Students find these Class 9 Sanskrit MCQ Questions and Chapter 10 णमो अरिहन्ताणम् MCQ with Answers helpful for self-assessment and preparation.
णमो अरिहन्ताणम् Class 9 MCQ Questions
Class 9 Sanskrit Chapter 10 MCQ Online Test
रेखांकितपदानां प्रसङ्गानुकूलम् अर्थचयनं कुरुत-
प्रश्न 1.
ऋषभदेवः तदाख्य अरण्येषु ध्याने अध्ययनं करोति स्म ।
(क) वनेषु
(ख) जीवेषु
(ग) वृक्षेषु
(घ) कर्मसु
उत्तर:
(क) वनेषु
प्रश्न 2.
णमो अरिहन्ताणम् ।
(क) आलस्यम्
(ख) जितशत्रूणाम्
(ग) वस्तूनाम्
(घ) अहिंसा
उत्तर:
(ख) जितशत्रूणाम्
प्रश्न 3.
निर्माणं कर्तुम् आरब्धवन्तः।
(क) प्रारम्भं कृतवान्
(ख) अकरोत
(ग) निर्माणम्
(घ) आश्चर्यम्
उत्तर:
(क) प्रारम्भं कृतवान्
प्रश्न 4.
परस्य जनेषु परस्परं विद्वेषः ।
(क) केषु
(ख) वैर – भावः
(ग) मित्रता
(घ) ईर्ष्यालुः
उत्तर:
(ख) वैर – भावः
प्रश्न 5.
दुर्भिक्षस्य कारणं किम् ?
(क) अकालस्य
(ख) नवीनस्य
(ग) प्राचीनस्य
(घ) पुरातनम्
उत्तर:
(क) अकालस्य
प्रश्न 6.
इह संसारे किमपि शाश्वतं नास्ति।
(क) सहसा
(ख) नित्यम्
(ग) विचलितम्
(घ) भूतम्
उत्तर:
(ख) नित्यम्
प्रश्न 7.
संयोग-वियोगश्च दैवात्परं बलम् ।
(क) विरह
(ख) पृथक्करणम्
(ग) मेलनम्
(घ) नित्यम्
उत्तर:
(ख) पृथक्करणम्
प्रश्न 8.
इह संसारे सर्वं दैवाधीनं अस्ति ।
(क) अस्याम्
(ख) अस्मिन्
(ग) अत्र
(घ) तत्र
उत्तर:
(ख) अस्मिन्
प्रश्न 9.
सर्वमपि परित्यज्य भिक्षुरूपेण प्रस्थितवान्।
(क) त्यक्त्वा
(ख) पीत्वा
(ग) खादित्वा
(घ) नत्वा
उत्तर:
(क) त्यक्त्वा
प्रश्न 10.
तेन जनानां समस्याः स्वयमेव परिहृताः ।
(क) निवारणम् अकरोत्
(ख) जनानाम्
(ग) निवारणम्
(घ) व्याप्ताः
उत्तर:
(क) निवारणम् अकरोत्
1 अधोलिखित गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
1. आसीत् युगानाम् आरम्भे प्रजानां प्रियः नाभिनामक: कश्चन महाराजः । सः राजनीतौ युद्धतन्त्रे प्रशासनादिषु च समर्थः । तस्य पत्नी मरुदेवी बुद्धिमती करुणाशालिनी च । तयोः एव प्रियपुत्रः ऋषभः । ऋषभः सर्वगुणसम्पन्नः, अधीतविद्य:, राजनीतिज्ञश्च आसीत् । यौवनेन विलसन्तं तं राजकुमारं वीक्ष्य नाभिः तस्मै राज्यभारं समर्पयितुम् अचिन्तयत्। अथैकदा समाजे दुर्भिक्षादयः समस्याः समुदभवन्। जनेषु परस्परं विद्वेषादयः भावनाः आविरभवन्। तदा नाभिः ” अयं कालः ऋषभस्य राजनीतेः परीक्षार्थं सुयोग्यः” इति मन्यमानः तस्मै राज्यं समर्पितवान् । ऋषभः यदा राजा अभवत् तदा सः आदौ जनानां समस्या: काः, दुर्भिक्षस्य कारणं किं जनेषु कुतः परस्परं विद्वेषः, समस्यानां समाधानोपायाः के इत्यादिषु विषयेषु चिन्तनं कृतवान् ।
I. एकपदेन उत्तरत-
- प्रजानां प्रियः महाराजः कः आसीत्?
