि (ix) रुग्णः न भविष्यति। भवान् स्वस्वास्थ्यविषये जागरूकः विष्ठतु इति मे अनुरोधः।
भवदीया (x) अग्रजा,
हिमांशी
प्रश्नः 3.
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
मञ्जूषा-शिरस्त्राणस्य, दण्डशुल्कम्, आरक्षकः, सुरक्षायै, धारयित्वा, दुर्घटनायै, निर्बाधम्, आमन्त्रणम्, शुल्कप्राप्तिपत्रम्, मोटरसाइकिलचालकः, आत्मरक्षायै।
उत्तरः
चित्रवर्णनम्
अत्र छात्रेभ्यः संक्षिप्तवाक्यरचना अपेक्षिता वर्तते। केवलं वाक्यशुद्धिः द्रष्टव्या। अस्य प्रश्नस्य प्रमुखम् उद्देश्यं वाक्यरचना अस्ति। वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्त्वपूर्णं नास्ति। प्रतिवाक्यम् अर्धः अङ्कः भावस्य कृते अर्धः अङ्क च व्याकरणदृष्टया शुद्धतानिमित्तं निर्धारितः अस्ति। मञ्जूषायां प्रदत्ताः शब्दाः सहायतार्थं सन्ति। छात्रः तेषां वाक्येषु प्रयोगं कुर्यादेव इति अनिवार्यं नास्ति। छात्रः स्वमेधया अपि वाक्यानि निर्मातुं शक्नोति। मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्यते।
पञ्चवाक्यानि
- एक: वाहनचालक: बिना शिरस्त्राणम् अस्ति।
- द्वौ आरक्षको सुरक्षायै शिरस्त्राणं धारयतः।
- वाहनचालकः बिना शिरस्त्राणम् धारयित्वा दुर्घटनायै निर्बाधम् आमन्त्रणम् करोति।
- आरक्षकः दण्डशुल्करूपेण शुल्कप्राप्तिपत्रम् ददाति।
- एकः मोटरसाइकिल चालकः आत्मरक्षायै शिरस्त्राणस्य उपयोगं करोति।
अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत –
“शाक-आपणः”
मञ्जूषा-विविधानि शाकानि, पलाण्डुः, आलुकम्, कारवेल्लम्, मरीचिका, वृन्ताकम, वार्तिकी इत्यादीनि, क्रेतारः, विक्रेतारः, जनसम्मर्दः, धनपत्राणि, कोलाहलम्, उच्चैः, आह्वयन्ति, पङ्कयुक्ता भूमिः, अस्वच्छता, अवकरः, मक्षिकाः, महाघम्, फलानि।
उत्तरः
अनुच्छेदलेखनम्
अयं विकल्पः सर्वेभ्यः अस्ति। छात्राः मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्रुवन्ति। अतः अङ्का देयाः। अस्य मूल्याङ्कनाय अन्ये नियमाः चित्रवर्णनस्य अनुगुणं पालनीयाः।
पञ्चवाक्यानि
- शाक-आपाणः ‘सब्जीमण्डी’ इति हिन्दी नाम्ना अपि अभिधीयते।
- शाक-आपणाः प्रायः अत्र-तत्र-सर्वत्र भवन्ति।
- अत्र क्रेतारः विक्रेतारः च बहु-दुरात् शाकानां विक्रयार्थं क्रयार्थं च आयान्ति।
- शाक-आपणे पलाण्डुः, आलुकम्, कारवेल्लम्, मरीचिका, वृन्ताकम्, वर्तिकी इत्यादीनि विविधानि शाकानि फलानि च मिलन्ति ।
- शाक-आपणस्य भूमिः अस्वच्छतापूर्णा पङ्कयुक्ता च भवति।
प्रश्नः 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं वाक्यपञ्चकम्) (1 × 5 = 5)
(i) घर के बाहर दो बच्चे खेल रहे हैं।
Two children are playing outside the house.
उत्तरः
गृहात् बहिः द्वौ बालकौ क्रीडत:/खेलतः।
(ii) ‘मेघदूतम्’ कालिदास की प्रसिद्ध रचना है।
‘Meghdootam’ is a famous work of Kalidas.
