Students find these Class 9 Sanskrit MCQ Questions and Chapter 2 सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः MCQ with Answers helpful for self-assessment and preparation.
सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः Class 9 MCQ Questions
Class 9 Sanskrit Chapter 2 MCQ Online Test
रेखांकितपदानां प्रसङ्गानुकूलम् अर्थचयनं कुरुत-
प्रश्न 1.
कणे नष्टे कुतो धनम् ।
(क) कस्मात् स्थानात्
(ख) कुत्र
(ग) अस्मात्
(घ) स्थानात्
उत्तर:
(क) कस्मात् स्थानात्
प्रश्न 2.
मा गृधः कस्यस्विद्धनम् ।
(क) उपार्जनीयम्
(ख) स्थापनीय
(ग) लोभं मा कुरु
(घ) मा कुरु
उत्तर:
(ग) लोभं मा कुरु
प्रश्न 3.
ब्राह्मे मुहूर्ते चोत्थाय धर्मार्थयोः चिन्तनं करणीयम् ।
(क) ब्रह्माया:
(ख) ब्राह्मण:
(ग) दिनस्य आरम्भे
(घ) दिनस्य अन्ते
उत्तर:
(क) ब्रह्माया:
प्रश्न 4.
प्रदर्शनकारि – परिधानं व्यसनपदार्थानां सेवनं प्रभूतः अपव्ययः भवति ।
(क) विलासनम्
(ख) व्यसनम्
(ग) वस्त्रम्
(घ) धनम्
उत्तर:
(ग) वस्त्रम्
प्रश्न 5.
भविष्यसुरक्षायै सञ्चयनीयः ।
(क) स्थापनीयः
(ख) संग्रहणीयः
(ग) वर्जनीयः
(घ) करणीयम्
उत्तर:
(ख) संग्रहणीयः
प्रश्न 6.
अनेकदा छात्राः अपव्ययं कुर्वन्ति ।
(क) कष्टा
(ख) अनेकवारम्
(ग) जिह्वा
(घ) प्रभूतः
उत्तर:
(ख) अनेकवारम्
प्रश्न 7.
अपव्ययः वर्जनीयः ।
(क) त्याज्यः
(ख) स्थापनीयः
(ग) सञ्चयनीयः
(घ) लेख:
उत्तर:
(क) त्याज्यः
प्रश्न 8.
अपव्ययेन आर्थिक स्थितिः – विपन्ना भवति ।
(क) सम्पन्नतारहिता
(ख) व्यसना
(ग) विलासम्
(घ) वरिष्ठः
उत्तर:
(क) सम्पन्नतारहिता
प्रश्न 9.
धनस्य प्रभूतः अपव्ययः न कर्तव्यम् ।
(क) अत्यधिकम्
(ख) न्यूनम्
(ग) सततम्
(घ) सञ्चयः
उत्तर:
(क) अत्यधिकम्
1. अधोलिखित गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
1. सामान्यजीवने अन्नं, वस्त्रम्, आवास, शिक्षा, स्वास्थ्यसेवा चेत्यादीनां मूलभूतानाम् आवश्यकतानां पूर्तये धनम् आवश्यकम्। पर्याप्तधनस्य अभावात् स्वकर्तव्यपालनं कठिनं भवति । स्वास्थ्य, शिक्षा, सेवा, दानम् चेत्यादीनि कार्याणि बाधितानि भवन्ति । दैनन्दिनजीवनं च असन्तुलित भवति। अतः धर्मशास्त्रे चतुर्वर्गेषु धर्मार्थकाममोक्षेषु अर्थः अन्यतमः स्तम्भः इति गण्यते । उक्तं गरुडपुराणे-
“ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत् ।”
अर्थात् दिनस्य आरम्भे धर्मार्थयोः चिन्तनम् आवश्यकम्।
I. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- मूलभूतानाम् आवश्यकतानां पूर्तये किम् आवश्यकम् ?
- दिनस्य आरम्भे कयोः चिन्तनम् आवश्यकम् अस्ति ?
- पर्याप्तधनस्य अभावात् किं कठिनं भवति ?
उत्तर:
- धनम्
- धर्मार्थयोः
- स्वकर्तव्यपालनम्
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- सामान्यजीवने किं-किम् आवश्यकम् अस्ति ?
- कस्य अभावात् स्वकर्तव्यपालनं कठिनं भवति ?
- कुत्र चतुर्वर्गेषु धर्मार्थकाममोक्षेषु अर्थः अन्यतमः स्तम्भः इति गण्यते?
