Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 1 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions
समय : होरात्रयम्
पूर्णाङ्का : 80
सामान्यनिर्देशाः
- अस्मिन् प्रश्न-पत्रे चत्वारि खण्डानि सन्ति।
■ खण्ड ‘क’ अपठित-अवबोधनम् – 10 अङ्काः, खण्ड ‘ख’ रचनात्मक – कार्यम्-15 अङ्काः, खण्ड ‘ग’ अनुप्रयुक्त-व्याकरणम्-25 अङ्काः, खण्ड ‘घ’ पठित-अवबोधनम् – 30 अङ्काः । - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- सर्वेषां प्रश्नाना उत्तराणि संस्कृतेन लेखनीयानि।
(खंड ‘क’)
अपठितावबोधनम्
खंड ‘क’ में अपठित गद्यांश से संबंधित एकपदेन, पूर्णवाक्येन, उपयुक्त शीर्षक व बहुविकल्पीय प्रश्न दिए गए हैं। जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत ।
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर संस्कृत में लिखिए। )
ग्रीष्मकालानन्तरं वर्षाकालः आगच्छति। आकाशे सूर्यमाच्छाद्य मेघाः इतस्ततः विहरन्ति । तदा कृषकाः मुदिताः भवन्ति । यदा वृष्टिः भवति तदा भगवतः आशीर्वादा इव जलबिन्दवः भुवि निपतन्ति । आकाशे मेघाः नितरां गर्जन्ति । सर्वत्र उत्पन्नप्रकम्पनं भयङ्करं भवति । तदा मयूराः केकारवं कुर्वन्तः मुदिताः भूत्वा नृत्यन्ति । नद्यः तडागाः च जलपूर्णाः भवन्ति । कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति । क्रमेण सस्यसम्पद् वर्धते । परं यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते । नदीनां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमज्जितानि भवन्ति। पशुपक्षिणः, लघवः प्राणिनः च म्रियन्ते । एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति । तदा जलस्य अभावेन तडागाः शुष्यन्ति। वृक्षाः विनश्यन्ति । कृषिकर्म असाध्यं भवति । कृषिं विना धान्योत्पत्तिः एव न भवति । प्राणधारणवस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति । क्रमशः जीवनम् एव दुर्वहं भवति । अतिवृष्टेरनावृष्टेः च मूलं मानवः एव। सघनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति । पर्यावरणप्रदूषणेन ऋतूनां गतयः परिवर्तिताः भवन्ति । अतः पर्यावरणस्य संरक्षणाय वयं जागरुकाः भवेम ।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(एक पद में उत्तर दीजिए) (केवल दो प्रश्न )
(i) कुत्र मेद्याः इतस्ततः विहरन्ति ?
उत्तर:
आकाशे
(ii) सर्वत्र उत्पन्नप्रकम्पनं कीदृशं भवति ?
उत्तर:
भयङ्करम्
(iii) जलस्य अभावेन के शुष्यन्ति ?
उत्तर:
तडागाः
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (2 × 2 = 4 अङ्काः)
(पूर्णवाक्य में उत्तर दीजिए) (केवल दो प्रश्न )
(i) पर्यावरणं कथम् असन्तुलितं भवति ?
उत्तर:
सघनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति ।
(ii) कदा भगवतः आशीर्वादा इव जलबिन्दवः निपतन्ति ?
उत्तर:
यदा वृष्टिः भवति तदा भगवतः आशीर्वादा इव जलबिन्दवः भुवि निपतन्ति ।
(iii) प्राणिनः कदा म्रियन्ते?
उत्तर:
यदा अतिवृष्टिः अनावृष्टि वा भवति तदा प्राणिनः म्रियन्ते। | यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते । नदीनां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमज्जितानि भवन्ति। पशुपक्षिणाः, लघवः प्राणिनः च म्रियन्ते ।
III. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । (1 अङ्कः)
(इस अनुच्छेद का उपयुक्त शीर्षक संस्कृत में लिखिए।)
उत्तर:
वृष्टेः अनावृष्टेः परिणामः / वर्षाकालः / असन्तुलितं वातावरणम् छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितः निर्णयः करणीयः ।
IV. यथानिर्देशम् उत्तरत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल तीन प्रश्न)
(i) ‘कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति ।’ अत्र किं क्रियापदम्?