- नाभिनामक: पत्नी नाम किमासीत् ?
- नाभिनामकः पुत्रस्य नाम किमासीत् ?
उत्तर:
- नाभिः
- मरुदेवी
- ऋषभ:
II. पूर्णवाक्येन उत्तरत-
- नाभिः कस्मै राज्यं समर्पितवान् ?
- ऋषभः कीदृशः आसीत् ?
- ऋषभः यदा राजा अभवत् तदा सः कस्य विषयस्य चिन्तनं कृतवान्?
उत्तर:
- नाभिः स्वपुत्राय ऋषभाय राज्यं समर्पितवान्।
- ऋषभः सर्वगुणसम्पन्नः, अधीतविद्यः, राजनीतिज्ञश्च आसीत्।
- ऋषभः यदा राजा अभवत तदा सः आदौ जनानां समस्या: काः, जनेषु कुतः परस्परं विद्वेषः, समस्यानां समाधनोपायाः के इत्यादिषु विषयेषु चिन्तनं कृतवान् ।
III. भाषिककार्यम्-
(i) ‘सर्वगुण सम्पन्नः ऋषभः’ अनयोः पदयोः विशेषणपदं किं प्रयुक्तम् ?
(क) सर्वगुणसम्पन्नः
(ख) ऋषभः
(ग) सर्वगुणम्
(घ) सम्पन्नः
उत्तर:
(क) सर्वगुणसम्पन्नः
(ii) समाजे दुर्भिक्षादयः समस्याः समुद्भवन् । अत्र अस्मिन् वाक्ये क्रियापदं किम् ?
(क) समाजे
(ख) समस्याः
(ग) समुद्भवन्
(घ) दुर्भिक्षादयः
उत्तर:
(ग) समुद्भवन्
(iii) “आदौ जनानां समस्या: का: ‘ अत्र ‘आदौ’ पदस्य पर्यायपदं अस्ति ।
(क) आरम्भे
(ख) अन्ते
(ग) मध्यान्हे
(घ) पश्चात्
उत्तर:
(क) आरम्भे
2. ऋषभः जनानां जीवने शान्तिं सुरक्षां न्यायिकव्यवस्थां च पुनः सुदृढां कृतवान्। एवम् ऋषभस्य दक्षशासनेन कौशलेन च विनितानाम्नः नगरस्य निर्माणम् अभवत् । समाजस्य उत्कर्षेण सः जनानां मनस्सु सुप्रतिष्ठितं स्थानं प्राप्तवान् । अतः तं प्रजा: प्रेम्णा राजा ऋषभदेवः इति कथयन्ति स्म। ऋषभदेवः समाजस्य उत्कर्षेण सह साम्राज्यस्यापि विस्तारं कृतवान् । एतादृशस्य महाराजस्य पुत्राः अपि शौर्येण पराक्रमेण बुद्धिबलेन च विश्वप्रसिद्धाः आसन् । तादृशेषु शते पुत्रेषु विशेषरूपेण भरतः बाहुबलिः च अत्यन्तं सुविख्यातौ । तथैव ऋषभस्य पुत्रीषु ब्राह्मी सुन्दरी चेति द्वे कन्ये अपि गणितादिषु शास्त्रेषु प्रवीणे प्रसिद्धे च आस्ताम्।
I. एकपदेन उत्तरत-
- ऋषभं प्रजा: प्रेम्णा किं कथयन्ति ?
- ऋषभदेवेन निर्मितस्य नगरस्य नाम किम् ?
- राजा ऋषभदेवस्य कति पुत्रः आसन् ?
