Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 5 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions
संस्कृतम् कक्षा 10
समय : होरात्रयम्
पूर्णाङ्का : 80
सामान्यनिर्देशाः
- अस्मिन् प्रश्न-पत्रे चत्वारि खण्डानि सन्ति।
■ खण्ड ‘क’ अपठित-अवबोधनम् – 10 अङ्काः, खण्ड ‘ख’ रचनात्मक – क- कार्यम् – 15 अङ्काः, खण्ड ‘ग’ अनुप्रयुक्त – व्याकरणम्-25 अङ्काः, खण्ड ‘घ’ पठित-अवबोधनम् – 30 अङ्काः । - प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- सर्वेषां प्रश्नाना उत्तराणि संस्कृतेन लेखनीयानि ।
(खंड ‘क’)
अपठितावबोधनम्
खंड ‘क’ में अपठित गद्यांश से संबंधित एकपदेन, पूर्णवाक्येन, उपयुक्त शीर्षक व बहुविकल्पीय प्रश्न दिए गए हैं। जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत ।
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
प्राचीनकाले शुद्धोधनः नाम राजा आसीत् । तस्य सिद्धार्थः नाम पुत्रः अभवत् । सिद्धार्थस्य पालनं विमाता गौतमी अकरोत् अतः तस्य नाम गौतमः अपि आसीत्। सिद्धार्थस्य हृदयं दयापूर्णम् आसीत् । एकदा सिद्धार्थस्य भ्राता एकं हंसं बाणेन अहनत् । सिद्धार्थस्य हृदयं हंसं दृष्ट्वा करुणया अपूरयत्। सिद्धार्थस्य वैराग्यभावम् अवलोक्य शुद्धोधनः अतीव चिन्तितः अभवत् तदा सः सिद्धार्थस्य विवाहः एकया रूपवत्या कन्यया सह कृतवान्। सिद्धार्थस्य राहुल: इति नाम्ना एकः पुत्रः अपि जातः । एकदा भ्रमणसमये सिद्धार्थ: एकं वृद्धं, एकं रोगिणम्, एकं मृतं मनुष्यं च अपश्यत्। ‘ सर्वोषाम् एव ईदृशी गतिः भवति’ इति ज्ञात्वा सः संसारात् विरक्तः अभवत् । एकदा रात्रौ सः स्वकीयां पत्नीं, पुत्रं, राजप्रासादं च त्यक्त्वा वनम् अगच्छत्। ‘बोधगया’ इति स्थाने सः बुद्धत्वं प्राप्तवान् । ततः ‘बुद्ध’ इति नाम्ना प्रसिद्धः अभवत् । सः संसारम् अमरतायाः मार्गम् अदर्शयत् ।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(एक शब्द में उत्तर दीजिए) (केवल दो प्रश्न)
(i) सिद्धार्थस्य पालनं का अकरोत् ?
उत्तर:
गौतमी
(ii) सिद्धार्थस्य हृदयं कीदृशम् आसीत्?
उत्तर:
दयापूर्णम्
(iii) प्राचीनकाले कः राजा आसीत्?
उत्तर:
शुद्धोधनः
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 4 अङ्काः)
(पूर्णवाक्य में उत्तर दीजिए) (केवल दो प्रश्न)
(i) सिद्धार्थस्य वैराग्यभावम् अवलोक्य कः चिन्तितः अभवत्?
उत्तर:
सिद्धार्थस्य वैराग्यभावम् अवलोक्य शुद्धोधनः चिन्तितः अभवत्।
(ii) सिद्धार्थः केन नाम्ना प्रसिद्ध अभवत्?
उत्तर:
सिद्धार्थः ‘बुद्ध’ इति नाम्ना प्रसिद्धः अभवत् ।
(iii) शुद्धोधनस्य पुत्रनाम किमासीत् ?