(क) कृष्ट्वा
(ख) बीजानि
(ग) वपन्ति
(घ) उपरोक्त सर्वम्
उत्तर:
(ग) वपन्ति
(ii) ‘असन्तुलितम्’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) पर्यावरणम्
(ख) विपिनम्
(ग) ऋतु:
(घ) मानवः
उत्तर:
(क) पर्यावरणम्
(iii) ‘अरण्यानाम्’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?
(क) मेघानाम्
(ख) विपिनानाम्
(ग) निमज्जितानाम्
(घ) पर्यावरणम्
उत्तर:
(ख) विपिनानाम्
(iv) ‘दुःखिताः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम् ?
(क) भ्रमिताः
(ख) जना:
(ग) आशीर्वादा:
(घ) मुदिता:
उत्तर:
(घ) मुदिताः
(खंड ‘ख’)
रचनात्मकं कार्यम्
खंड ‘ख ́ रचनात्मक कार्य में पत्र, चित्र लेखन, अनुच्छेद लेखन और हिन्दी वाक्यों का संस्कृत में अनुवाद आदि से संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।
2. भवान् दिवाकरः । स्वमातुलं निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत । (1/2 × 10 = 5 अङ्काः)
(आप दिवाकर हैं। आप अपनी माता को बुलाने हेतु मञ्जूषा की सहायता से एक पत्र लिखिए)
वाराणसीतः
दिनाङ्कः …………..
आदरणीय (i) …………….
सस्नेहं नमः ।
अत्र कुशलं (ii) ……….. | भवान् इदं ज्ञात्वा अत्यधिकः प्रसन्नः (iii) …………… यत् मम वार्षिकपरीक्षायाः परिणामः आगतः। अहं (iv) ………. सर्वाधिकाङ्कान् प्राप्तवान् अस्मि । सर्वाधिकानाम् अङ्कानां (v) ……….. सर्वोत्कृष्ट – छात्र – सम्माननाय राज्यसर्वकारेण (vi) ………… चितः अस्मि । तत्र सम्मानस्थले (vii) ………… अभिभावकाः आमन्त्रिताः सन्ति । मम सम्मान – कार्यक्रमे भवान् अपि (viii) ……… भवतु इति मम महती इच्छा वर्तते । यतोहि अभिभावकेषु भवान् अन्यतमः वर्तते। मातामहयोः चरणयोः मम (ix) …….. प्रणामाञ्जलिः ।
भवदीयः भागीनेयः
(x) …………….
[मञ्जूषा दिवाकरः, अहम्, परीक्षायाम्, तत्रास्तु, मातुल, भविष्यप्ति, कारणात्, सर्वेऽपि, उपस्थितः, साष्टाङ्गम्।
उत्तर:
वाराणसीतः
दिनाङ्कः …………..
आदरणीय (i) मातुल!