उत्तर:
- राजा ऋषभदेवः
- विनिता
- शत
II. पूर्णवाक्येन उत्तरत-
- ऋषभदेवः जनानां जीवने किं कृतवान्?
- ऋषभदेवस्य पुत्रेषु कौ सुविख्यातौ आस्ताम् ?
- ऋषभदेवस्य पुत्र्यौ कासु प्रवीणे आस्ताम् ?
उत्तर:
- ऋषभदेवः जनानां जीवने शान्तिं सुरक्षा, न्यायिकव्यवस्थां च कृतवान्।
- ऋषभदेवस्य पुत्रेषु भरतः बाहुबलिः च द्वौ सुविख्यातौ आस्ताम्।
- ऋषभदेवस्य पुत्रीषु ब्राह्मी सुन्दरी चेति द्वे कन्ये अपि च गणितादिषु शास्त्रेषु प्रवीणे प्रसिद्धे च आस्ताम् ।
III. भाषिककार्यम्-
(i) ‘स्नेहेन ‘ इति अर्थे किं पदं प्रयुक्तम् ?
(क) प्रेम्णा
(ख) कटुता
(ग) खिन्नता
(घ) भिन्नता
उत्तर:
(क) प्रेम्णा
(ii) ‘सः जनानां मनस्सु सुप्रतिष्ठितं स्थानं प्राप्तवान्।’ अत्र कर्तृपदं किम् ?
(क) जनानाम्
(ख) मनस्सु
(ग) सः
(घ) स्थानम्
उत्तर:
(क) जनानाम्
(iii) ‘जीवने शान्तिं सुरक्षां न्यायिकव्यवस्थां च पुनः सुदृढा कृतवान्’ अत्र विशेषणपदं किं प्रयुक्तम् ?
(क) सुदृढा
(ख) जीवने
(ग) च
(घ) पुनः
उत्तर:
(क) सुदृढा
3. कदाचित् तेषाम् एतादृशं व्यवहारं दृष्ट्वा जैनसन्यासिनः वृक्षेभ्यः फलानि शाकानि वा न चिनुयुः इति बोधनार्थं स्वयं भिक्षार्थं प्रस्थितः । अनुयायिनः अपि तस्य आचरणेन प्रभाविताः सन्तः भिक्षार्थं गताः । ग्रामेषु प्रतिगृहं गत्वा भिक्षां प्राप्य जीवनं निर्वर्तयन्ति स्म । परम् ऋषभः पूर्वं भोजनार्थं मौनेन भिक्षायाचनं करणीयमिति मौनेन प्रतिगृह भिक्षायाचनम् आरब्धवान् । परं तत्रत्याः जनाः तेषां प्रियं महाराजं दृष्ट्वा भिक्षायां किं दातव्यमिति सम्भ्रान्ताः सन्तः तस्मै आभरणानि अनर्घवस्तूनि च यच्छन्ति स्म । परं भिक्षायां भोजनपदार्थ : देयः इति न केनापि चिन्तितम्। फलतः ऋषभदेवस्य दिने दिने सकष्टम् उपवासः करणीयः आपतितम्। कदाचित् ऋषभदेवः भोज्यपदार्थानाम् अभावे चतुःशतं दिनानि नैरन्तर्येण उपवासं कृतवान् । एकदा पर्यटनावसरे सः हस्तिनापुरस्य समीपे स्थितस्य इक्षुक्षेत्रस्य पार्श्वमार्गात् गच्छति स्मा तच्च इक्षुक्षेत्रं तस्यैव प्रपौत्रस्य श्रेयांसस्य आसीत् । सः श्रेयांसः प्रपितामहाय पानार्थम् इक्षुरसं दत्तवान्।
I. एकपदेन उत्तरत-
- ऋषभदेवस्य आचरणेन के प्रभाविता : ?
- ऋषभदेवः भोज्यपदार्थानाम् अभावे कति दिनानि उपवासं कृतवान्?
- श्रेयांसः प्रपितामहाय पानार्थं किं दत्तवान्?