उत्तर:
शुद्धोधनस्य पुत्रनाम सिद्धार्थः आसीत्।
III. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । (1 अङ्काः)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।)
उत्तर:
अस्य गद्यांशस्य शीर्षकं ‘सिद्धार्थस्य विरक्ति: अस्ति।
IV. यथानिर्देशम् उत्तरत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(निर्देश अनुसार उत्तर दीजिए ।) (केवल तीन प्रश्न)
(i) ‘अदर्शयत्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) शुद्धोधन:
(ख) स:
(ग) माता
(घ) पुत्रः
उत्तर:
(ख) सः
(ii) ‘दृष्ट्वा’ पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम् ?
(क) अवलोक्य
(ख) ज्ञात्वा
(ग) त्यक्त्वा
(घ) विलोक्य
उत्तर:
(क) अवलोक्य
(iii) ‘दयापूर्णम्’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) हंसम्
(ख) हृदयम्
(ग) गौतमः
(घ) मन:
उत्तर:
(ख) हृदयम्
(iv) “स: संसारम् अमरतायाः मार्गम् अदर्शयत्” इत्यस्मिन् वाक्ये किं क्रियापदम् ?
(क) अदर्शयत्
(ख) अभवत्
(ग) मार्गम्
(घ) संसारम्
उत्तर:
(क) अदर्शयत्
(खंड ‘ख’)
रचनात्मकं कार्यम्
खंड ‘ख’ रचनात्मक कार्य में पत्र, चित्र लेखन, अनुच्छेद लेखन और हिन्दी वाक्यों का संस्कृत में अनुवाद आदि से संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।
2. भवती मानसी छात्रावासे च वसति । स्वमातरं प्रति लिखितं निमंत्रण पत्रं मञ्जूषापद सहायतया पूरयित्वा उत्तर पुस्तिकायां पुनः लिखत । (1/2 × 10 = 5 अङ्काः)
(तुम मानसी हो और छात्रावास में रहती हो। अपनी माता को लिखे गए निमंत्रण पत्र को मञ्जूषा के शब्दों की सहायता से पूरा करके उत्तर पुस्तिका में लिखिए ।)
दिल्लीत:
दिनाङ्कः …………
पूज्य (i) ………
सादरं चरणस्पर्शः
भवत्याः गत सप्ताहे पत्रं प्राप्तम् ! अहं भवत्याः स्वास्थ्य विषये (ii) ………………. अस्मि! मम पठनं नियमितम् अस्ति ! आगामि नवंबर मासे मम विद्यालयस्य (iii) ………… अस्ति ! अयम् उत्सवः प्रधानाचार्यः मम (iv) ………….. विशिष्ट छात्रस्य पुरस्कारं (v) ……….. अत एव अहम् अपि इच्छामि यत् भवती अपि अत्रागत्य इयम् उत्सवं (vi) ……….. येन मम (vii) ……….अपि भविष्यति ! अतः पूज्यपित्रा सह मम विद्यालये अवश्यमेव (viii) ………. ! भवतो: चरणेषु (ix) …………. अग्रजाय च नमोनमः !
भवत्याः पुत्री
(x)…………..
[मञ्जूषा-प्रणामाः, कृते, दास्यति, माताः, आगच्छतु, वार्षिकोत्सवः, चिन्तिता, पश्यतु, उत्साहवर्द्धनम्, मानसी।
उत्तर:
दिल्लीत:
दिनाङ्कः …………
पूज्य (i) माता:
सादरं चरणस्पर्शः
भवत्याः गत सप्ताहे पत्रं प्राप्तम् ! अहं भवत्याः स्वास्थ्य विषये (ii) चिन्तिता अस्मि! मम पठनं नियमितम् अस्ति ! आगामि नवंबर मासे मम विद्यालयस्य (iii) वार्षिकोत्सवः अस्ति ! अयम् उत्सवः प्रधानाचार्यः मम (iv) कृते विशिष्ट छात्रस्य पुरस्कारं (v) दास्यति अत एव अहम् अपि इच्छामि यत् भवती अपि अत्रागत्य इयम् उत्सवं (vi) पश्यतु येन मम (vii) उत्साहवर्द्धनम् अपि भविष्यति ! अतः पूज्यपित्रा सह मम विद्यालये अवश्यमेव (viii) आगच्छतु ! भवतो: चरणेषु (ix) प्रणामाः अग्रजाय च नमोनमः !
