Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 2 Set 2 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 2 with Solutions
समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40
प्रश्नपत्रस्वरूपम :
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
- उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (10)
सूर्यवंशे सर्वप्रथमं मनु म नृपः अभवत्। तस्य कुले एव दिलीपः इति ख्यातनामा राजा समुत्पन्नः। राजा दिलीपः सर्वेषां विषयाणां ज्ञाता आसीत् तथापि सः सर्वदा अभिमानरहितः, पराक्रमी, परिश्रमी, क्षमाशीलः आसीत् । दिलीपः न्यायपूर्वकं पितृवत् च प्रजापालनं करोति स्म। सः प्रजायाः रक्षणे सर्वदा उद्यतः भवति स्म। अतः सः एव प्रजायाः पिता आसीत्। राजा दिलीपः यदा चिरं सन्ततिं न अलभत तदा तं गुरुवशिष्ठः सन्ततिं प्राप्तुं कामधेनोः पुत्र्याः नन्दिन्याः सेवार्थम् आदिशत्। दिलीपः स्वभार्यया सह एकविंशतिः दिवसपर्यन्तं गोसेवाम् अकरोत्। द्वाविंशतितमे दिने एकः सिंहः नन्दिनीम् आक्राम्यत्। दिलीप: गोरक्षायै स्वशरीरं समर्पयितुम् उद्यतः अभवत्। प्रसन्ना नन्दिनी तस्मै सन्तते: वरम् अयच्छत्।
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (एक पद में उत्तर दीजिए) (केवल दो प्रश्न) (1 × 2 = 2)
(i) दिलीपः कया सह गोसेवाम् अकरोत् ?
उत्तरः
भार्यया
(ii) दिलीपः किमर्थं स्वशरीरं समर्पयितुम् उद्यतः अभवत् ?
उत्तरः
गोरक्षायै
(iii) सूर्यवंशे सर्वप्रथमं कः नृपः अभवत् ?
उत्तरः
मनुः! मनुर्नाम
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (पूर्ण वाक्य में उत्तर दीजिए) (केवल दो प्रश्न) (2 × 2 = 4)
(i) गुरुवशिष्ठः किमर्थं नन्दिन्याः सेवार्थम् आदिशत्?
उत्तरः
गुरुः वशिष्ठः सन्ततिं प्राप्तुं राजानं दिलीप
नन्दिन्याः सेवार्थम् आदिशत्।
(ii) दिलीपः कथं प्रजापालनं करोति स्म?
उत्तरः
दिलीपः न्यायेन धर्मेण च पितृवत् प्रजापालनं करोति स्म।
(iii) दिलीपः कति दिवसपर्यन्तं गोसेवाम् अकरोत् ?
उत्तरः
दिलीपः एकविंशति-दिवसपर्यन्तं गोसेवाम् अकरोत्।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (द्वित्रिशब्दात्मक वाक्यम्) (इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए) (दो तीन शब्द के वाक्य संस्कृत में लिखिए) (1)
उत्तरः
दिलीप:/राजादिलीप:/
अथवा
अन्यः कोऽपि समुचितः
(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘आक्राम्यत्’ इत्यस्याः क्रियायाः कर्तृपदं किम्?
(क) दिलीपः
(ख) वशिष्ठः
(ग) सिंहः
उत्तरः
(ग) सिंहः
(ii) ‘क्षमाशीलः’ इति पदस्य विशेष्यं गद्यांशात् चित्वा लिखत।
(क) वशिष्ठः
(ख) दिलीप:
(ग) पराक्रमी
उत्तरः
(ख) दिलीप:
(iii) ‘वंशे’ इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
(क) कुले
(ख) सन्ततेः
(ग) चिरम्
उत्तरः
(क) कुले
(iv) अनुच्छेदे ‘अलसः’ पदस्य कः विपर्ययः आगतः?
(क) क्षमाशीलः
(ख) परिश्रमी
(ग) पराक्रमी
उत्तरः
(ख) परिश्रमी
रचनात्मकं-कार्यम्
प्रश्न 2.
भवान् अभिनवः। भवान् पितुः स्थानान्तरणवशात् असमप्रदेशम् आगतः। स्थानान्तरण-प्रमाणपत्रं प्राप्तुं प्रधानाचार्यां प्रति लिखिते प्रार्थनापत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु। (½ × 10 = 5)
सेवायाम्
माननीया (i) ………………….
डी. ए. वी.
विद्यालयः
नवदेहली।
विषयः-स्थानान्तरण-प्रमाणपत्रं प्राप्तुं प्रार्थनापत्रम्।
महोदये!
(ii) ………….. निवेदनम् अस्ति यद् अहं भवत्याः विद्यालये नवमकक्षायां (iii) ………….. । मम पितुः (iv) …………… असमप्रदेशस्य गौहाटीनगरे सञ्जातम्। मम सम्पूर्णः परिवारः तत्रैव गत्वा निवासं (v) …………..। अहम् अपि (vi) ………….. सह गत्वा तत्रैव (vii) ………….. । अतः अहं प्रार्थये यत् कृपया मह्यं स्थानान्तरणपत्रं (viii) ………….. अनुगृह्णातु। भवत्याः (ix) ………….. कृपा भविष्यति। धन्यवादः।
भवत्याः (x)……… शिष्यः
अभिनवः
नवमकक्षास्थः
मञ्जूषा
अनुक्रमाङ्कः-3
दिनाङ्कः …………..