उत्तर:
- अनुयायिनः / सन्तः
- चतुःशतं
- चतुःशतं इक्षुरसम्
II. पूर्णवाक्येन उत्तरत-
- जैनसंन्यासिनः किमर्थं भिक्षार्थं प्रस्थिताः?
- जनाः ऋषभदेवाय भिक्षायां किं यच्छन्ति स्म ?
- ऋषभदेवस्य कष्टम् किमर्थम् अपतितम् ?
उत्तर:
- ‘वृक्षेभ्यः फलानि शाकानि वा न चिनुयुः’ इति बोधनार्थं जैनसंन्यासिनः स्वयं भिक्षार्थं प्रस्थिताः ।
- जनाः ऋषभदेवाय भिक्षायां आभरणानि अनर्घवस्तूनि च यच्छन्ति स्म ।
- भिक्षायां भोजनंपदार्थाः देयाः इति न केनापि चिन्तितम्, अतः भोज्यपदार्थानाम् अभावे ऋषभदेवस्य कष्टम् आपतितम्।
III. भाषिककार्यम्-
(i) ‘सततम्’ इति अर्थे किं पदं प्रयुक्तम् ?
(क) नैरन्तर्यम्
(ख) उपवासम्
(ग) अभावे
(घ) कृतवान्
उत्तर:
(क) नैरन्तर्यम्
(ii) ‘सन्तः भिक्षां प्राप्य जीवनं निर्वर्तयन्ति स्म।’ अत्र क्रियापदं किम् ?
(क) भिक्षा
(ख) प्राप्य
(ग) निर्वर्तयन्ति स्म
(घ) सन्तः
उत्तर:
(ग) निर्वर्तयन्ति स्म
(iii) ‘निराहारव्रतम्’ इति अर्थे किं पदं आगतम् ?
(क) उपवासम्
(ख) निर्जलम्
(ग) सकष्टम्
(घ) आपतितम्
उत्तर:
(क) उपवासम्
2. अधोलिखित- श्लोकान् पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
1. प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ।।
I. एकपदेन उत्तरत-
- नृपस्य सुखं कस्मिन् अस्ति ?
- प्रजासुखे एव कस्य सुखं अस्ति?
- प्रजानां हिते कस्य हितम् अस्ति ?
उत्तर:
- प्रजासुखे
- राज्ञ:
- राज्ञ: (नृपस्य)
II. पूर्णवाक्येन उत्तरत-
- राजा किम् हितं न मन्यते ?
- राज्ञः कृते किं प्रियं भवति ?
- राज्ञ: हितं कस्मिन् अस्ति ?
उत्तर:
- राजा आत्मप्रियं हितं न मन्यते ।
- यत् प्रजानां प्रियं तत् एव राज्ञः प्रियं भवति ।
- राज्ञः हितं प्रजानां हिते अस्ति ।
III. भाषिककार्यम्-
(i) ‘नृपस्य ‘ इति अर्थे किं पदं प्रयुक्तम् ?
(क) हितम्
(ख) सुखम्
(ग) राज्ञः
(क) प्रियम्
उत्तर:
(ग) राज्ञः
(ii) कति अव्ययपदानि श्लोके आगतानि ?
(क) एकम्
(ख) त्रीणि
(ग) द्वे
(घ) चत्वारि
उत्तर:
(ख) त्रीणि
(iii) ‘स्वहितम्’ इत्यर्थे किं पदं प्रयुक्तम् ?
(क) आत्मप्रियम्
(ख) हितम्
(ग) सुखम्
(घ) प्रियम्
उत्तर:
(क) आत्मप्रियम्
2. दैवाधीनं जगत्सर्वं जन्मकर्मशुभावहम्।
संयोगश्च वियोगश्च न च दैवात्परं बलम्।।
I. एकपदेन उत्तरत-
- सर्वं जगत् कस्य अधीनमस्ति ?
- दैवाधीनं किं अस्ति?
- जन्मकर्मशुभावहं कस्य अधीनं भवति ?
उत्तर:
- दैवाधीनम्
- संसारम्
- दैवाधीनम्
II. पूर्णवाक्येन उत्तरत-
- किं दैवात् परं किमपि बलम् अस्ति ?
