Students find these Class 9 Sanskrit MCQ Questions and Chapter 5 एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी MCQ with Answers helpful for self-assessment and preparation.
एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी Class 9 MCQ Questions
Class 9 Sanskrit Chapter 5 MCQ Online Test
रेखांकितपदानां प्रसङ्गानुकूलम् अर्थचयनं कुरुत-
प्रश्न 1.
अस्माभिः नैतिकता पूरितं प्रशिक्षणं करणीयाः ।
(क) सदाचारः
(ख) समीक्षणम्
(ग) चिकित्सा
(घ) कथनम्
उत्तर:
(क) सदाचारः
प्रश्न 2.
यन्त्राणि मानवेभ्यः संसारम् अधिगृह्णन्ति इति ।
(क) अपराध
(ख) अध्ययनम्
(ग) स्वीकुर्वन्ति
(घ) इच्छन्ति
उत्तर:
(ग) स्वीकुर्वन्ति
प्रश्न 3.
कृतकबुद्धिः भूरिशः उपयुज्यते ।
(क) उपयोगंक्रियते
(ख) अनुपजायते
(ग) प्रयुज्यते
(घ) परिचर्या
उत्तर:
(क) उपयोगंक्रियते
प्रश्न 4.
कृतकबुद्धिः मानवबुद्धेः सहकरी ।
(क) सहयोगः
(ख) सहयोगिनी
(ग) सदाचारः
(घ) संसाधनम्
उत्तर:
(ख) सहयोगिनी
प्रश्न 5.
छात्रः स्वयम् अध्येतुं शक्नुवन्ति ।
(क) अध्येतुंकर्तुम्
(ख) अध्ययनं कर्तुम्
(ग) स्वयम्
(घ) पाठनम्
उत्तर:
(ख) अध्ययनं कर्तुम्
प्रश्न 6.
कृतकबुद्धिः चिकित्सायाम् अपि प्रयुज्यते ।
(क) उपचारस्य क्षेत्रे
(ख) रोगोपचारस्य क्षेत्रे
(ग) क्रीडाक्षेत्रे
(घ) धावनक्षेत्रे
उत्तर:
(ख) रोगोपचारस्य क्षेत्रे
प्रश्न 7.
अहोरात्रं न विश्रान्ताः ।
(क) अह्नः च रात्रिः च
(ख) दिनं च रात्रं च
(ग) रात्रिः च निशा च
(घ) दिनं न रात्रं न
उत्तर:
(क) अह्नः च रात्रिः च
प्रश्न 8.
युवानः नवीनवृत्तीः प्राप्तुम् अर्हन्ति ।
(क) प्राप्नुवन्ति
(ख) शिक्षयन्ति
(ग) शक्नुवन्ति
(घ) सहवन्ति
उत्तर:
(ग) शक्नुवन्ति
प्रश्न 9.
एषा चिन्ता समाजे प्रगाढं जायमाना अस्ति ।
(क) उत्पन्ना
(ख) विपन्ना
(ग) जनयन्ति
(घ) मानयन्ति
उत्तर:
(क) उत्पन्ना
प्रश्न 10.
प्रशिक्षणे दत्तांशः पक्षपातयुक्त भवति ।
(क) विज्ञानम्
(ख) पूर्वदत्तज्ञानम्
(ग) सदाचारः
(घ) ज्ञानम्
उत्तर:
(ख) पूर्वदत्तज्ञानम्
प्रश्न 11.
तत् डीप-फेक् इति किम् अस्ति ?
(क) मिथ्या – चित्रम्
(ख) सत्यचित्रम्
(ग) उचितचित्रम्
(घ) अनुचितम्
उत्तर:
(क) मिथ्या – चित्रम्
प्रश्न 12.
कृतकबुद्धि: सहायिका अस्ति प्रतिस्पर्धिनी न।
(क) स्पर्धायुक्ता
(ख) मिथ्यायुक्ता
(ग) सत्ययुक्ता
(घ) पक्षपातयुक्ता
उत्तर:
(क) स्पर्धायुक्ता
1. अधोलिखित- संवादं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
1. यशिका – महोदय ! अद्य अहम् किञ्चन चालकरहितं पटु- कारयानं दृष्टवती । अहम् आश्चर्यचकिता । किम् एतत् संभवम्?
अध्यापकः – अवश्यं यशिके! एतत् कृतकबुद्ध्या सम्भवति।
कात्यायनी – महोदय ! केयं कृतकबुद्धिः, अद्य वयम् अस्याः विषये ज्ञातुमिच्छामः।
अध्यापकः – अद्यत्वे अयं बहुचर्चितः विषयः अस्ति । भवत्सु कृतकबुद्धेः विषये कोऽपि जानाति वा?
