Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 2 Set 4 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 4 with Solutions
समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40
प्रश्नपत्रस्वरूपम :
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
- उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (10)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
रामायणं लौकिकसंस्कृतस्य प्रथमः ग्रन्थः मन्यते। अस्मिन् ग्रन्थे मर्यादा पुरुषोत्तमस्य रामचन्द्रस्य जीवनस्य वृत्तान्तं वर्तते। अस्य लेखकः महर्षिः वाल्मीकिः आसीत्। सः आदिकविः अपि कथ्यते। तस्य रचना ‘आदिकाव्यम्’ इति विद्वांसः मन्यन्ते। इदं काव्यम् अनुष्टुप् छन्दसि निबद्धम् अस्ति। अस्मिन् (ग्रंथे) महाकाव्ये चतुर्विंशतिसहस्र-श्लोकाः सन्ति। अनेन रामायणं ‘चतुर्विंशति-साहस्री संहिता’ इति नाम्ना अपि प्रसिद्धम् अस्ति। अस्य भाषा अति सरला मधुरा च अस्ति। रामायणे कविना यद् वर्णनं कृतम् तत् सर्वत्रम् अलौकिकम् अस्ति। महर्षि वाल्मीकिः श्री रामस्य वर्णनम् अवताररूपे न कृत्वा केवलं मर्यादा पुरूषोत्तम रूपे कृतवान् अस्ति।
(अ) एकपदेन उत्तरत-(केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) लौकिकसाहित्यस्य प्रथमः ग्रन्थः किम् अस्ति?
उत्तरः
रामायणम्
(ii) आदिकविः कः आसीत्?
उत्तरः
वाल्मीकिः
(iii) रामायणे कति श्लोकाः सन्ति?
उत्तरः
चतुर्विंशति-सहस्रं
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्न-द्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) रामायणे कस्य जीवनस्य -वृत्तान्तं वर्तते?
उत्तरः
रामायणे मर्यादा पुरुषोत्तमस्य श्रीरामस्य जीवनस्य वृतान्तं वर्तते।
(ii) रामायणं केन नाम्ना प्रसिद्धम् अस्ति?
उत्तरः
रामायण चतुर्विंशति सहस्री संहिता नाम्ना प्रसिद्धम् अस्ति ।
(iii) अयं ग्रन्थः कस्मिन् छन्दसि निबद्धः अस्ति?
उत्तरः
अयं ग्रन्थः अनुष्टुप् छन्दसि निबद्धः अस्ति।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तरः
आदिकाव्यं-रामायणम्। मर्यादापुरुषोत्तम रामस्य जीवनी।
(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) मर्यादा पुरुषोत्तमस्य रामचन्द्रस्य जीवनस्य वृत्तान्तं कुत्र वर्तते?
(क) महाभारते
(ख) गीतायां
(ग) रामायणे
उत्तरः
(ग) रामायणे
(ii) आदिकविः कः कथ्यते?
(क) कालिदासः
(ख) वाल्मीकिः
(ग) भवभूतिः
उत्तरः
(ख) वाल्मीकिः
(iii) ‘आदिकाव्यम्’ इति विद्वान्स: मन्यन्ते इत्यत्र मन्यन्ते इति क्रियापदस्य किं कर्तृपदम्?
(क) इति
(ख) विद्वान्सः
(ग) तस्य
उत्तरः
(ख) विद्वान्सः
(iv) ‘पुरुषोत्तमस्य’ इति पदस्य विशेष्यं गद्यांशात् चित्वा लिखत।
(क) रामचन्द्रस्य
(ख) रामायण:
(ग) वाल्मीके:
उत्तरः
(क) रामचन्द्रस्य
रचनात्मकं-कार्यम्
प्रश्न 2.