भवत्याः पुत्री
(x) मानसी
3. प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत ।
(नीचे दिए गए चित्र को देखकर मञ्जूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।) (1 × 5 = 5 अङ्काः)
मञ्जूषा – इदं, सूर्यः, कुटी, ग्रामीणः, चित्रे, प्रातःकाले, महिलाः, वृक्षाः, वः, पर्वताः, अस्ति, ग्रामः, घटः, सन्ति, प्रातःकालस्य, सूर्यः, उदेति, अपि, जनाः सामान्याः, चित्रं, दृश्यन्ते, भवन्ति, परित।
उत्तर:
(i) इदं चित्रं प्रातःकालस्य अस्ति।
(ii) प्रातःकाले सूर्यः उदेति ।
(iii) ग्रामीणः जनाः स्व- कार्मेषु संलग्नाः दृश्यन्ते ।
(iv) चित्रे पर्वताः अपि दृश्यन्ते ।
(v) ग्रामं परितः वृक्षाः सन्ति|
अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखित विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चाभिः संस्कृतवाक्येषु एकम् अनुच्छेदं लिखत ।
(मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर कम-से-कम पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
क्रीडा दिवसः
(खेल का दिवस )
[मञ्जूषा-प्रदर्शयन्ति, क्रीडा दिवसः सन्ति, प्रसन्नाः, अनेकक्रीडाः च क्रीडाप्रतियोगिताः, अस्ति, क्रीडाक्षेत्रे, पुरस्कारवितरणम्, _प्रथमस्थानम्, सर्वे, विद्यालयस्य, अध, गर्वम्, अनुभवामि अलेभे, आयोजिताः, क्रीडकाः, उत्साहिताः।
उत्तर:
(i) अद्य क्रीडा दिवसः अस्ति।
(ii) प्रसन्नाः क्रीडका: अनेकक्रीडाः प्रदर्शयन्ति ।
(iii) विद्यालयस्य क्रीडाक्षेत्रे क्रीडाप्रतियोगिताः आयोजिताः सन्ति ।
(iv) धावने अहम् प्रथमस्थानम् अलभे ।
(v) सर्वे क्रीडकाः प्रसन्नाः उत्साहिताः च सन्ति ।
4. अधोलिखितानि वाक्यानि संस्कृतभाषाया अनूद्य लिखत । (केवलं वाक्यपञ्चकम्) (1 × 5 = 5 अङ्काः)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए |) (केवल पाँच वाक्य)
(i) गाँव के चारों ओर वृक्ष हैं।
Trees are all around in the village.
उत्तर:
ग्रामं परितः वृक्षाः सन्ति ।
(ii) सदा सत्य बोलो।
Always speak the truth.
उत्तर:
सदैव सत्यं वद ।
(iii) राजा सिंहासन पर बैठता है।
The king sits on throne.
उत्तर:
नृपः सिंहासने अधितिष्ठति।
(iv) वह झूठ बोलता है।
He speak lies.
उत्तर:
सः अनृतं वदति।
(v) तुम क्या खा रहे हो?
What are you eating?
उत्तर:
त्वं किं खादसि?
(vi) रवीना भोजन पकाती है।
Raveena cooks food.
उत्तर:
रवीना भोजनं पचति ।
(vii) विक्की खेलने के लिए जाता है।
Vicky goes for playing.