उत्तरः
‘मेघदूतम्’ कालिदासस्य कृति:/रचना अस्ति।
(iii) तुम सब कल क्यों नहीं आए थे ?
Why didn’t you all come yesterday?
उत्तरः
यूयं ह्यः किमर्थं न आगताः / आगतवन्तः । आगच्छत।
(iv) वे दोनों वहाँ जाएँ।
Both should go there.
उत्तरः
तौ तत्र गच्छताम्।
(v) परिश्रमी जन सदैव सफल होता है।
Laborious people always succeed.
उत्तरः
परिश्रमी जनः सदैव सफलः भवति ।
(vi) सभी छात्र निश्चय ही सफल होंगे।
All the students will surely be successful.
उत्तरः
सर्वे छात्राः निश्चयेन । ननु सफला: भविष्यन्ति।
(vii) उस लड़की ने पुस्तक पढ़ी।
That girl read the book.
उत्तरः
सा बालिका पुस्तकम् अपठत् / पठितवती।
पठित-अवबोधनम्
प्रश्नः 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (3)
कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान् । तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः, पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।
पदातिक्रमेण सञ्चलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। ‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’, एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(i) कः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्?
उत्तरः
निर्धनः / निर्धनजनः
(ii) करुणापरो गृही तस्मै कि प्रायच्छत् ?
उत्तरः
आश्रयम्
(iii) निर्धनस्य पुत्रः कुत्र निवसन् अध्ययने संलग्नः समभूत्?
उत्तरः
छात्रावासे
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) पिता कथं व्याकुलो जातः?
उत्तरः
पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः।
(ii) निर्धनः जनः किमर्थं पदातिरेव प्राचलत् ?
उत्तरः
निर्धनः जनः अर्थकार्येन पदातिरेव प्राचलत्।
(iii) जनः किं विचार्य पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः?
उत्तरः
‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’, एवं विचार्य सः जनः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः।
प्रश्नः 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (3)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।) मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिः तुरगास्तुरङ्गैः। मूर्खाश्च मूखैः सुधियः सुधीभिः, समान-शील-व्यसनेषु सख्यम् ॥
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) ( एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न) (½ × 2 = 1)
(i) के मृगैः सह अनुव्रजन्ति ?
उत्तरः
मृगाः
(ii) सुधीभिः सह के तिष्ठन्ति ?
उत्तरः
सुधियः
(iii) गावः काभिः सह अनुव्रजन्ति ?
उत्तरः
गोभिः
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) केषु सख्यं भवति?
उत्तरः
समान-शील-व्यसनेषु सख्यं भवति।
(ii) तुरगाः कैः सह अनुव्रजन्ति?
उत्तरः
तुरगाः तुरङ्गैः सह अनुव्रजन्ति ।
(iii) मूर्खाः सुधियश्च कैः सह अनुव्रजन्ति?
उत्तरः
मूर्खा: मूखैः सुधियः सुधीभिः सह अनुव्रजन्ति।
प्रश्नः 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (3)
- काकः-आम् सत्यं कथितं त्वया- वस्तुतः वनराजः भवितुं तु अहमेव योग्यः।
- पिकः-(उपहसन्) कथं त्वं योग्य: वनराजः भवितुं, यत्र तत्र का-का इति कर्कशध्वनिना वातावरणमाकुलीकरोषि । न रूपं, न ध्वनिरस्ति। कृष्णवर्णं मेध्यामेध्यभक्षकं त्वां कथं वनराजं मन्यामहे वयम्?
- काकः-अरे ! अरे ! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः? अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा-‘अनृतं वदसि चेत् काक: दशेत्’- इति प्रकारेण। अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम्। अपि च काकचेष्ट: विद्यार्थी एव आदर्शच्छात्रः मन्यते।
- पिकः-अलम् अलम् अतिविकत्थनेन। किं विस्मर्यते यत् काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिक: पिकः।।
- काकः-अरे परभृत् ! अहं यदि तव सन्ततिं न पालयामि तर्हि कुत्र स्युः पिका:? अतः अहं एव करुणापरः पक्षिसम्राट काकः।
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) ( एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न) (½ × 2 = 1)
(i) पिककाकयो: भेदः कदा ज्ञायते?