उत्तर:
- सामान्यजीवने अन्नं वस्त्रं, आवास:, शिक्षा, स्वास्थ्यसेवा च आवश्यकम् अस्ति ।
- पर्याप्त धनस्य अभावात् स्वकर्तव्यपालनं कठिनं भवति ।
- धर्मशास्त्रे चतुर्वर्गेषु धर्मार्थकाममोक्षेषु अर्थः अन्यतमः स्तम्भः इति गण्यते ।
III. भाषिककार्यम् –
- “ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत् ।” अस्मिन् वाक्ये क्रियापदं किम् अस्ति ?
- “अन्ते” इति पदस्य विपर्ययपदं किम् आगतम् ?
उत्तर:
- चिन्तयेत्
- आरम्भे
2. अस्य आशयः यत् अनैतिकः आर्थिकव्यवहारः कदापि न करणीयः । “मा गृधः कस्यस्विद्धनम्” इति उपनिषदः वाक्यं सततं मनसि निधाय स्वकौशलेन विद्यया च धनम् उपार्जनीयम्।
औचित्यपूर्णः व्ययः – आवश्यकतानुसारं व्ययः करणीयः । येन व्ययेन स्वास्थ्यलाभः विद्यार्जनम् आत्मसुरक्षा वा भवेत्, सः व्ययः अवश्यं करणीयः। आडम्बरपूर्णः प्रदर्शनकारी व्ययः अथवा विलासव्यसनाय व्ययः अपव्ययः भवति । अपव्ययः वर्जनीयः, अतः प्रत्येकं व्ययस्य लेख : स्थापनीयः । अन्ते च तेषां परिशीलनं करणीयम् ।
I. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- व्ययः कीदृशं करणीयम् ?
- किं वर्जनीयः ?
- तेषां किं करणीयम् ?
उत्तर:
- आवश्यकतानुसारम्
- अपव्ययः
- परिशीलनं
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- कीदृशः व्यवहारः न करणीयः ?
- उपनिषदः वाक्यं किमस्ति ?
- अपव्ययः कः भवति ?
उत्तर:
- अनैतिकः आर्थिकव्यवहारः कदापि न करणीयः ।
- मा गृधः कस्यस्विद्धनम्” इति उपनिषदः वाक्यं अस्ति ।
- आडम्बरपूर्ण: प्रदर्शनकारी व्ययः अथवा विलासव्यसनाय व्ययः अपव्ययः भवति ।
III. भाषिककार्यम्-
(i) ” लोभं न कुरु” इति अर्थे किं समानपदम् आगतम् ?
(क) व्ययः
(ख) मा गृधः
(ग) अवश्यः
(घ) अपव्ययः
उत्तर:
(ख) मा गृधः
(ii) ‘व्ययः’ इति पदस्य विपर्ययपदं किम् आगतम् ?
(क) आडम्बर:
(ख) धनम्
(ग) सञ्चयः
(घ) वर्जनीयः
उत्तर:
(ग) सञ्चयः
2. अधोलिखित- श्लोकान् पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
1. सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थे शुचिर्हि सः शुचिर्न मृद्वारिशुचिः शुचिः ॥
I. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- परं स्मृतम् शौचं किम् ?
- कस्य शुद्धि एव सर्वश्रेष्ठं मन्यते ?
- किं केवलं मृद्वारिशौचेन मनुष्यः शुचिः भवति ?
उत्तर:
- अर्थम्
- अर्थस्य
- न
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- कीदृशः मनुष्यः वास्तविकरूपेण शुद्धः अस्ति ?
- कीदृशः जनः परमशुद्धः न कथ्यते ?
- कः जनः यथार्थतः शुचिः कथ्यते ?
उत्तर:
- यः मनुष्यः धन-व्यवहारे पवित्रः अस्ति स एव वास्तविकरूपेण शुद्धः अस्ति ।
- यः मनुष्यः केवलं मृत्तिकया जलेन वा शरीरस्य प्रक्षालनं करोति सः जनः परमशुद्धः न कथ्यते ।
- यः अर्थे शुचिः अस्ति सः एव यथार्थतः शुचिः कथ्यते ।
III. भाषिककार्यम्-
(i) ‘धनम्’ इति अर्थे पद्यांशे किं पदं प्रयुक्तम् ?
(क) वित्तम्
(ख) सम्पत्ति
(ग) अर्थः
(घ) रूप्यकम्
उत्तर:
(ग) अर्थः
(ii) ‘जलम्’ इति अर्थे पद्यांशे किं पदं प्रयुक्तम् ?