उत्तर:
विक्की क्रीडितुं गच्छति।
(खंड ‘ग’)
अनुप्रयुक्त व्याकरणम्
खंड ‘ग’ अनुप्रयुक्त व्याकरणम् में संधि/संधि विच्छेद, समास / समास विग्रह, प्रत्यय, वाच्य, काल-बोधक शब्द, अव्यय, शुद्ध / अशुद्ध वाक्य आदि से संबंधित बहुविकल्पीय प्रश्न दिए गए हैं। जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।
5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि / सन्धिविच्छेदं
वा कुरुत। (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित शब्दों की उचित सन्धि अथवा सन्धि-विच्छेद करके लिखिए।) (केवल चार प्रश्न)
(i) विज्ञानस्य दुरुपयोगः विनाशाय भवति।
उत्तर:
दुः+ उपयोगः
(ii) सज्जनाः परोपकारं एव कुर्वन्ति ।
उत्तर:
सत्+जनाः
(iii) एतत् + चित्रम् पश्य पञ्च वाक्यानि लिखत ।
उत्तर:
एतच्चित्रम्
(iv) वृद्ध: नि: + बलः अस्ति।
उत्तर:
निर्बल:
(v) क + चित् जनः भोजनं करोति ।
उत्तर:
कश्चित्
6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा विग्रह दिए गए विकल्पों में से चुनकर लिखिए|) (केवल चार प्रश्न)
(i) लाभालाभौ चक्रारिपंक्तिरिव गच्छतः।
(क) लाभः लाभः
(ग) लाभे अलाभे
(ख) लाभश्च अलाभश्च
(घ) लाभः अलाभौ
उत्तर:
(ख) लाभश्च अलाभश्च
(ii) वर्षं वर्षं प्रति दीपावलिः भवति ।
(क) प्रतिवर्षम्
(ख) प्रतिवर्ष
(घ) प्रत्येकवर्षम्
(ग) अप्रतिवर्षम्
उत्तर:
(क) प्रतिवर्षम्
(iii) शक्तिम् अनतिक्रम्य दानं कुर्यात् ।
(क) यथावलं
(ख) यथाशक्तिम्
(ग) यथापारं कृत्वा
(घ) यथाकालम्
उत्तर:
(ख) यथाशक्तिम्
(iv) लब्धा कीर्तिः येन सः श्री रामः अस्ति ।
(क) लब्धकीर्तिः
(ख) अलब्धकीर्तिः
(ग) लब्धीकीर्ति
(घ) लब्धाकीर्तिम्
उत्तर:
(क) लब्धकीर्तिः
(v) व्यवहारेण दोषगुणाः भवन्ति ।
(क) च दोष गुणाः
(ख) दोषः गुणः
(ग) दोषाः च गुणाः च
(घ) गुणा दोषः च
उत्तर:
(ग) दोषाः च गुणाः च
7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति-प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से चुनकर लिखिए |) (केवल चार प्रश्न)
(i) इयं बालिका कुमार + ङीप् अस्ति ।
(क) कुमारी
(ख) कुमारम्
(ग) कुमारि
(घ) कुमाङीप्
उत्तर:
(क) कुमारी
(ii) फलवन्त: वृक्षाः एव नम्राः भवन्ति ।
(क) फल + वन्तः
(ख) फल + मतुप्
(ग) फलवान्+अन्तः
(घ) फलिन् + वतुप्
उत्तर:
(ख) फल+मतुप्
(iii) गीतायाः महत्त्वम् सर्वे एव जानन्ति ।