उत्तरः
वसन्तसमये
(ii) क: कर्कशध्वनिना वातावरणम् आकुलीकरोति?
उत्तरः
काकः
(iii) कीदृशः विद्यार्थी आदर्शच्छात्रः मन्यते?
उत्तरः
काकचेष्टः
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) अन्ते काकः पिकं प्रति किं वदति?
उत्तरः
अन्ते काक: पिकं प्रति वदति – “अरे परभृत्! अहं यदि तव सन्ततिं न पालयामि तर्हि कुत्र स्युः पिका:? अतः अहं एव करुणापरः पक्षिसम्राट् काकः” इति।
(ii) काकः कदा दशेत् ?
उत्तरः
अनृतं वदसि चेत् काकः दशेत्।
(iii) कः आत्मानं वनराजः भवितुं योग्यः चिन्तयति?
उत्तरः
काकः आत्मानं वनराजः भवितुं योग्यः चिन्तयति।
प्रश्नः 8.
मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वयं पूरयत य अन्वय पूरयत- (½ × 4 = 2)
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥
अन्वयः-पिता…………….. बाल्ये महत् ……….. यच्छति,
अस्य …………….. किं तपः तेपे इति ……… तत्कृतज्ञता।
मञ्जूषा-पिता, उक्तिः, विद्याधनम्, पुत्राय
उत्तरः
अन्वयः
पित्रा पुत्राय बाल्ये महत् विद्याधनं यच्छति,
अस्य पिता किं तपः तेपे इति उक्तिः तत्कृतज्ञता।
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनःलिखत –
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥
भावार्थ:-अस्य भावोऽस्ति यत् यःमानव: (i)……. कल्याणम् अधिकं च सुखम् (ii) ….. सः कदापि अन्येषां जनानां कृते अकल्याणकर (iii) …………. न कुर्यात् अपितु सर्वदा (iv)………. कर्म कुर्यात्।
मञ्जूषा-इच्छति, कर्म, कल्याणकरम्, स्वकीयम्
उत्तरः
भावार्थे रिक्तस्थानपूर्तिः
अस्य भावोऽस्ति यत् यः मानव: (i) स्वकीयं कल्याणम् अधिकं च सुखम् (ii) इच्छति, सः कदापि अन्येषां जनानां कृते अकल्याणकर (iii) कर्म न कुर्यात् अपितु सर्वदा (iv) कल्याणकरं कर्म कुर्यात्।
प्रश्नः 9.
अधोलिखित-कथांशं समुचितक्रमेण लिखत (½ × 8 = 4)
(निम्नलिखित कथांश को समुचित क्रम में लिखिए।)
(i) यद्यपि ग्रामस्य आरक्षी एव चौरः आसीत्।
(ii) चौर: एव उच्चैः क्रोशितुमारभत- ‘चौरोऽयं चौरोऽयम्’ इति।
(iii) चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृहणाच्च, परं विचित्रमघटत। विचित्रा दैवगतिः। तस्यामेव रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(v) तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(vi) तस्य तारस्वरेण ग्रामवासिनः प्रबुद्धाः।
(vii) तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
(vii) ग्रामवासिनः स्वगृहाद् निष्क्रम्य अतिथिमेव चौरं मत्वा अभर्ल्सयन्।
उत्तरः
(i) विचित्रा दैवगतिः। तस्यामेव रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(ii) तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
(iii) चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृहणाच्च, परं विचित्रमघटत।
(iv) चौरः एव उच्चैः क्रोशितुमारभत – ‘चौरोऽयम्’ इति।
(v) तस्य तारस्वरेण ग्रामवासिनः प्रबुद्धाः।
(vi) ग्रामवासिनः स्वगृहाद् निष्क्रम्य अतिथिमेव चौरं मत्वा अभर्त्सयन्।
(vii) यद्यपि ग्रामस्य आरक्षी एव चौरः आसीत्।
(viii)तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।