[मञ्जूषा-सविनयम्, पठामि, प्रधानाचार्या, परिवारेण, करिष्यति, प्रदाय, स्थानान्तरणम्, पठिष्यामि, महती, आज्ञाकारी।]
उत्तरः
(i) प्रधानाचार्या
(ii) सविनयम्
(iii) पठामि
(iv) स्थानान्तरणम्
(v) करिष्यति
(vi) परिवारेण
(vi) पठिष्यामि
(viii) प्रदाय
(ix) महती
(x) आज्ञाकारी
प्रश्न 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मञ्जूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा-द्वे, बालिके, बहवः, नीत्वा, लोकाः, इतस्ततः, मेलकम्, श्वेतवस्त्रम्, श्यामवस्त्रम्, गोलचक्रिका, उपविशन्ति, अनुभवन्ति, आनन्दम्, बहिः, दृश्यम्
अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत। (रचनात्मकानि पञ्चवाक्यानि-चिन्तनात्मकप्रश्नः)
(मंजूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
“देशभक्ति ”
मञ्जूषा – स्वमातृभूमिः भावना, सैनिकाः, रक्षकाः, स्वतन्त्रतायाः, राष्ट्रम्, संस्कृति, रक्षाम्, कुर्वन्ति, भारतीयाः, विचाराः, वीराः, माता, मानवम्, आत्म बलिदानम्
उत्तरः
चित्रवर्णनम्:
अत्र छात्रेभ्यः संक्षिप्तवाक्यरचना अपेक्षिता वर्तते। केवलं वाक्यशुद्धिः दृष्टव्या। अस्य प्रश्नस्य प्रमुखम् उद्देश्य वाक्यरचना अस्ति। वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्त्वपूर्णं नास्ति। प्रतिवाक्यम् अर्धः अङ्कः भावस्य कृते अर्धः अङ्कः च व्याकरणदृष्ट्या शुद्धतानिमित्तं निर्धारितः अस्ति। मञ्जूषायां प्रदत्ताः शब्दाः सहायतार्थं सन्ति। छात्रः तेषां वाक्येषु प्रयोगं कुर्यादेव इति अनिवार्यं नास्ति। छात्रः स्वमेधया अपि वाक्यानि निर्मातुं शक्नोति। मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवृत्य अपि वाक्यनिर्माणं कर्तुं शक्यते।
- इदं मेलकस्य चित्रम् अस्ति।
- अत्र गोलचक्रिका दृश्यते।
- अत्र आनन्दम् अनुभवन्ति।
- द्वे बालकौ इतस्ततः धावतः।
- जनाः श्वेतवस्त्रम् श्यामवस्त्रं च धारयन्ति।
अथवा
अयं विकल्पः सर्वेभ्यः अस्ति। छात्राः मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवृत्य अपि वाक्यनिर्माणं कर्तुं शकुन्वन्ति। अतः अङ्काः देयाः। प्रत्येकं वाक्यनिमित्तम् अङ्कमेकम् इति। अस्य मूल्याङ्कनाय अन्ये नियमाः चित्रवर्णनस्य अनुगुणं पालनीयाः।
- इयं स्वमातृभूमिः।
- सैनिकाः देशस्य स्वतन्त्रतायाः रक्षां कुर्वन्ति।
- माता भूमिः पुत्रोऽहं पृथिव्या।
- अस्माकं संस्कृतिः देशभावना जागृस्यति।
- भारतीयाः स्वतंत्रतायाः रक्षकाः आत्म बलिदानं दत्तवन्तः।
प्रश्न 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं वाक्यपञ्चकम्) 1 × 5 = 5
(i) उद्यान में फूल खिल रहे हैं।
Flowers are blooming in the garden.
उत्तरः
उद्याने पुष्पाणि विकसन्ति ।
(ii) मेरे पास पाँच फल हैं।
Thave five fruits.
उत्तरः
मम समीपे पञ्च फलानि सन्ति।
(iii) दिल्ली भारत की राजधानी है।
Delhi is the capital of India.
उत्तरः
दिल्ली/देहली भारतस्य राजधानी अस्ति।
(iv) कल हम दोनों गोवा गए थे।
Both of us went to Goa yesterday.
उत्तरः
ह्यः आवां गोवानगरम् अगच्छाव/गतवन्तौ।
(v) कृपया तुम मेरे लिए पानी लाओ।
Please bring water for me.
उत्तरः
कृपया त्वं मह्यं/मदर्थं जलम् आनय।
(vi) शनिवार को मैं उत्सव में जाऊँगा।
I will go to festival on Saturday.
उत्तरः
शनिवासरे अहम् उत्सवं गमिष्यामि।
(vii) अब तुम्हें पढ़ना चाहिए।
You should study now.