(क) महत् + त्वा
(ख) महत् + त्व
(ग) मह + त्व
(घ) महत् + त्वम्
उत्तर:
(ख) महत्+त्व
(iv) भारते उद्योग+ठक् विकास: उत्तरोतरं वर्धते।
(क) औद्योगिकम्
(ख) औद्योगिक :
(ग) उद्योगिकम्
(घ) उद्यौगिक:
उत्तर:
(ख) औद्योगिक:
(v) दानी मानं त्यजेत् ।
(क) दान + डीप्
(ख) दानी + डीप्
(ग) दानीन् + डीप्
(घ) दानिना + डीप्
उत्तर:
(क) दान + डीप्
8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत । (केवल प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(दिए गए पदों में वाच्य परिवर्तन करके उचित पद में रिक्त स्थानों की पूर्ति करके निम्नलिखित संवाद को पुन: लिखिए।) (केवल तीन प्रश्न)
(i) सुरेश:- मालती । किम् अतिथयः भोजन ……….|
(क) करोति
(ख) कुर्वन्ति
(ग) कुरुतः
(घ) कुरुथः
उत्तर:
(ख) कुर्वन्ति
(ii) मालती:-आम् भ्रातः। अतिथिभिः भोजनं …….. (कृ।)
(क) क्रियन्ते
(ख) क्रियसे
(ग) क्रियवाः
(घ) क्रियते
उत्तर:
(घ) क्रियते
(iii) सुरेश:- मालती । किं जनकः अपि तत्र ……..।
(क) उपविशन्ति
(ख) उपविश्वस्य
(ग) उपविशति
(घ) उपविश्येते
उत्तर:
(ग) उपविशति
(iv) मालती-भ्रातः। ……… जनक तत्र उपविश्यते ।
(क) जनकम्
(ख) जनकेन्
(ग) जनकेन्
(घ) जनक:
उत्तर:
(ख) जनकेन
9. कालबोधकशब्दैः अधोलिखित दिनचर्यां पूरयत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्काः)
(कालबोधक शब्दों से निम्नलिखित दिनचर्या को पूरा कीजिए।) (केवल चार प्रश्न)
(i) प्रात: 7.30 ……… वादने प्रार्थना सभा अस्ति ।
उत्तर:
सार्द्धसप्त
(ii) प्रात: 10.00 ………. अर्द्धावकाशः भवति ।
उत्तर:
दश
(iii) मध्याह्ने 11.45 ……… वादने विविधाः क्रीडाः आयोज्यन्ते ।
उत्तर:
पादोनद्वादश
(iv) मध्याह्ने 1.15 ……….. वादने पूर्णावकाशः भवति ।
उत्तर:
सपादएक
(v) 1:30 ……….. वादने गृहं गच्छति ।
उत्तर:
साधैक
10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम् ) (1 × 3 = 3 अङ्काः)
(मञ्जूषा में दिए गए उचित अव्यय पदों से वाक्यों में रिक्त स्थानों की पूर्ति कीजिए।) (केवल तीन प्रश्न)
[मञ्जूषा – सहसा, कदा, उच्चैः, शनैः, इतस्ततः।
(i) त्वं …….. भोजनं खादसि ।
उत्तर:
शनैः
(ii) ज्वालामाकुलाः अश्वाः प्राणत्राणाय ……….. अधावन्।
उत्तर:
इतस्ततः
(iii) सा ………. गीतं गायति ।
उत्तर:
उच्चैः
(iv) त्वं विद्यालयात् ……… आगच्छसि ?
