Students find these Class 9 Sanskrit MCQ Questions and Chapter 3 आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः MCQ with Answers helpful for self-assessment and preparation.
आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः Class 9 MCQ Questions
Class 9 Sanskrit Chapter 3 MCQ Online Test
रेखांकितपदानां प्रसङ्गानुकूलम् अर्थचयनं कुरुत-
प्रश्न 1.
आवां तं सम्यक् दण्डितवन्तौ ।
(क) उचितप्रकारेण
(ख) अनुचितप्रकारेण
(ग) सम्मानेन
(घ) असम्मानेन
उत्तर:
(क) उचितप्रकारेण
प्रश्न 2.
भारतभूमिः भवरत्नानां राजर्षीणां प्रसवित्री ।
(क) हसितवती
(ख) जनयित्री
(ग) मातामही
(घ) श्रुतवती
उत्तर:
(ख) जनयित्री
प्रश्न 3.
तत्र क्रीडावेलायां कञ्चन शुनकं दृष्टवान्।
(क) कुक्कुरम्
(ख) मार्जारम्
(ग) शशकम्
(घ) मूषकम्
उत्तर:
(क) कुक्कुरम्
प्रश्न 4.
महात्मनां चरित्रेषु क्षमा अहिंसा ऋजुता आदीनि जीवन-मूल्यानि प्राप्यन्ते ।
(क) दया
(ख) सरलता
(ग) कटुता
(घ) मृदुता
उत्तर:
(ख) सरलता
प्रश्न 5.
तत्र कश्चन बुभुक्षितः शुनकः आगतः ।
(क) क्षुधार्त:
(ख) तृषार्त:
(ग) दया
(घ) करुणया
उत्तर:
(क) क्षुधार्त:
प्रश्न 6.
विसोबा तम् अध्यापितवान् ।
(क) भोजनं अकरोत्
(ख) शिक्षितं अकरोत्
(ग) जलं अयच्छत्
(घ) परिवर्तितम्
उत्तर:
(ख) शिक्षितं अकरोत्
प्रश्न 7.
एकदा सः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान् ।
(क) देव प्रतिमायाः
(ख) यज्ञस्य
(ग) प्रहस्य
(घ) विहस्य
उत्तर:
(क) देव प्रतिमायाः
प्रश्न 8.
अहं प्रमादं कृतवान्।
(क) प्रसन्नता
(ख) अनुचितम्
(ग) हर्षम्
(घ) शोकम्
उत्तर:
(ख) अनुचितम्
प्रश्न 9.
पाण्डुरङ्गः आगत्य भक्षितवान् किल ?
(क) हसितवान्
(ख) खादितवान्
(ग) धावितवान्
(घ) कृतवान्
उत्तर:
(ख) खादितवान्
प्रश्न 10.
नेत्रे निमील्य प्रार्थनाम् अकरोत् ।
(क) पिधाय
(ख) देवाय
(ग) खादाय
(घ) रामाय
उत्तर:
(क) पिधाय
1. अधोलिखित- नाट्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
1. मातामही – उपविशताम्, सावधानेन शृणुतां च । अस्माकं भारतभूमिः अनेकेषां नररत्नानां ब्रह्मर्षीणां राजर्षीणां च प्रसवित्री । बहवः सत्पुरुषाः स्वीयकर्तृत्वेन जन्म सार्थकं कृतवन्तः । किं भवन्तौ महात्मानं नामदेवं जानीत: ?
माधवी – आम् । अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति । अपि सत्यम् ?
मातामही – आम् । तस्यैव पुण्यश्लोकस्य पाण्डुरङ्गमित्रस्य नामदेवमहाराजस्य एषा कथा । नामदेवः न केवलं पाण्डुरङ्गस्य प्रियभक्तः अपितु प्रियमित्रमपि । देवः नामदेवं परितः भवति स्म ।
माधवी – किं सत्यमेव नामदेवस्य मित्रम् आसीत् पाण्डुरङ्ग: ?
कपिल – किं देवेन सह अपि मित्रता सम्भवति ?
I. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्)
- कः कथयति सावधानेन शृणुता ?
- के स्वीयकर्तृत्वेन जन्म सार्थकं कृतवन्तः ?
- कीर्तने कः देवः नृत्यं करोति ?
उत्तर:
- मातामही
- सत्पुरुषाः
- पाण्डुरङ्गः
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- नामदेवः कः आसीत्?
- पाण्डुरड्गः कुत्र नृत्यं कृतवान् ?