सस्नेहं नमः ।
अत्र कुशलं (ii) तत्रास्तु | भवान् इदं ज्ञात्वा अत्यधिकः प्रसन्नः (iii) भविष्यति यत् मम वार्षिकपरीक्षायाः परिणामः आगतः। अहं (iv) परीक्षायां सर्वाधिकाङ्कान् प्राप्तवान् अस्मि । सर्वाधिकानाम् अङ्कानां (v) कारणात् सर्वोत्कृष्ट – छात्र – सम्माननाय राज्यसर्वकारेण (vi) अहं चितः अस्मि । तत्र सम्मानस्थले (vii) सर्वेऽपि अभिभावकाः आमन्त्रिताः सन्ति । मम सम्मान – कार्यक्रमे भवान् अपि (viii) उपस्थितः भवतु इति मम महती इच्छा वर्तते । यतोहि अभिभावकेषु भवान् अन्यतमः वर्तते। मातामहयोः चरणयोः मम (ix) साष्टाङ्ग प्रणामाञ्जलिः ।
भवदीयः भागीनेयः
(x) दिवाकरः
3. प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत । (1 × 5 = 5 अङ्काः)
(मञ्जूषा में दिए गए शब्दों की सहायता से चित्र को देखकर पाँच वाक्य संस्कृत में लिखिए।)
[मञ्जूषा वहति, उद्यानस्य, पुष्पाणि, नदी, वृक्षाः, आकाशे, पर्वतः, दृश्यम्, हरीतिमा, सूर्य, चन्द्रः, उदेति, प्राकृतिकम्, पादपाः ।
उत्तर:
(i) इदं चित्रम् उद्यानस्य अस्ति ।
(ii) सूर्यः प्रातः काले उदेति ।
(iii) आकाशे चन्द्रः अस्तं गच्छति ।
(iv) अस्मिन् चित्रे पर्वताः सन्ति ।
(v) एतत् दृश्यम् अतीव मनोहरं दृश्यते ।
अथवा
निम्नलिखितं विषयम् अधिकृत्य मञ्जूषा प्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत | (1 × 5 = 5 अङ्काः)
“क्रीडा-महत्त्वम्”
खेल का महत्त्व
[मञ्जूषा महत्त्वपूर्णम् सर्वेभ्यः, अनिवार्यम् स्वास्थ्याय, जीवनम्, संयमः, स्थानम्, सफलाः जनाः, क्रीडा ।
उत्तर:
(i) जीवने क्रीडायाः अतीव महत्त्वं भवति ।
(ii) क्रीडा स्वास्थ्याय अनिवार्यम् भवति ।
(iii) सर्वेभ्यः नियमित रूपेण क्रीडा महत्त्वपूर्णा भवति ।
(iv) क्रीडया मनुष्याः स्वस्थाः सफलाः च भवन्ति ।
(v) क्रीडया जीवने संयमः अपि भवति ।
4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत । (केवलं वाक्यपञ्चकम्) (1 × 5 = 5 अङ्का:)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए।) (केवल पाँच वाक्य)
(i) देश की शिक्षाव्यवस्था अच्छी है।
The education system of the country is good.
उत्तर:
देशस्य शिक्षाव्यवस्था उत्तमास्ति ।
(ii) तुम विदेश में पढ़ोगे ?
Will you study abroad ?
उत्तर:
त्वं विदेशे पठिष्यसि ?
(iii) मैं सुबह आठ बजे विद्यालय जाता हूँ।
I go to school at eight in the morning.
उत्तर:
अहं प्रातः अष्टवादने विद्यालयं गच्छामि।
(iv) आपके संस्कृत शिक्षक का नाम क्या है ?
What is the name of your Sanskrit teacher?
उत्तर:
भवतः | भवत्याः / तव संस्कृत-शिक्षकस्य नाम किम् / किमस्ति ?
(v) संसार में सभी सुखी रहें।
May everyone be happy in the world.
उत्तर:
संसारे सर्वे सुखिनः भवन्तु । / संसारे सर्वे सुखपूर्वक / सुखेन निवसन्तु ।
(vi) छात्र अध्ययन करें।
Students study.
उत्तर:
छात्राः अध्ययनं कुर्वन्तु / कुर्युः।
(vii) तुम सब श्लोक लिखो |
Everyone writes verses.