(क) अम्बुः
(ख) वारि
(ग) नीर:
(घ) तोयम्
उत्तर:
(ख) वारि
2. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
सक्रमः सर्वविद्यानां धर्मस्य च धनस्य च ।।
I. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- केन पूर्यते घटः ?
- कथं पूर्यते घटः ?
- क: क्रमशः पूर्यते ?
उत्तर:
- जलबिन्दुना
- क्रमशः
- घट:
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- जलबिन्दुनिपातेन क्रमशः कः पूर्यते ?
- सर्वविद्यानां धर्मस्य च धनस्य च कथम् आगच्छति ?
- अस्मिन् श्लोके केषां त्रयाणां संचयस्य विषयः उक्तः ?
उत्तर:
- जलबिन्दुनिपातेन क्रमशः घटः पूर्यते ।
- सर्वविद्यानां धर्मस्य च धनस्य च क्रमशः आगच्छति ।
- अस्मिन् श्लोके विद्यायाः, धर्मस्य धनस्य च संचयस्य विषयः उक्तः ।
III. भाषिककार्यम्-
(i) ‘कुम्भ:’ इति अर्थे किं शब्दं आगतम् ?
(क) घट:
(ख) मटका
(ग) कलश:
(घ) क्रमशः
उत्तर:
(क) घट:
(ii) “शनै: शनै:” इति अर्थे किं शब्दं आगतम् ?
(क) क्रमशः
(ख) क्रमः
(ग) घट:
(घ) धर्मः
उत्तर:
(क) क्रमशः
3. क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम्।।
I. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- क्षणश: कां साधयेत् ?
- कणशः किं साधयेत् ?
- कणे नष्टे किं न भवति ?
उत्तर:
- विद्याम्
- अर्थं
- धनम्
II. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- मनुष्यः कणशः किं साधयेत् ?
- कस्य त्यागे विद्या न प्राप्यते ?
- धनं प्राप्तुं किं आवश्यकम् अस्ति ?
उत्तर:
- मनुष्यः कणशः अर्थं साधयेत् ।
- क्षणस्य त्यागे विद्या न प्राप्यते ।
- धनं प्राप्तुं कणशः सञ्चयः आवश्यकः अस्ति ।
III. भाषिककार्यम्-
(i) ‘एकैकेन क्षणेन’ इति अर्थे किं पदं प्रयुक्तम् ?
(क) क्षणशः
(ख) कणशः
(ग) अर्थम्
(घ) विद्याम्
उत्तर:
(क) क्षणशः
(ii) ‘एकैकेन कणेन’ इति अर्थे किं पदं प्रयुक्तम् ?
(क) अर्थम्
(ख) कुतः
(ग) कणशः
(घ) नरः
उत्तर:
(ग) कणशः
3. मञ्जूषातः उचितं पदं चित्वा अधोलिखित- श्लोकानां अन्वयं पूरयत-
1. सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थे शुचिर्हि सः शुचिर्न मृद्वारिशुचिः शुचि: ।।
मञ्जूषा- शुचिः, शौचानाम्, स्मृतम्, शुचिः
अन्वयः – सर्वेषाम् एव (i) ……… अर्थशौचं परं (ii) …… । यः अर्थे शुचिः, स हि (iii) …… मृद्वारि (iv) ……. न भवति ।
उत्तर:
(i) शौचानाम्
(ii) स्मृतम्
(iii) शुचि:
(iv) शुचि:
2. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
सक्रमः सर्वविद्यानां धर्मस्य च धनस्य च ।।
मञ्जूषा-पूर्यते, धनस्य, सर्वविद्यानां क्रमशः
अन्वयः – जलबिन्दु निपातेन (i) …….. घटः (ii) …….. सः स्व क्रमः (iii) ……. धर्मस्य च (iv) ……. च अस्ति ।
उत्तर:
(i) क्रमश:
(ii) पूर्यते
(iii) सर्वविद्यानां
(iv) धनस्य
3. क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम्।।
मञ्जूषा – साधयेत्, नष्टे, विद्या, कणशः
अन्वयः क्षणशः विद्यां (i) …… च अर्थं (ii) …… । क्षणे नष्टे (iii) …… कुतः कणे (iv) …… कुतः धनम्।