- के द्वे अपि दैवस्य अधीनौ स्तः ?
- दैवाधीनं किं किं भवति ?
उत्तर:
- न, दैवात् परं किमपि बलं नास्ति ।
- संयोगः वियोगः च द्वे अपि दैवस्य अंधीनौ स्तः ।
- संयोगः वियोगश्च जन्मकर्म शुभावहं च एतत् सर्वं दैवाधीनं भवति, दैवात् परं किमपि बलं न अस्ति ।
III. भाषिककार्यम् –
(i) ‘भाग्य’ इति अर्थे किं पदम् आगतम् ?
(क) दैवः
(ख) देवः
(ग) प्रारब्धः
(घ) मनः
उत्तर:
(क) दैवः
(ii) ‘जगत्सर्वम्’ अनयोः पदयोः विशेष्यपदं किम् ?
(क) जगत्
(ख) सर्वम्
(ग) जगत:
(घ) सर्वस्य
उत्तर:
(क) जगत्
(iii) ‘संयोग:’ इति पदस्य विपर्ययपदं किमागतम् ?
(क) वियोग:
(ख) वियोगम्
(ग) वियोगेन
(घ) वियोगात्
उत्तर:
(क) वियोग:
3. मञ्जूषातः उचितं पदं चित्वा अधोलिखित- श्लोकानां अन्वयं पूरयत-
1. प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम्।।
अन्वयः – प्रजा सुखे राज्ञः (i) ….. (भवति), (ii) ……. हिते (राज्ञः) हितम् (भवति) राज्ञः (iii) ….. हितं न (भवति), तु प्रजानां (iv) ….. (राज्ञः) हितं (भवति) ।
मञ्जूषा – प्रजानां आत्मप्रियं, सुखं, हितम्
उत्तर:
(i) सुखं
(ii) प्रजानां
(iii) आत्मप्रियं
(iv) हितम्
2. दैवाधीनं जगत्सर्वं जन्मकर्मशुभावहम्।
संयोगश्च वियोगश्च न च दैवात्परं बलम्।।
अन्वयः – सर्वं जगत् (i) …… अधीनम् (अस्ति), (यत:) जन्म (ii) …… शुभावहम् (शुभ अशुभ फलम्) संयोगः च (iii) ….. च (सर्वं दैवाधीनम् एव) दैवात् (iv) …… बलं न अस्ति ।
मञ्जूषा-दैव, वियोग:, परं, कर्म
उत्तर:
(i) दैव
(ii) कर्म
(iii) वियोग:
(iv) परं
4. अधोलिखित- श्लोकानां भावार्थं मञ्जूषाशब्द-सहायतया पूरयत-
1. प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥
भावार्थ: – एकस्य आदर्शपितुः अथवा (i) ……. सुखं तस्य प्रजायाः सुखे एव निहितं भवति । प्रजानां (ii) …… एव राज्ञः कल्याणं मन्यते । राज्ञः कृते किमपि तादृशं कार्यं
(iii) ….. न भवति यत् केवलं तस्य आत्मसन्तुष्ट्यै अस्ति, अपितु तत् कार्यं हितकरं भवति येन प्रजा: (iv) ……. भवन्ति । संक्षेपेण राज्ञः सर्वस्वं प्रजानां सेवायै समर्पितं भवत् ।
मञ्जूषा- कल्याणे, हितकरं, राज्ञः, प्रसन्नाः
उत्तर:
(i) राज्ञः
(ii) कल्याणे
(iii) हितकरं
(iv) प्रसन्नाः
2. दैवाधीनं जगत्सर्वं जन्मकर्मशुभावहम्।
संयोगश्च वियोगश्च न च दैवात्परं बलम्।।