- अस्माकं भारभूमिः केषां च प्रसवित्री ?
उत्तर:
- नामदेवः पाण्डुरङ्गस्य प्रियभक्तः मित्रमपि च आसीत्।
- देवः पाण्डुरङ्गः नामदेवस्य कीर्तने नृत्यं कृतवान् ।
- अस्माकं भारभूमिः अनेकेषां नररत्नानां ब्रह्मर्षीणां राजर्षीणां च प्रसवित्री ।
III. भाषिककार्यम्
- “बहवः सत्पुरुषाः” अत्र विशेषणपदं किं प्रयुक्तम् ?
- “कीर्तने स्वयं पाण्डुरङ्गः नृत्यं कृतवान्।” अस्मिन् वाक्ये कर्तृपदं किम् अस्ति ?
उत्तर:
- बहवः
- पाण्डुरङ्ग:
2. माधवी – पाण्डुरङ्गः आगत्य भक्षितवान् किल ?
मातामही – न हि । कश्चन बुभुक्षितः शुनकः आगत्य रोटिकां मुखे गृहीत्वा धावितवान्।
कपिल – धिक् शुनकम्! मातामहि ! पश्यतु, शुनका : दुष्टाः एव भवन्ति ।
माधवी – सत्यं भ्रातः ! नामदेवस्य कियत् दुःखं जातं स्यात् खलु ।
मातामही – पुत्रकौ, शृणुताम्। नामदेवः शुनकस्य पृष्ठे अनुधावितवान्। जानीतः किमर्थं कथं च ?
कपिल – क्रोधेन लगुडम् आदाय शुनकं ताडयितुं धावितवान् स्यात् !
I. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- रोटिकां मुखे गृहीत्वा कः धावितवान् ।
- शुनकः कीदृशः आसीत् ?
- क: बुभुक्षितः आसीत्?
उत्तर:
- शुनकः
- बुभुक्षितः
- शुनकः
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- शुनकस्य पृष्ठे कः अनुधावितवान्?
- नामदेवः हस्ते किं धृत्वा शुनकस्य पृष्ठे धावितवान् ?
- अस्मिन् गद्यांशे कस्य महत्त्वं प्रतिपादितम् अस्ति ?
उत्तर:
- शुनकस्य पृष्ठे नामदेवः अनुधावितवान्।
- नामदेवः हस्ते घृतपात्रं धृत्वा शुनकस्य पुष्ठे अनुधावितवान् ।
- अस्मिन् गद्यांशे जीवदयायाः तथा करूणायाः महत्त्वं प्रतिपादितम् अस्ति।
III. भाषिककार्यम्-
- “नामदेवः शुनकस्य पृष्ठे अनुधावितवान् ।” अस्मिन् वाक्ये कर्तृपदं किमस्ति ?
- “पुत्रकौ, शृणुताम्” मातामही कथयति । अत्र ‘पुत्रकौ’ इति पदे किं वचनम् ?
उत्तर:
- नामदेव:
- द्विवचनम्
3. कपिल – मातामह! अहं प्रमादं कृतवान् । अकारणं हि शुनकं ताडितवान्। इतः पूर्वमपि बहुवारं जीवान् पीडितवान् । अद्य अहं ज्ञातवान् यत् सर्वेषु जीवेषु ईश्वरः निवसति, अतः कमपि न पीडयिष्यामि इति ।
माधवी – मातामह! क्षाम्यतु माम् । अहमपि कदापि कस्यापि पीडां न जनयिष्यामि ।
मातामही – चिरञ्जीविनौ! मां निकषा आगच्छताम् । (आलिङ्गनं कृत्वा) अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत्। तथैव कस्यापि या कापि पीडा स्यात् तां निवारयितुं प्रयतामहे इति सङ्कल्पं कुर्मः । इदमस्तु अस्माकं ध्येयम्-
‘आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः।’
I. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- सर्वेषु जीवेषु कः “निवसति ?
- ‘क्षामयतु माम्’ इति कः कथयति ?
- कः प्रमादं कृतवान् ?
उत्तर:
- ईश्वरः
- माधवी
- कपिल:
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- वयं किं सङ्कल्पं कुर्मः ?
- कः पण्डितः भवति ?
- अन्ते कपिलः किं ज्ञातवान् ?