उत्तर:
(i) कणशः
(ii) साधयेत्
(iii) विद्या
(iv) नष्टे
4. अधोलिखित- श्लोकानां भावार्थं मञ्जूषापद – सहायतया पूरयत-
1. सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्ये शुचिर्हि सः शुचिर्न मृद्वारिशुचिः शुचि: ।।
मञ्जूषा – पवित्र, सर्वश्रेष्ठं प्रक्षालनं, धनं
भावार्थ: – संसारे सर्वासु शुद्धिषु धनस्य शुद्धि एव (i) …… मन्यते। यः मनुष्यः धनव्यवहारे (ii) ….. अस्ति सः एव वास्तविकरूपेण शुद्धः अस्ति । केवलं मृत्तिकया जलेन वा (iii) ….. कुर्वन् जनः परमशुद्धः न कथ्यते। जीवने शुद्ध मार्गेण एव (iv) ……. प्राप्नुयात् यतः धनस्य पवित्रता एव सर्वश्रेष्ठं अस्ति ।
उत्तर:
(i) सर्वश्रेष्ठं
(ii) पवित्रः
(iii) प्रक्षालनं
(iv) धनं
2. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स क्रमः सर्वविद्यानां धर्मस्य च धनस्य च ।।
मञ्जूषा- सहसा, विद्यां क्रमशः, जीवने
भावार्थ: – जलबिन्दूनां निरन्तरपातेन रिक्तः घटः अपि (i) …… पूर्णः भवति, तथैव अल्प- अल्प प्रयत्नेन मनुष्यः (ii) ….. धर्मं धनं च संचितुं शक्नोति । अतः (iii) …… सफलतायै निरन्तरता परमावश्यकी अस्ति। विद्या, धर्म: धनं च (iv) …… न लभ्यन्ते अपितु शनै: शनै: सञ्चिताः भवन्ति । कस्यापि कार्यस्य सिध्यर्थं सततं प्रयत्नः करणीयः ।
उत्तर:
(i) क्रमश:
(ii) विद्यां
(iii) जीवने
3. क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ।।
मञ्जूषा- क्षण:, धनं, समयं विद्यायाः
भावार्थ: – मनुष्येण प्रतिक्षणं (i) ……. तथा प्रति-कणं धनस्य सञ्चयः करणीयः । यदि वयं (ii) ……. नष्टं कुर्मः तर्हि विद्या प्राप्ता न भविष्यति, तथा यदि वयं लघु-लघु (iii) ….. (कणान्) नष्टं कुर्मः तर्हि धनसञ्चयः न भविष्यति । विद्यार्थिनां विद्याप्राप्तये प्रत्येकः (iv) …… अमूल्यः अस्ति तथैव धनार्जनार्थं कणानां रक्षणं आवश्यकम् ।
उत्तर:
(i) विद्यायाः
(ii) समयं
(iii) धनं
(iv) क्षण:
5. रेखांकितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
(क) धर्मार्थकाममोक्षेषु अर्थ: अन्यतमः स्तम्भः इति गण्यते ।
(ख) स्वस्थः आर्थिकव्यवहारः त्रिविधः भवति ।
(ग) सञ्चयस्य अभ्यासेन जनः स्वावलम्बी भवति ।
(घ) छात्राः मातापितृभ्यां कष्टार्जितधनस्य तुच्छकारणैः अपव्ययं कुर्वन्ति ।
(ङ) एतैः न केवलं धनहानिः, स्वास्थ्यहानिरपि जायते ।
(च) लघु – लघुः सञ्चयोपि कालान्तरे महत्सम्पत्तिरूपेण वर्धते ।
(छ) य: विद्यार्थी अद्य अर्थविषये जागरूकोऽस्ति सः भविष्ये उत्तरदायी नागरिको भवति ।
उत्तर:
(क) धर्मार्थकाममोक्षेषु कः अन्यतमः स्तम्भः इति गण्यते ?
(ख) स्वस्थः आर्थिकव्यवहारः कतिविधः भवति ?
(ग) कस्य अभ्यासेन जनः स्वावलम्बी भवति ?
(घ) छात्राः काभ्यां कष्टार्जितधनस्य तुच्छकारणैः अपव्ययं कुर्वन्ति ?
(ङ) कै: न केवलं धनहानिः, स्वास्थ्यहानिरपि जायते ?
(च) कीदृशः सञ्चयोपि कालान्तरे महत्सम्पत्तिरूपेण वर्धते ?
(छ) य: विद्यार्थी अद्य कस्मिन् जागरूकोऽस्ति सः भविष्ये उत्तरदायी नागरिको भवति ?