भावार्थः – अस्मिन् संसारे सर्वमपि (i) …….. (भाग्यस्य) अधीनं वर्तते । मनुष्यस्य जन्म तस्य (ii) …… जीवनस्य शुभाशुभानिफलानि, (iii) ….. (संयोग:) तथा च पृथक्करणं (वियोग:) एतत् सर्वं (iv) ………. एव निश्चितं भवति । लोके दैवबलात् श्रेष्ठं किमपि अन्यत् बलं नास्ति। अतः भाग्यमेव सर्वोपरि अस्ति ।
मञ्जूषा- प्रारब्धेन, मेलनं, कर्माणि, दैवस्य
उत्तर:
(i) दैवस्य
(ii) कर्माणि
(iii) मेलनं
(iv) प्रारब्धेन
5. अधोलिखितं कथांशं पठित्वा मञ्जूषायाः उचितशब्दैः रिक्तस्थानानि पूरयत-
(क) कठोरतपसा ऋषभदेवः प्रयागराजे (i) ……. प्राप्तवान् । सः जैनधर्मस्य प्रथम: (ii) …… ‘आदिनाथ’ इति प्रसिद्धः अभवत्। सः विश्वशान्त्यै (iii) …… मन्त्रं दत्तवान्, यः पञ्चपरमेष्ठिभ्यः प्रणामं करोति । जैनदर्शने सम्यग्दर्शन – ज्ञान – चरित्राणि (iv) ….. उच्यन्ते । अस्य धर्मस्य मुख्यसिद्धान्तः (v) ….. अस्ति। ऋषभदेवस्य पुत्री (vi) …… गणितादि-शास्त्रेषु प्रवीणा आसीत् ।
मञ्जूषा-तीर्थङ्करः, अहिंसा, त्रिरत्नानि, केवलज्ञानं, ब्राह्मी, णमोकार
उत्तर:
(i) केवलज्ञानं
(ii) तीर्थङ्करः
(iii) णमोकार
(iv) त्रिरत्नानि
(v) अहिंसा
(vi) ब्राह्मी
(ख) महाराजस्य नाभेः पुत्रः ऋषभदेवः सर्वगुणसम्पन्नः आसीत्। यदा सः राजा अभवत्, तदा समाजे (i) …… समस्या आसीत्। ऋषभदेवः ज्ञातवान् यत् आलस्यं (ii) ….. च अस्य मूलकारणानि सन्ति । अतः सः प्रजाभ्यः कृषिकार्यं, (iii) …… निर्माणं, नगरनिर्माणादिकं च प्रशिक्षितवान् । तस्य कुशलशासनेन विनितानाम्नः (iv) …… उत्कर्षः अभवत्। तस्य (v) ……. पुत्राः आसन्, येषु भरतः (vi) …… च सुविख्यातौ अभवताम् ।
मञ्जूषा-नगरस्य, बाहुबली, दुर्भिक्षस्य, शतं, वस्त्र, कृषिकार्ये न्यूनता
उत्तर:
(i) दुर्भिक्षस्य
(ii) कृषिकार्ये न्यूनता
(iii) वस्त्र
(iv) नगरस्य
(v) शतं
(vi) बाहुबली
6. रेखांकितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
(क) जनेषु परस्परं विद्वेषादयः भावनाः आविरभवन्।
(ख) ऋषभः सर्वगुणसम्पन्नः, अधीतविद्यः, राजनीतिज्ञश्च आसीत् ।
(ग) जनाः सक्रियाः अभवन् जीवनपद्धतिं च परिवर्तितवन्तः ।
(घ) सः जनानां मनस्सु सुप्रतिष्ठितं स्थानं प्राप्तवान् ।
(ङ) ऋषभदेवः साम्राज्यस्यापि विस्तारं कृतवान् ।
उत्तर:
(क) जनेषु परस्परं विद्वेषादयः का आविरभवन् ?
(ख) कः सर्वगुणसम्पन्नः, अधीतविद्यः, राजनीतिज्ञश्च आसीत्?
(ग) जनाः सक्रियाः अभवन् किं च परिवर्तितवन्तः ?
(घ) सः केषां मनस्सु सुप्रतिष्ठितं स्थानं प्राप्तवान् ?
(ङ) ऋषभदेवः साम्राज्यस्यापि किं कृतवान् ?