उत्तर:
यूर्य / यूयं सर्वे श्लोक लिखत ।
(खंड ‘ग’)
अनुप्रयुक्त व्याकरणम्
खंड ‘ग’ अनुप्रयुक्त व्याकरणम् में संधि / संधि विच्छेद, समास / समास विग्रह, प्रत्यय, वाच्य, काल-बोधक शब्द, अव्यय, शुद्ध / अशुद्ध वाक्य आदि से संबंधित बहुविकल्पीय प्रश्न दिए गए हैं। जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।
5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु संधि संधि-विच्छेदं वा कुरुत। (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्का:)
(निम्नलिखित वाक्यों में रेखांकित शब्दों की संधि अथवा संधि-विच्छेद करके लिखिए |) (केवल चार प्रश्न)
(i) अस्य पिता किं तपः + तेपे ।
उत्तर:
तपस्तेपे
(ii) मम नृत्यं तु प्रकृतेराराधना ।
उत्तर:
प्रकृतेः + आराधना
(iii) नय माम् अस्मात् + नगरात् बहुदूरम् ।
उत्तर:
अस्मानगरात्
(iv) अन्योऽपि बुद्धिमाल्लोके मुच्यते महतो भयात्।
उत्तर:
अन्यः + अपि
(v) भूरि परिश्रम्य किञ्चित् + वित्तम् उपार्जितवान् ।
उत्तर:
किञ्चिद्वित्तम् / किञ्चिद् वित्तम्
6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्का:)
(निम्नलिखित वाक्यों में रेखांकित पदों का समास अथव विग्रह दिए गए विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) न्यायाधीशः आरक्षिणं दोषभाजनम् अमन्यत।
(क) दोषस्य भाजनम्
(ख) दोषाय भाजनम्
(ग) दोषं भाजनम्
(घ) दोषेण भाजनम्
उत्तर:
(क) दोषस्य भाजनम्
(ii) काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते ।
(क) काकस्य चेष्टा
(ख) काकः चेष्टः इव
(ग) काकः इव चेष्टा यस्य सः
(घ) काकः चेष्टः
उत्तर:
(ग) काकः इव चेष्टा यस्य सः
(iii) जलद ! त्वं पर्वतकुलम् आश्वास्य रिक्तोऽसि ।
(क) पर्वतेभ्यः कुलम्
(ख) पर्वतानां कुलम्
(ग) पर्वतेषु कुलम्
(घ) पर्वताः कुलम्
उत्तर:
(ख) पर्वतानां कुलम्
(iv) हयाश्च नागाश्च वहन्ति बोधिताः ।
(क) हयनागाश्च
(ग) हयनागः
(ख) हयानागा:
(घ) हयनागा:
उत्तर:
(घ) हयनागाः
(v) धरातलं मलेन सहितं जातम् ।
(क) सहमलम्
(ख) समलम्
(ग) यथामलम्
(घ) उपमलम्
उत्तर:
(ख) समलम्
7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्का:)
(निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति-प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) अन्योऽपि बुद्धिमान लोके मुच्यते ?
(क) बुद्धि + मतुप्
(ख) बुद्धि + टाप्
(ग) बुद्धि + ङीप्
(घ) बुद्धि + इक्
उत्तर:
(क) बुद्धि + मतुप्
(ii) पुत्रस्य अभ्यधिका कृपा ।
(क) अभ्यधिक + ठक्
(ख) अभ्यधिक + टाप्
(ग) अभ्यधिक + ङीप्
(घ) अभ्यधिक + तल्
उत्तर:
(ख) अभ्यधिक + टाप्
(iii) त्वं मीनान् छलेन अधिगृह्य क्रूर + तल् भक्षयसि ।
(क) क्रूरतायै
(ख) क्रूरतायाः
(ग) क्रूरतया
(घ) क्रूरतानाम्
उत्तर:
(ग) क्रूरतया
(iv) तदेवाहुः महात्मानः सम + त्व इति तथ्यतः ।
(क) समत्वम्
(ख) समता
(ग) समताम्
(घ) समतया
उत्तर:
(क) समत्वम्
(v) सा तपस्विनी । स्वापत्यम् एवम् निर्भर्त्सयति ।
(क) तपस्वी + ठक्
(ख) तपस्वी + तल्
(ग) तपस्वी + इन्
(घ) तपस्वी + ङीप्
उत्तर:
(घ) तपस्वी + ङीप्
8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(वाच्य के अनुसार उचित पदों का चयन कर रिक्त स्थानों की पूर्ति करके पुन: लिखत ।) (केवल तीन प्रश्न)
(i) भोः वासव ! पुत्रस्य दैन्यं दृष्ट्वा मया ……. ?
(क) रुद्ये
(ख) रुद्यते
(ग) रुद्यसे
(घ) रोदिमि
उत्तर:
(ख) रुद्यते
(ii) सः दीन इति जानन्नपि सः कृषकः ……….. पीडयति ।
(क) तम्
(ख) तेन
(ग) सः
(घ) ता:
उत्तर:
(क) तम्
(iii) किम् एतत् भवता न …………?