श्रेया – आचार्य ! अहं जानामि । यदा यन्त्राणि मनुष्यवत् चिन्तयन्ति, निर्णयं कुर्वन्ति, कार्यं च कुर्वन्ति, तदा तत्र कृतकबुद्धिः उपस्थिता अस्ति इति जानीमः ।
अध्यापकः – सुष्ठु ! यया अचेतनयन्त्राणि मानवबुद्धिवत् कार्यं कुर्वन्ति सा कृतकबुद्धिः इति वैज्ञानिकाः मन्यन्ते ।
I. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
- यशिका कीदृशं कारयानं दृष्टवती ?
- अद्यत्वे बहुचर्चितः विषयः किम् अस्ति ?
- का आश्चर्यचकिता अभवत्?
उत्तर:
- चालकसहितम्
- कृतकबुद्धिः
- याशिका
II. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
- कृतकबुद्धिः का अस्ति ?
- कृतकबुद्धिः किं किं करोति ?
- चालकरहितं कायानं कथं सम्भवति ?
उत्तर:
- यया अचेतनयन्त्राणि मानवबुद्धिवत् कार्यं कुर्वन्ति सा कृतकबुद्धिः अस्ति।
- कृतकबुद्धि: मनुष्यवत् चिन्तयति, निर्णयं करोति, कार्यं च करोति ।
- चालकरहितं कायानं कृतबुद्धया सम्भवति ।
III. भाषिककार्यम्
(i) “अद्य वयम् अस्याः विषये ज्ञातुमिच्छामः ।” अत्र क्रियापदं किमस्ति ?
(क) मिच्छामः
(ख) इच्छामः
(ग) ज्ञातुम्
(घ) वयम्
उत्तर:
(ख) इच्छामः
(ii) “बहुचर्चितः विषयः” अनयोः पदयोः विशेषणपदं किम् ?
(क) बहुचर्चित:
(ख) विषयः
(ग) बहुः
(घ) चर्चितः
उत्तर:
(क) बहुचर्चित:
2. अथर्वः – महोदय! कृतकबुद्धिः कथं शिक्षायां साहाय्यं करोति ? किं शिक्षकस्य स्थाने कृतकबुद्धिः अस्मान् पाठयिष्यति ? एतत् कथं सम्भवति ?
अध्यापकः – दीक्षा, स्वयम्, सर्वेषां कृते कृतकबुद्धि:, पी.एम्.-ईविद्या, संशयनिराकरणार्थं चैट्बोट्, भाषानुवादोपकरणानि च यत्र तत्र प्रयुज्यन्ते । एतानि कृतकबुद्ध्याधारितानि उपकरणानि सन्ति । एतेषां साहाय्येन छात्राः शिक्षकाणाम् अनुपस्थितौ अपि स्वयम् अध्येतुं शक्नुवन्ति ।
आकाशः – हा धिक् ! एतेषां कारणेन मानवशिक्षकः किं प्रयोजनरहितः भविष्यति ?
अध्यापकः – न न! कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति | शिक्षकाणां सान्निध्ये छात्रेषु व्यक्तित्वविकासः भवति । शिक्षकाः पुस्तकीयज्ञानेन सह छात्रेषु मानवीयमूल्यबोधम् अपि जनयन्ति । ते अनुशासनं, परोपकारं, करुणां तथैव व्यवहारज्ञानं च शिक्षयन्ति । सदा स्मरणीयं यत् कृतकबुद्धि: उपकरणम् अस्ति, प्रेरणा तु मानवेभ्यः एव आगच्छति ।
I. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- कृतकबुद्धि कस्य विकल्पः नास्ति ?
- केषां सान्निध्ये छात्रेषु व्यक्तित्वविकासरू भवति ?
- संशयनिराकरणार्थं कस्य प्रयोगः भवति ?
उत्तर:
- गुरूविकल्पः
- शिक्षकाणाम्
- चैटबोट्
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- शिक्षकाः किं कुर्वन्ति ?
- कृतकबुद्धिः कुत्र प्रयुज्यते ?
- अध्यापकः आकाशस्य राङ्कायां किं समाधानं करोति ?
उत्तर:
- शिक्षकाः पुस्तकीय – ज्ञानेन सह छात्रेषु मानवीयमूल्यानां बोधम् अपि जनयन्ति। ते अनुशासने, परोपकार, करुणां तथैव व्यवहारज्ञानं च शिक्षयन्ति ।
- कृतकबुद्धि: पी.एम. – ईविद्या, संशयनिवारणार्थं चैट्बोट्, भाषानुवादोपकरणानि च यत्र-तत्र प्रयुज्यन्ते ।
- अध्यापकः कथयति यत् कृतबुद्धिः गुरूमित्रम् अस्ति, गुरुविकल्पः नास्ति, यतः मानवीयमूल्यानां विकासः केवलं शिक्षकाणां सानिध्ये एव भवति ।
III. भाषिककार्यम्-
(i) ‘कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति ।’ अत्र कर्तृपदम् किमस्ति?