उत्तर:
- अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत् । कस्यापि या कापि पीडा स्यात् तां निवारयितुं प्रयतामहे इति सङ्कल्पं कुर्मः।
- यः आत्मवत्सर्वभूतेषु पश्यति सः एव पण्डितः भवति ।
- अन्ते कपिलः ज्ञातवान् यत् सर्वेषु जीवेषु ईश्वरः निवसति, अतः कपमि न पीडयिष्यामि इति ।
III. भाषिककार्यम्-
- ‘समीपम्’ इति अर्थे किं पदम् अत्र आगतम् ?
- ‘अहमपि कदापि कस्यापि पीडां न जनयिष्यामि ।’ अत्र क्रियापदं किम् ?
उत्तर:
- निकषा
- जनयिष्यामि
2. अधोलिखितं कथांशं पठित्वा मञ्जूषायाः उचितशब्दैः रिक्तस्थानानि पूरयत-
(क) सन्त- नामदेव: भगवतः पाण्डुरङ्गस्य अनन्यभक्तः आसीत् । तस्य गुरु विसोबा तं (i) ……….. यत् ईश्वरः केवलं मन्दिरे न भवति, अपितु (ii) …….. तस्य निवासः अस्ति। अतः नामदेवः सर्वेषु जीवेषु ईश्वरं पश्यति स्म। एकदा सः मन्दिरे (iii) ……… पुरतः नैवेद्यस्थालिकां स्थापितवान् । प्रार्थनां कृत्वा यदा सः (iv) ….. उद्घाटितवान् तदा आश्चर्यम् अभवत् । तत्र रोटिका नासीत् । कश्चन (v) ……… शुनकः तां रोटिकां गृहीत्वा पलायितवान् । नामदेवः तं दण्डयितुं न, अपितु (vi) …….. पात्रं गृहीत्वा तस्य पृष्ठे अधावत् ।
मञ्जूषा-घृतस्य, सर्वेषु भूतेषु, विग्रहस्य, अध्यापितवान्, नेत्रे, बुभुक्षितः
उत्तर:
(i) अध्यापितवान्
(ii) सर्वेषु भूतेषु
(iii) विग्रहस्य
(iv) नेत्रे
(v) बुभुक्षितः
(vi) घृतस्य
(ख) नामदेवः चिन्तितवान् यत् शुनक: (i) ……….. रोटिकां खादित्वा पीडां प्राप्स्यति । अतः सः उच्चैः अवदत् – ‘भो देव ! घृतम् अपि (ii) ……. ।’ तस्य एतां निस्वार्थ – करुणां दृष्ट्वा भगवान् पाण्डुरङ्ग: (iii) ……. जातः । सः उक्तवान्- ‘वत्स ! भवान् परीक्षाम् (iv) …….।’ एतां कथां श्रुत्वा कपिलः स्वस्य (v) …….. ज्ञातवान्। सः सङ्कल्पं कृतवान् यत् ‘अहं कदापि जीवान् न (vi) ……।’ सत्यम् उक्तम्- ‘आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः ‘।
मञ्जूषा- उत्तीर्णः, पीडयिष्यामि, शुष्कां, आविर्भूतः, स्वीकरोतु, प्रमादं
उत्तर:
(i) शुष्कां
(ii) स्वीकरोतु
(iii) आविर्भूतः
(iv) उत्तीर्णः
(v) प्रमादं
(vi) पीडयिष्यामि
3. रेखांकितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
(क) तत्र क्रीडावेलायां कञ्चन शुनकं दृष्टवन्तौ।
(ख) भारतभूमिः अनेकेषां नररत्नानां ब्रह्मर्षीणां राजर्षीणां च प्रसवित्री ।
(ग) नामदेवस्य मित्रम् आसीत् पाण्डुरङ्गः ।
(घ) पश्यतु, शुनका : दुष्टाः एव भवन्ति ।
(ङ) शुनकः भयेन आक्रोशं कुर्वन् वेगेन धावितवान् ।
(च) तस्य गुरुः आसीत् विसोबा ।
उत्तर:
(क) तत्र क्रीडावेलायां कञ्चन कं दृष्टवन्तौ ?
(ख) भारतभूमिः केषां नररत्नानां ब्रह्मर्षीणां राजर्षीणां च प्रसवित्री ?
(ग) कस्य मित्रम् आसीत् पाण्डुरङ्गः ?
(घ) पश्यतु, के दुष्टाः एव भवन्ति ?
(ङ) क: भयेन आक्रोशं कुर्वन् वेगेन धावितवान्?
(च) कस्य गुरुः आसीत् विसोबा ?