(क) दृश्ये
(ख) दृश्यसे
(ग) दृश्यते
(घ) पश्यति
उत्तर:
(ग) दृश्यते
(iv) ………. पुत्राय बाल्ये महत् विद्याधनं यच्छति ।
(क) पिता
(ख) पित्रा
(ग) पितरम्
(घ) पितरः
उत्तर:
(क) पिता
9. कालबोधकशब्दैः अधोलिखित दिनचर्यां पूरयत ।
(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्काः)
(कालबोधक शब्दों से निम्नलिखित दिनचर्या को पूरा कीजिए।) (केवल चार प्रश्न )
(i) अधोक्षजः ब्रह्ममुहूर्ते ………. 3 : 30 जागर्ति।
उत्तर:
सार्धत्रिवादने
(ii) सः ………… 4:00 योगाभ्यासं करोति ।
उत्तर:
चतुर्वादने
(iii) तदनन्तरम् सः स्नात्वा ……… 4:30 सन्ध्योपासनां करोति ।
उत्तर:
सार्धचतुर्वादने
(iv) पश्चात् ………… 5:15 वेदाभ्यासं करोति ।
उत्तर:
सपादपञ्चवादने
(v) सः ……… 11:45 मध्याह्रभोजनं करोति ।
उत्तर:
पादोनद्वादशवादने
10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः
अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम् ) (1 × 3 = 3 अङ्काः)
(मञ्जूषा में दिए गए उचित अव्यय पदों से वाक्यों में रिक्त स्थानों की पूर्ति कीजिए।) (केवल तीन प्रश्न)
[मञ्जूषा उच्चैः यदि, तत्र, यत्र ।]
(i) ……….. आस्ते सा धूर्ता तत्र गम्यताम् ।
उत्तर:
यत्र
(ii) अरे परभृत् ! अहं ……… तव सन्ततिं न पालयामि तर्हि कुत्र सयुः पिकाः ?
उत्तर:
यदि
(iii) तत्तनयः …………. एव छात्रावासे अध्ययने संलग्नः समभूत् ।
उत्तर:
तंत्र
(iv) त्वं कारादण्डं लप्स्यसे इति प्रोच्य ………….. अहसत् आरक्षी।
उत्तर:
उच्चैः
11. अधोलिखितवाक्येषु रेखाङ्कित – अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत । (केवलं प्रश्नत्रयम् ) (1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पद अशुद्ध हैं। शुद्ध पद को विकल्पों में से चुनकर लिखिए।) (केवल तीन प्रश्न)
(i) मार्गं गहनकानने सा एकं व्याघ्रं ददर्श ?
(क) मार्ग:
(ख) मार्गे
(ग) मार्गात्
(घ) मार्गाय
उत्तर:
(ख) मार्गे
(ii) सः ह्यः पदातिरेव चलिष्यति ।
(क) अचलत्
(ख) अचल:
(ग) चलतु
(घ) चलेत्
उत्तर:
(क) अचलत्
(iii) किं सा कुपितः एव भणति ?
(क) कुपितौ
(ख) कुपिता
(ग) कुपिताः
(घ) प्रणमन्ति
उत्तर:
(ख) कुपिता
(iv) सर्वे प्रकृतिमातरं प्रणमति ।
(क) प्रणमतः
(ख) प्रणमथ:
(ग) प्रणमाव:
(घ) कुपिते
उत्तर:
(घ) प्रणमन्ति
(खंड ‘घ’)
पठितावबोधनम्
खंड ‘घ’ पठितावबोधनम् में पाठ्यपुस्तक से गद्यांश व पद्यांश पर आधारित एकपदेन, पूर्णवाक्येन, निर्देशानुसारम् प्रश्न, प्रश्ननिर्माण, श्लोकों का अन्वय व भावार्थ, घटनाक्रम व प्रसङ्गानुकूल संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।
12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्काः)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान् । न्यायाधीशो बङ्किमचन्द्रः उभाभ्यां पृथक् पृथक् विवरणं श्रुतवान् । सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत् । ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ । तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः कोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयमिति ? न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्। आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1 अङ्कः)
(एक पद में उत्तर दीजिए) (केवल दो प्रश्न)
(i) न्यायाधीशः कं दोषभाजनम् अमन्यत?
उत्तर:
आरक्षिणम्
(ii) आरक्षी चौर्याभियोगे तं जनं कुत्र नीतवान् ?