उत्तर:
कदा
11. अधोलिखितवाक्येषु रेखाङ्कित अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत (केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(निम्नलिखित वाक्यों में रेखांकित पद अशुद्ध हैं। शुद्ध पद को विकल्पों में से चुनकर लिखिए।) (केवल तीन प्रश्न)
(i) सा मम भ्राता अस्ति ।
(क) तौ
(ख) ते
(ग) सः
(घ) त्वम्
उत्तर:
(ग) सः
(ii) मम् मित्रं मूर्खम् अस्ति
(क) मूर्खे
(ख) मूर्खा:
(ग) मूर्ख:
(घ) मूर्खान्
उत्तर:
(ग) मूर्खः
(iii) अहं सज्जनः अस्ति ।
(क) स्तः
(ख) सन्ति
(ग) अस्मि
(घ) स्वः
उत्तर:
(ग) अस्मि
(iv) श्वेतवर्णम् अश्वः वेगेन धावति ।
(क) श्वेतवर्णोन
(ख) श्वेतवर्ण :
(ग) श्वेत वर्णेन
(घ) श्वेत वर्णात्
उत्तर:
(ख) श्वेतवर्णः
(खंड ‘घ’)
पठितावबोधनम्
खंड ‘घ’ पठितावबोधनम् में पाठ्यपुस्तक से गद्यांश व पद्यांश पर आधारित एकपदेन, पूर्णवाक्येन, निर्देशानुसारम् प्रश्न, प्रश्ननिर्माण, श्लोकों का अन्वय व भावार्थ, घटनाक्रम व प्रसङ्गानुकूल संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक प्रश्न के सामने अंकित हैं।
12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्काः)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए)
आदेशं प्राप्य उभौ प्राचलताम् । तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कंधेन वहंतौ न्यायाधिकरणं प्रति प्रस्थितौ । आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय । भारवतः शवस्य स्कंधेन वहनं तत्कृते दुष्करम् आसीत् । स भारवेदनया क्रंदति स्म । तस्य क्रंदनं निशम्य मुदित आरक्षी तमुवाच – “रे दुष्ट ! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(एक शब्द में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) कृशकायः कः आसीत्?
उत्तर:
अभियुक्तः
(ii) उभौ कस्य आदेशं प्राप्य प्राचलताम् ?
उत्तर:
न्यायाधीशस्य
(iii) देहं केन आच्छादितम् आसीत्?
उत्तर:
पटेन
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(पूर्णवाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) भारवेदनया कः क्रन्दति स्म ?
उत्तर:
भारवेदनया अभियुक्तः क्रन्दति स्म।
(ii) मुदित: आरक्षी किम् उवाच ?
उत्तर:
मुदित: आरक्षी तमुवाच – रे दुष्ट ! तस्मिन् दिने त्वया अहं चोरिताया मञ्जूषाया गृहणाद् वारितः ।
(iii) शवमानीय उभौ कुत्र स्थापित वंतौ ?
उत्तर:
शवमानीय उभौ एकस्मिन् चत्वरे स्थापितवंतौ ।।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न)
(i) ‘सुकरम्’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम् ?
उत्तर:
दुष्करम्
(ii) ‘चोरिताया मञ्जूषाया’ अत्र विशेष्य पदं किम् ?
उत्तर:
मञ्जूषाया
(iii) ‘तत्कृते दुष्करम् आसीत् ‘ अत्र क्रियापदं किम् ?
उत्तर:
आसीत्
13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (5 अङ्काः))
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए)
वायुमंडलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् ।
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम् ।
शुचि …… ||
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 1 अङ्कः)
(एक शब्द में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) कीदृशं भक्ष्यं अस्ति ?
उत्तर:
कुत्सितवस्तुमिश्रितं
(ii) कीदृशं जलं नास्ति ?
उत्तर:
निर्मलं
(iii) समलं किमस्ति ?
उत्तर:
धरातलम्
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(पूर्ण वाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) कीदृशं वायुमण्डलम्?
उत्तर:
भृशं दूषितं वायुमण्डलम्।
(ii) बहुशुद्धिकरणम् कुत्र करणीयम् ?
उत्तर:
बहुशुद्धिकरणम् बहिरन्तर्जगति करणीयम्।
(iii) भक्ष्यं कीदृशमस्ति ?
उत्तर:
भक्ष्यं कुत्सितवस्तु मिश्रितम् अस्ति।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए) (केवल दो प्रश्न)
(i) ‘वारि’ इति पदस्य पर्यायपदं श्लोके किं प्रयुक्तम् ?
उत्तर:
जलं
(ii) ‘अभक्ष्यं’ इत्यस्य विलोमपदं श्लोके किं प्रयुक्तम् ?
उत्तर:
भक्ष्य
(iii) ‘बहु शुद्धीकरणम्’ इत्यस्य क्रियापदं श्लोके किम् ?