भवतः नाम मोहनः। भवतः विद्यालये वार्षिकोत्सवे ‘अभिज्ञान शाकुन्तलम्’ इति संस्कृत-नाटकस्य मञ्चनं भविष्यति। तदर्थं स्वमित्रं सोहनं प्रति लिखितं निमन्त्रणपत्रं मञ्जूषा पद सहायतया पूरयित्वा पुनः लिखत (½ × 10 = 5)
नवोदय विद्यालयः
(i) ………….
दिनाङ्कः
(ii) ………….
नमोनमः।
अत्र कुशलं (iii) …………. अस्माकं विद्यालये आगामी सप्ताहे विद्यालयस्य वार्षिकोत्सवस्य आयोजनं भविष्यति। तत्र ‘अभिज्ञानशाकुन्तलम्’ इति नाटकस्य (iv) …………. भविष्यति। अहं तस्मिन् नाटके (v) …………. करिष्यामि। अस्य कार्यक्रमस्य मुख्यातिथिः (vi) …………. भविष्यति। भवान् अवश्यमेव तत् (vi) …………. आगच्छतु। मम (vii) …………. भविष्यति। सर्वेभ्यः अग्रजेभ्यः मम (ix) …………. निवेद्यताम् इति।
भवदीयः वयस्यः
(x) ………….
मञ्जूषा-प्रणामाञ्जलिः, मोहनः, उत्साहवर्धनम्, तत्रास्तु, शिक्षानिदेशक, सोहन, मुम्बईतः, मञ्चनम्, अभिनयं, द्रष्टुम्।
उत्तरः
(i) मुम्बईतः
(ii) सोहन
(iii) तत्रास्तु
(iv) मञ्चनम्
(v) अभिनयं
(vi) शिक्षानिदेशकः
(vii) द्रष्टुम्
(vii) उत्साहवर्धनम्
(ix) प्रणामाञ्जलिः
(x) मोहनः।
प्रश्न 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत- (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा-विद्यालयः, प्रधानाचार्यः, छात्राः, प्रार्थनासभा, प्रात:काले, कुर्वन्ति, सुन्दर भवनम्।
अथवा
मञ्जूषायां प्रदत्तशब्दानां सहाय्येन निम्नलिखितं विषयं अधिकृत्य पञ्च संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
(मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
“मम मातृभूमिः”
मञ्जूषा-पोषणम्, स्वर्गादपि, येन-येन प्रकारेण, सत्यम्, मातृभूमिः, वन्दनीया।
उत्तरः
चित्रवर्णनम्
- अस्मिन् चित्रे विद्यालयस्य प्रार्थना सभा अस्ति।
- प्रार्थनासभायां प्रधानाचार्यः अपि प्रार्थनां करोति।
- अस्मिन् चित्रे दश बालकाः बालिकाः च तिष्ठन्ति।
- ते सर्वे छात्राः प्रातः काले ईश्वरस्य प्रार्थनां कुर्वन्ति।
- विद्यालयस्य भवनं अति सुन्दरम् अस्ति।
अथवा
- अस्माकं मातृभूमिः नाम “भारत” अस्ति।
- अस्माकं मातृभूमिः जनानाम् भरण-पोषणं कुर्वन्ति।
- “स्वर्गादपि गरीयसी” मातृभूमिः भवति।
- वयं सर्वदा येन-केन प्रकारेण मातृभूमिं रक्षिष्यामः।
- “अहर्निशं” सत्यं अस्माभिः इयं माता वन्दनीया।
प्रश्न 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य, लिखत-(केवलं पञ्चवाक्यम्, रचनात्मकम्) (1 × 5 = 5)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए)
(केवल पाँच वाक्य)
(i) मैं पिताजी के साथ घर जाता हूँ।
I go home with my father.
उत्तरः
अहं जनकेन सह गृहं गच्छामि।
(ii) मित्र पत्र लिखते हैं।
Friends write a letter
उत्तरः
मित्राणि पत्राणि लिखन्ति।
(iii) विद्यालय के चारों ओर फूल हैं।
There are flowers around the school.