उत्तर:
न्यायालयम्
(iii) न्यायाधीशः आरक्षिणम् अभियुक्तं च किम् आनेतुम् आदिष्टवान् ?
उत्तर:
तम् | शवम् | तं शवम्
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(पूर्णवाक्य में उत्तर दीजिए।) (केवल दो प्रश्न )
(i) उभौ कथं न्यायाधिकरणं प्रति प्रस्थितौ ?
उत्तर:
उभौ काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ ।
(ii) कर्मचारी समागत्य किं न्यवेदयत् ?
उत्तर:
कर्मचारी समागत्य न्यवेदयत् यत् इतः कोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयमिति ।
(iii) न्यायाधीशो बङ्किमचन्द्रः किं श्रुतवान्?
उत्तर:
न्यायाधीशो बङ्किमचन्द्रः उभाभ्यां पृथक् पृथक् विवरणं श्रुतवान्।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न)
(i) ‘अमन्यत’ इत्यस्य क्रियापदस्य कर्तृपदं किम् ?
उत्तर:
सः | न्यायाधीशो बङ्किमचन्द्रः
(ii) ‘पटाच्छादितम्’ इति विशेषणपदस्य किं विशेष्यपदं प्रयुक्तम् ?
उत्तर:
देहम्
(iii) ‘द्वौ’ इत्यस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर:
उभौ
13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्काः)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम् । शुचिपर्यावरणम् ॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मन: शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम् ॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम् । शुचिपर्यावरणम्।।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1 अङ्कः)
(एक पद में उत्तर दीजिए) (केवल दो प्रश्न)
(i) अत्र किं दुर्वहं जातम् ?
उत्तर:
जीवितम्
(ii) महानगरे कालायसचक्रं कदा चलति ?
उत्तर:
अनिशम्
(iii) पर्यावरणं कीदृशं भवितव्यम् ?
उत्तर:
शुचि
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(पूर्णवाक्य में उत्तर दीजिए) (केवल दो प्रश्न )
(i) कालायसचक्रं किं कुर्वत् वक्रं भ्रमति ?
उत्तर:
कालायसचक्रं मनः शोषयत् तनुः पेषयद् सदा वक्रम् भ्रमति।
(ii) केन जनग्रसनं न स्यात् ?
उत्तर:
दुर्दान्तैर्दशनैरमुना जनग्रसनं न स्यात्।
(iii) का अस्माकं शरणम् अस्ति ?
उत्तर:
प्रकृतिरेव अस्माकं शरणम् अस्ति।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न)
(i) ‘सर्वदा’ इति पदस्य पर्यायपदं श्लोकात् चित्वा लिखत ।
उत्तर:
सदा
(ii) ‘सुकरम्’ इति पदस्य विलोमपदं श्लोकात् चित्वा लिखत |
उत्तर:
दुर्वहम्
(iii) ‘दुर्दान्तैः दशनैः’ इत्यनयोः पदयोः किं विशेषणपदम् ?
उत्तर:
दुर्दान्तैः
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखित । (5 अङ्काः)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
(सिंहासनस्थः रामः। ततः प्रविशतः
विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ )
विदूषकः इत इत आर्यौ!
कुशलवौ (रामम् उपसृत्य प्रणम्य च ) अपि कुशलं महाराजस्य ?
रामः युष्मद्दर्शनात् कुशलमिव । भवतो: किं वयमत्र
कुशलप्रश्नस्य भाजनम् एव, न
पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य ।
(परिष्वज्य) अहो हृदयग्राही स्पर्शः ।
(आसनार्धमुपवेशयति)
उभौ राजासनं खल्वेतत्, न युक्तामध्यासितुम्।
रामः सव्यवधानं न चारित्रलोपाय |
तस्मादङ्क-व्यवहित मध्यास्यतां सिंहासनम्।
(अङ्कमुपवेशयति)
उभौ (अनिच्छां नाटयतः ) राजन् !
अलमतिदाक्षिण्येन।
रामः अलमतिशालीनतया ।
भवति शिशुजनो व्योऽनुरोधाद् गुणमहतामपि लालनीय एव ।
व्रजति हिमकरोऽपि बालभावात् पशुपति मस्तक – केतकच्छदत्वम्॥
रामः एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि क्षत्रियकुल- पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्ता ?