उत्तर:
करणीय
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्काः)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में दीजिए)
व्याघ्रचित्रकौ:- अरे किं वनराजपदाय सुपात्रं चीयते ? एतदर्थं तु आवामेव योग्यौ। यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मत्या।
सिंहः- तूष्णीं भव भोः। युवामपिात्सदृशौ भक्षकौ न तु रक्षकौ । एते वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्श: प्रचलति ।
बकः सर्वथा सम्यगुक्तम् सिंमहोदयेन । वस्तुतः एवं सिंहेन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाशः एव नास्ति ।
सर्वे पक्षिणः- (उच्चैः ) आम् आम् – कश्चित् खगः एव वनराजः भविष्यति इति ।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1अङ्कः)
(एक शब्द में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) विवादं शृणुतः कौ आगत: ?
उत्तर:
व्याघ्रचित्रकौ
(ii) ‘तूष्णीं भव’ इति कः कथयति ?
उत्तर:
सिंह:
(iii) कोऽपि पक्षी एव राजेति इति क कथयति ?
उत्तर:
बक:
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(पूर्णवाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) केन बहुकालपर्यन्तं शासनं कृतम् ?
उत्तर:
सिंहेन बहुकालपर्यन्तं शासनं कृतम्।
(ii) केन सर्वथा सम्यगुक्तम् ?
उत्तर:
सिंह महोदयेन सर्वथा सम्यगुक्तम्।
(iii) कोऽपि वनराजः भविष्यति ?
उत्तर:
कश्चित् खगः एव वनराजः भविष्यति।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न )
(i) “एतदर्थं तु आवमेव योग्यौ” इत्यस्मिन् वाक्ये ‘आवा’ इति सर्वनाम् पदं काभ्याम् प्रयुक्तम् ?
उत्तर:
व्याघ्रचित्रकाभ्याम्
(ii) ‘कश्चित् खगः एवं वनराजः भविष्यति’ अत्र क्रियापदं किम् ?
उत्तर:
भाविष्यति
(iii) रक्षकौ इति पदस्य विलोम पदं पद्यांश किं प्रयुक्तम् ?
उत्तर:
भक्षकौ
15. रेखाङ्कित पदानि आधृत्य प्रश्ननिर्माणं कुरुत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4 अङ्काः)
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।) (केवल चार प्रश्न)
(i) सः शवः प्रावारकम् अपसार्य निवेदितवान्।
उत्तर:
सः शवः कम् अपसार्थ निवेदितवान् ?
(ii) ग्रामस्य आरक्षी एव चौरः आसीत् ।
उत्तर:
ग्रामस्य कः एव चौरः आसीत् ?
(iii) सः भारवेदनया क्रन्दति स्म ।
उत्तर:
सः कथा क्रन्दति स्म ?
(iv) तस्य मृतशरीरं राजमार्गनिकषा वर्तते ।
उत्तर:
तस्य मृत शरीरं कुत्र वर्तते ?
(v) स बसयानं विहाय पादातिरेव प्राचलत्।
उत्तर:
स बसयानं विहाय कथं प्राचलत् ?
16. मंञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत । (1 × 4 = 4 अङ्काः)
(मञ्जूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा करके पुन: लिखिए |)
क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय ।
यथास्थितः काष्ठगतो हि वहिनः,
स एव वह्निर्दहते शरीरम् ।
अन्वयः क्रोधः हि (i) ……………..देहविनाशाय/देहस्थित: (ii) ……… शत्रुः (अस्ति) यथा (iii) ………. स्थितः हि वह्निः (भवति) स: वह्निः काष्ठम् एव दहते तथा (iv) ……… शरीरम् दहते ।
[मञ्जूषा प्रथमः क्रोधः, नराणां, काष्ठगतः।
उत्तर:
(i) नराणां
(ii) प्रथमः
(iii) काष्ठगतः
(iv) क्रोध:
अथवा
अधोलिखित श्लोकस्य भावार्थम् मञ्जूषायाः उचितपदैः पूरयत । (1 × 4 = 4 अङ्काः)
(निम्नलिखित श्लोक का भावार्थ मञ्जूषा के उचित शब्दों से पूरा कीजिए)
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः ।
तस्माद् रक्षेत् सदाचारं प्राणेश्योऽपि विशेषतः ।।
भावार्थ: विदूषां (i) ……… इति तद् (ii) ……… प्रथमो धर्मः (iii) ………. प्राणेभ्योऽपि (iv) ……… ‘तस्माद् सदाचारं
[मञ्जूषा आचार, वचः, विशेषतः रक्षेत् ।
उत्तर:
(i) वचः
(ii) आचारः
(iii) विशेषत:
(iv) रक्षेत्
17. अधोलिखित कथांशं समुचित क्रमेण लिखत । (1/2 × 8 = 4 अङ्काः)
(निम्नलिखित कथांश को उचित क्रम में लिखिए।)
(i) विचित्रयुक्त्या न्यायाधीशः निर्णयं कृत्वा तं जनं ससम्मानं मुक्तवान्।
(ii) पार्श्वस्थिते ग्रामे करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।
(iii) शवः प्रावारकमपसार्थ सर्व वृत्तान्तं निवेदितवान् ।
(iv) काश्चन चौर: रात्रौ तस्मिन् गृहे प्रविश्य मञ्जूषामेकां आदाय पलायितः ।
(v) सर्व वृत्तमवगत्य न्यायाधीशः तं निर्दोषम् अमन्यत् आरक्षिणं च दोषी ।
(vi) रात्रौ विजने प्रदेशे पदयात्रा न शुभावहा ।
(vii) ग्रामवासिनः वराकमतिथिमेव चौरं मत्वाऽभर्त्सयन् ।
(viii) निर्धनः जनः सायं समयेऽपि गन्तव्याद् दूरे आसीत् ।
उत्तर:
(viii) निर्धनः जनः सायं समयेऽपि गन्तव्याद् दूरे आसीत् ।
(vi) रात्रौ विजने प्रदेशे पदयात्रा न शुभावहा ।
(ii) पार्श्वस्थिते ग्रामे करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(iv) काश्चन चौर: रात्रौ तस्मिन् गृहे प्रविश्य मञ्जूषामेकां आदाय पलायितः ।
(vii) ग्रामवासिनः वराकमतिथिमेव चौरं मत्वाऽभर्त्सयन् ।
(v) सर्वं वृत्तमवगत्य न्यायाधीशः तं निर्दोषम् अमन्यत् आरक्षिणं च दोषी ।
(iii) शवः प्रावारकमपसार्थ सर्व वृत्तान्तं निवेदितवान्।
(i) विचित्रयुक्त्या न्यायाधीशः निर्णयं कृत्वा तं जनं ससम्मानं मुक्तवान्।
18. अधोलिखित वाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् चितार्थं चित्वा लिखत । (केवलं प्रश्नत्रयम् ) । (1 × 3 = 3 अङ्काः).
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसंगानुकूल उचित अर्थ चुनकर लिखिए।) (केवल तीन प्रश्न )
(i) तस्य तनयः अत्र पठति ।
(क) पुत्रः
(ख) पुत्री
(ग) माता
(घ) भ्राता
उत्तर:
(क) पुत्रः
(ii) सः बालकः रोदिति ।
(क) खादति
(ख) क्रन्दति
(ग) खेलति
(घ) पिबति
उत्तर:
(ख) क्रन्दति
(iii) समस्य जनक: दशरथः आसीत् ।
(क) पिता
(ख) पुत्र
(ग) माता
(घ) भ्राता
उत्तर:
(क) पिता
(iv) सः बालकः जागृतः ।
(क) चञ्चल:
(ख) सुन्दर:
(ग) प्रबुद्धः
(घ) अबोध:
उत्तर:
(ग) प्रबुद्धः