उत्तरः
विद्यालयम् परितः पुष्पाणि सन्ति।
(iv) सीता गीत गाती है।
Seeta sings a song.
उत्तरः
सीता गीतं गायति।
(v) कल तुम कहाँ जाओगे?
Where will you go tomorrow?
उत्तरः
श्वः त्वम् कुत्र गमिष्यसि?
(vi) बच्चे गेंद से खेलते हैं।
Children play with ball.
उत्तरः
बालकाः कन्दुकेन क्रीडन्ति।
(vii) मेरी माँ एक परिश्रमी महिला है।
My mother is a hard-working woman.
उत्तरः
मम जननी एका उद्यमिनी महिला अस्ति।
पठित-अवबोधनम्
प्रश्न 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
यूयम् सर्वे एव मे सन्ततयः। कथं मिथः कलहं कुरुथ। वस्तुतः सर्वे वन्यजीविनः अन्योन्याश्रिताः। सदैव स्मरत-ददाति प्रतिगृहणाति, गुह्यमाख्याति पृच्छति। भुङ्क्ते भोजयते चैव षड्-विधं प्रीतिलक्षणम्।।
(सर्वे प्राणिनः समवेतस्वरेण)
मातः! कथयति तु भवती सर्वथा सम्यक् परं वयं भवर्ती न जानीमः। भवत्याः परिचयः कः?
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(i) ‘यूयम् सर्वे एव मे सन्ततयः इति का कथयति?
उत्तरः
एकपदेन
(ii) के अन्योन्याश्रिताः भवन्ति?
उत्तरः
प्रकृतियाता
(iii) कतिविधं प्रीतिलक्षणम्?
उत्तरः
षड्-विधं
(आ) पूर्णवाक्येन उत्तरत-(केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(i) के मिथः कलहं कुर्वन्ति?
उत्तरः
सर्वे वन्यजीवितः मिथः कलहं कुर्वन्ति।
(ii) किं स्मरणीयम्?
उत्तरः
सदैव षड्-विधं प्रीतिलक्षणम् स्मरणीयम्।
(iii) के न जानन्ति प्रकृतिमातरं?
उत्तरः
सर्वे वन्यजीवितः प्रकृतियातरं न जानन्ति।
प्रश्न 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(i) वाचि का भवेत्?
उत्तरः
अवक्रता
(ii) अवक्रता कुत्र भवेत्?
उत्तरः
चित्ते
(iii) महात्मानः किम् आहुः?
उत्तरः
समत्वम्
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) चित्ते इव कुत्र अवक्रता भवेद्?
उत्तरः
चित्ते इव वाचि अवक्रता भवेत्।
(ii) केनरूपेण महात्मानः समत्वम् आहुः?
उत्तरः
तथ्यतः महात्मानः समत्वम् आहु।
(iii) यथार्थरूपेणं इति पदस्य किं समानार्थकं पदं प्रयुक्तम्?
उत्तरः
तथ्यः इति समानार्थकं पदं प्रयुक्तम्।
प्रश्न 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
पिकः – अलम् अलम् अतिविकत्थनेन। किं विस्मर्यते यत्काकः
कृष्णः पिकः कृणः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
काकः- रे परभृत् ! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिका:? अतः अहम् एव करुणापरः पक्षिसम्राट काकः।
गजः – समीपतः एवागच्छन् अरे! सर्वं सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द के अन्तर लिखिए।) (केवल दो प्रश्न)
(i) “अलम् अलम् अतिविकत्थनेन” इति कः कथयति?
उत्तरः
पिकः
(ii) कदा काकः काकः पिक:पिकः?
उत्तरः
वसन्तसमये
(iii) अहम् एव करुणापरः इति कस्य कथनम्?
उत्तरः
काकस्य
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) गजः कीदृशः भवति?
उत्तरः
गजः विशालकायः बलशाली, पराक्रमी च भवति।
(ii) पिककाकयोः भेद कदा ज्ञायते?