लवः भगवन् सहस्रदीधितिः ।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1 अङ्कः)
(एक पद में उत्तर दीजिए) (केवल दो प्रश्न )
(i) कुशलवयोः वंशस्य कर्ता कः ?
उत्तर:
सहस्रदीधितिः
(ii) कौ अनिच्छां नाटयतः ?
उत्तर:
उभौ / कुशलवौ
(iii) कुशलवयोः मार्गं कः निर्दिशति ?
उत्तर:
विदूषकः
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(पूर्णवाक्य में उत्तर दीजिए) (केवल दो प्रश्न)
(i) हिमकरः कस्मात् भावात् पशुपतेः मस्तके व्रजति ?
उत्तर:
हिमकर : बालभावात् पशुपतेः मस्तके ब्रजति ।
(ii) कुशलवौ रामम् उपसृत्य प्रणम्य च किं पृच्छतः ?
उत्तर:
कुशलवौ रामम् उपसृत्य प्रणम्य च पृच्छतः – अपि कुशलं महाराजस्य इति ।
(iii) रामः कथं वंशपरिचयं पृच्छति ?
उत्तर:
राम : कौतूहलेन वंशपरिचयं पृच्छति। क्षत्रियकुल पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य इति ।
III. निर्देशानुसारम् उत्तरत (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न)
(i) ‘ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ।’ अत्र कर्तृपदं किम् ?
उत्तर:
कुशलवौ
(ii) ‘समीपं गत्वा’ इत्सस्य पर्यायपदं किं प्रयुक्तम् ?
उत्तर:
उपेत्य
(iii) ‘निर्गच्छतः’ इति पदस्य विपर्ययपदं नाट्यांशात् चित्वा लिखत ।
उत्तर:
प्रविशतः
15. रेखाङ्कित पदानि आधृत्य प्रश्ननिर्माणं कुरुत। (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्काः)
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।) (केवल चार प्रश्न)
(i) अहं वन्यजन्तूनाम् उपरि आक्रमणं कर्तारं वनात् बहिष्करिष्यामि।
उत्तर:
वन्यजन्तूनाम् उपरि आक्रमणं कर्तारं कस्मात् / कुतः बहिष्करिष्यामि ?
(ii) मां निजगले बद्ध्वा चल सत्वरम् ।
उत्तर:
मां कुत्र / कस्मिन् बद्ध्वा चल सत्वरम् ?
(iii) चौरस्य पदाध्वनिना अतिथिः प्रबुद्धः ।
उत्तर:
चौरस्य पादध्वनिना कः प्रबुद्धः ?
(iv) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति ।
उत्तर:
गजः वन्यपशून् तुदन्तं केन पोथयित्वा मारयति ?
(v) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः ।
उत्तर:
आचारः प्रथमो धर्मः इत्येतद् केषां वचः ?
16. मञ्जूषातः समुचितपदानि चित्वा
अधोलिखित श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत । (1 × 4 = 4 अङ्काः)
(मञ्जूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा करके पुन: लिखिए | )
आश्वास्य पर्वतकुलं तपनोष्णतप्त-
मुद्दामदावविधुराणि च काननानि ।
नानानदीनदशतानि पूरयित्वा
रिक्तोऽसि यज्ज्लद! सैव तवोत्तमा श्रीः ।
अन्वयः हे जलद ! (त्वं) (i) …………. पर्वतकुलम् उद्दामदावधिधुराणि (ii) ……….. च आश्वास्य नानानदीनदशतानि (iii) ………. च यत् (स्वयं) रिक्तः असि, सा (रिक्ता) एवं तव (iv) ………. श्रीः (अस्ति) ।
[मञ्जूषा उत्तमा, काननानि, तपनोष्णतप्तम्, पूरयित्वा।
उत्तर:
हे जलद ! (त्वं) (i) तपनोष्णतप्तम् पर्वतकुलम् उद्दामदावधिधुराणि
(ii) काननानि च आश्वास्य नानानदीनदशतानि