(क) कृतकबुद्धिः
(ख) गुरुमित्रम्
(ग) गुरुविकल्पः
(घ) अस्ति
उत्तर:
(क) कृतकबुद्धिः
(ii) ‘समीपे’ इति अर्थे किं पर्यायपदं प्रयुक्तम् ?
(क) सान्निध्ये
(ख) ज्ञाने
(ग) शिक्षके
(घ) मित्रे
उत्तर:
(क) सान्निध्ये
3. अध्यापकः – तथाविधः सङ्कटः नापतेत् इति भारतसर्वकारेण स्किल – इण्डिया, डिजिटल इण्डिया ई-स्किल्- इण्डिया, चेत्याद्याः अनेकाः योजना: सञ्चाल्यन्ते। एताभिः योजनाभिः प्रशिक्षिता: युवानः नवीनवृत्ती: प्राप्तुम् अर्हन्ति । वस्तुतः कृतकबुद्धि: स्वतः कस्यापि वृत्तिं न हरति । अपि तु कृतकबुद्धिप्रशिक्षितः जनः कदाचित् अप्रशिक्षितस्य जनस्य पारम्परिकवृत्तिं हरेत्।
यशिका – गुरुवर ! कृतकबुद्धि – द्वारा भविष्ये मानुषजीवनं कीदृशं भविष्यति ?
अध्यापकः – यदि विवेकपूर्वकं प्रयुज्यते, तर्हि जीवनम् अधिकं सुगम, सुरक्षितं श्रेयस्करं च भविष्यति ।
श्रेया – कृतकबुद्धिः एव मानवीयबुद्धि कार्यक्षमतां च द्विगुणितां करिष्यति इति मम मतम् । भारतीय- कृतकबुद्धिप्रभाव-सम्मेलनम् – २०२६ ( India AI Impact Summit- 2026 ) इत्यत्रापि उक्तमेतम् ।
अध्यापकः – उत्तमं कथनम्! ‘कृतकबुद्धिः मानवबुद्धेः सहकरी ‘ इति वाक्यम् अस्माकं मनसि स्पष्टं स्यात् ।
सर्वे – आम्! वयं जागरूकाः नागरिकाः भवाम, सुरक्षितं जालप्रवेशं करवाम, अपि च डिजिटल – भारतं समृद्धं करवाम ।
I. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- कृतकबुद्धिः कस्य सहकरी अस्ति ?
- भारतसर्वकारेण का: सञ्चाल्यन्ते ?
- कृतकबुद्धि: स्वतः कस्य हरणं न करोति ?
उत्तर:
- मानवबुद्धेः
- योजना:
- वृत्तिम्
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- कृतकबुद्धिः द्वारा मानुषजीवनं कीदृशं भविष्यति ?
- भारतसर्वकारेण कति योजना: सञ्चाल्यन्ते ।
- सर्वे छात्राः किं सकल्पं कुर्वन्ति ?
उत्तर:
- कृतकबुद्धिः द्वारा मानुषजीवनं यदि विवेकपूर्वकं प्रयुज्यते, तर्हि जीवनम् अधिकं सुगमं सुरक्षितं श्रेयस्करं च भविष्यति ।
- भारतसर्वकारेण स्किल – इण्डिया, डिजिटल इण्डिया, ई- स्किल-इण्डिया, चेत्याद्याः अनेकाः योजना: सञ्चाल्यन्ते ।
- सर्वे छात्राः जागरूकाः नागरिकाः भवितुम्, सुरक्षितं जालप्रवेशं कर्तुं तथा डिजिट्ल – भारतं समृद्धं कर्तुं संकल्पं कुर्वन्ति ।
III. भाषिककार्यम्-
(i) “वयं जागरूकाः नागरिकाः भवाम” अत्र विशेष्यपदं किम् ?
(क) जागरूकाः
(ख) नागरिका:
(ग) वयम्
(घ) भवाम
उत्तर:
(ख) नागरिका:
(ii) “कृतकबुद्धिः एव करिष्यति । इति मम मतम् ।” अत्र ‘मम’ पदं कस्मै प्रयुक्तम् ?
(क) श्रेयायै
(ख) सर्वेभ्यः
(ग) अध्यापकाय
(घ) यशिकायै
उत्तर:
(क) श्रेयायै