उत्तरः
पिककाकयोः भेदः वसन्तसमये प्राप्ते ज्ञायते।
(iii) सर्वं सम्भाषणं शृण्वन् कः आगच्छत?
उत्तरः
सर्वं सम्भाषणं शृण्वन् गजः आगच्छत्।
प्रश्न 8.
मञ्जूषातः समुचित-पदानि चित्वा अधोलिखित श्लोकयोः अन्वयं पूरयत- (1 × 2 = 2)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा कीजिए।)
यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च॥
अन्वयः (i) …………. आत्मनः श्रेयः प्रभूतानि सुखानि (ii) …………. सः च परेभ्यः (iii) …………. कर्म कदापि न (iv) ………….
[मञ्जूषा-अहितं, कुर्यात्, यः, इच्छति]
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से श्लोक के भावार्थ से रिक्त स्थानों को पूरा करके पुनः लिखिए।)
गुणी गुणं वेत्ति न वेत्ति निर्गुणो, बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः, करी च सिंहस्य बलं न मूषकः॥
भावार्थ:-गुणवान् जनः एव (i) …………. महत्त्वं जानाति । गुणहीनं गुणानां महत्त्वं न अवगच्छति। तथैव (ii) …………. जनः बलस्य महत्वं जानाति, परन्तु दुर्बल: महत्वं न अवगच्छति। वसन्त-ऋतोः महत्त्वं कोकिलः एव सम्यक् (iii) …………. शक्नोति न तु काकः। एवमेव गजः सिंहस्य (iv) ………….. महत्त्वं जानाति । मूषकः तस्य शौर्यम् अवगन्तुं न शक्नोति।
[मञ्जूषा-अवगन्तुम्, बलवान्, पराक्रमस्य, गुणानाम्]
उत्तरः
अन्वय
(i) यः
(ii) इच्छति
(iii) अहितं
(iv) कुर्यात्।
अथवा
(i) गुणानाम्
(ii) बलवान्
(iii) अवगन्तुम्
(iv) पराक्रमस्य
प्रश्न 9.
अधोलिखित-कथांशं समुचित-क्रमेण लिखत (2 × 8 = 4)
(निम्नलिखित कथांश को समुचित क्रम में लिखिए।)
(i) ग्रामवासिनः वराकमतिथिमेव च चौरं मत्वाऽभर्त्तयन्।
(ii) सर्वं वृत्तांतम् अवगत्य न्यायाधीशः तं निर्दोषम् अमन्यत आरक्षिणं च दोषी।
(iii) शवः प्रावारकमपसार्य सर्वं वृतान्तं निवेदितवान्।
(iv) पार्श्वस्थिते ग्रामे करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(v) विचित्र युक्त्या न्यायाधीशः निर्णयं कृत्वा तं जनं ससम्मानं मुक्तवान्।
(vi) कश्चन चौरः रात्रौ तस्मिन् गृहे प्रविष्य मञ्जूषामेकां आदाय पलायितः।
(vii) निर्धनः जनः सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्।
(viii) निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा।
उत्तरः
(vii) निर्धनः जनः सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्।
(viii) निशान्धकारे प्रसृते विजने प्रदेशे पद यात्रा न शुभावहा।
(iv) पावस्थिते ग्रामे करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(vi) कश्चन चौरः रात्रौ तस्मिन् गृहे प्रविश्य मञ्जूषामेकां आदाय पलायितः।
(i) ग्राम वासिनः वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्।
(iii) शवः प्रावारकमपसार्य सर्वं वृतान्तं निवेदितवान्।
(ii) सर्वं वृत्तांतम् अवगत्य न्यायाधीशः तं निर्दोषम् अमन्यत आरक्षिणं च दोषी।
(v) विचित्र युक्त्या न्यायाधीशः निर्णयं कृत्वा तं जनं ससम्मानं मुक्तवान्।