(iii) पूरयित्वा च यत् (स्वयं) रिक्तः असि सा (रिक्ता) एव तव
(iv) उत्तमा श्री : (अस्ति ) |
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत। (1 × 4 = 4 अङ्काः)
(मञ्जूषा की सहायता से श्लोक भावार्थ को रिक्तस्थानों से पूरा करके पुन: लिखिए।
विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम् ।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः ।।
भावार्थ: अस्य श्लोकस्य भावः अस्ति यत् (i) ………… विचित्रे संसारे किञ्चिदपि वस्तु निरर्थकं न अस्ति । यतः यदा धावनस्य कार्यं भवति तदा (ii) …………. प्रयोगः भवति परन्तु यदा (iii) ……….. कार्यं भवति तदा खरस्य एव (iv) ……… भवति ।
[मञ्जूषा अश्वस्य, भारवहनस्य, आवश्यकता, अस्मिन्।
उत्तर:
अस्य श्लोकस्य भावः अस्ति यत् (i) अस्मिन् विचित्रे संसारे किञ्चिदपि वस्तु निरर्थकं न अस्ति । यतः यदा धावनस्य कार्यं भवति तदा
(ii) अश्वस्य प्रयोगः भवति परन्तु यदा
(iii) भारवहनस्य कार्यं भवति तदा खरस्य एव
(iv) आवश्यकता भवति ।
17. अधोलिखित-कथांशं समुचित क्रमेण लिखत । (1/2 × 8 = 4 अङ्कः)
(निम्नलिखित कथांश को उचित क्रम में लिखिए।)
(i) स तामेव असान्त्वयत् ‘गच्छ वस्से ! सर्वं भद्रं जायेत’ ।
(ii) ‘बहूनि अपत्यानि में सन्ति’ इति सत्यम् ।
(iii) सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव।
(iv) अचिरादेव चण्डवातेन मेघरवैः च सह प्रवर्षः समजायत ।
(v) सुरभिवचनं श्रुत्वा इन्द्रस्य हृदयम् अद्रवत्।
(vi) यतोहि अयम् अन्येभ्यः दुर्बलः ।
(vii) तथापि दुर्बले सुते मातुः अधिका कृपा भवति ।
(viii) तथापि मम अस्मिन् पुत्रे विशिष्टः स्नेहः ।
उत्तर:
(ii) ‘बहूनि अपत्यानि मे सन्ति’ इति सत्यम् ।
(viii) तथापि मम अस्मिन् पुत्रे विशिष्टः स्नेहः ।
(vi) यतोहि अयम् अन्येभ्यः दुर्बलः ।
(iii) सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव।
(vii) तथापि दुर्बले सुते मातुः अधिका कृपा भवति ।
(v) सुरभिवचनं श्रुत्वा इन्द्रस्य हृदयम् अद्रवत् ।
(i) स तामेव असान्त्वयम् ‘गच्छ वत्से ! सर्वं भद्रं जायेत ।
(iv) अचिरादेव चण्डवातेन मेघरवैः च सह प्रवर्षः समजायत ।
18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गनुकूलम् उचितार्थं चित्वा लिखत । (केवलं प्रश्नत्रयम् ) ( 1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसङ्गनुकूल उचित अर्थ लिखिए।) (केवल तीन प्रश्न)
(i) पाषाणी सभ्यता निसर्गे न स्यात् ।
(क) संसर्गे
(ख) प्रकृतौ
(ग) प्रसङ्गे
(घ) पृथिव्याम्
उत्तर:
(ख) प्रकृतौ
(ii) सा पुत्रौ चपेटया प्रहृत्य जगाद ।
(क) प्रोत्साह्य
(ख) विचारं कृत्वा
(ग) प्रशंसां कृत्वा
(घ) ताडयित्वा
उत्तर:
(घ) ताडयित्वा
(iii) दुर्बले सुते मातुः कृपा भवति ।
(क) वीरे पुत्रे
(ख) निर्बले पुत्रे
(ग) धीरे सुते
(घ) प्रदत्तं सर्वम्
उत्तर:
(ख) निर्बले पुत्रे
(iv) अर्थकार्त्स्न्येन पीडितः पदातिरेव प्राचलत् ।
(क) धनाभावेन
(ख) अर्थाधिक्येन
(ग) अर्थप्राप्तये
(घ) सर्वम्
उत्तर:
(क) धनाभावेन