उत्तरः
अधुना त्वं पठेः अथवा अधुना त्वया पठनीयम्/ पठितव्यम्।
पठित-अवबोधनम्
प्रश्न 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (3)
अरे! अरे! मां विहाय कथमन्यः कोऽपि राजा भवितुमर्हति। अहं तु शीतले जले बहुकालपर्यन्तम् अविचल: ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि, योजना निर्मीय च स्वसभायां विविधपदमलंकुर्वाणैः जन्तुभिश्च मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यामि, अतः अहमेव वनराजपदप्राप्तये योग्यः।
(अ) एकपदेन। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(i) शीतले जले बहुकालपर्यन्तम् कः तिष्ठति?
उत्तरः
बकः
(ii) बकः कस्मै पदप्राप्तये योग्यः?
उत्तरः
वनराजपदप्राप्तये
(iii) कं विहाय कोऽपि राजा भवितुमर्हति ?
उत्तरः
बकं
(आ) पूर्णवाक्येन। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) बकः किं कथयति स्वविषये?
उत्तरः
बकः स्वविषये कथयति इति अहं तु शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञ इव स्थातुं शक्नोमि।
(ii) बकः किं चिन्तयति?
उत्तरः
बकः सर्वेषां रक्षायाः उपायान् चिन्तयति।
(iii) अस्मिन् गद्यांशे कः वक्ता?
उत्तरः
अस्मिन् गद्यांशे वकः कथयति।
प्रश्न 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति॥
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति॥
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न) (½ × 2 = 1)
(i) अत्र किम् अकारणं द्वेषि उक्तम्?
उत्तरः
मनः
(ii) किम् उद्दिश्य यः प्रकुप्यति?
उत्तरः
निमित्तम्
(ii) कस्य अपगमे मनुष्यः प्रसीदति?
उत्तरः
निमित्तस्य
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) मनुष्यः कदा ध्रुवं प्रसीदति ?
उत्तरः
मनुष्य: निमित्तस्य अपगमे ध्रुवं प्रसीदति।
(ii) कं जनः कथमपि न परितोषयिष्यति?
उत्तरः
जनः अकारणद्वेषि मनस्तु परितोषयिष्यति।
(iii) ‘मनस्तु’ इतिपदस्य सन्धि विच्छेदं का।
उत्तरः
मनः + तु इति विच्छेदः।
प्रश्न 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (3)
मयूरः-(वृक्षोपरितः- अट्टहासपूर्वकम्) विरम, विरम,
आत्मश्लाघायाः किं न जानासि यत
यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥
को न जानाति तव ध्यानावस्थाम्। ‘स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम् । तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्।
वानरः-(सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।
मयूर:- अरे वानर! तूष्णी भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं मां वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना। यतः कथं कोऽप्यन्य: विधातुः निर्णयम् अन्यथाकर्तुं क्षमः?
काकः-(सव्यङ्ग्यम्) अरे अहिभुक् ! नृत्यातिरिक्तं का तव विशेषता यत् त्वां वनराजपदाय योग्यं मन्यामहे वयम्।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) कः सगर्वं वदति?
उत्तरः
वानरः
(ii) नाट्यांशे कः श्लोकं वदति?
उत्तरः
मयूरः
(iii) ‘अरे वानर ! तूष्णीं भव।’ इति कः कथयति?
उत्तरः
मयूरः
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) विधात्रा मयूरः कथं पक्षिराजः कृतः?
उत्तरः
शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एव मयूरः पक्षिराजः कृतः।।
(ii) काकः किं वदति?
उत्तरः
काकः (सव्यङ्ग्यम्)-“अरे अहिभुक्! नृत्यातिरिक्तं का तव विशेषता यत् त्वां वनराजपदाय योग्यं मन्यामहे वयम्।” इति वदति।
(iii) वानरः (सगर्व) किं वदति ?
उत्तरः
वानरः (सगर्व) “अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः” इति कथयति।
प्रश्न 8.
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयत- (½ × 4 = 2)
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥
अन्वयः-यः (i) ………… वाचम् त्यक्त्वा परुषाम् वाचम् (ii) ………… (सः) विमूढधीः पक्वम् (फलम्) (iii) ………… अपक्वम् फलम् (iv) …………. ।
[मञ्जूषा-अभ्युदीरयेत्, भुङ्क्ते, धर्मप्रदाम्, परित्यज्य]
अथवा-भावार्थः
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनःलिखत –
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
भावार्थ:-अस्य भावोऽस्ति यत् ………… वर्णः कृष्णः वर्तते पिकस्य अपि वर्ण ………… एव अस्ति। अतः तयोः पिके काके च कः भेदः अस्ति अर्थात् वर्णदृष्ट्या तयोः कश्चिद् भेदो न दृश्यते। परन्तु यदा ………… समयः आगच्छति तदा तयोः स्वरैः ज्ञायते यत् क ………… अस्ति कश्च पिको वर्तते।
[मञ्जूषा-वसन्तस्य, काकस्य, काकः, कृष्णः]
उत्तरः
(i) धर्मप्रदाम्
(ii) अभ्युदीरयेत्
(iii) परित्यज्य
(iv) भुते
अथवा
भावार्थे रिक्तस्थानपूर्तिः
अस्य भावोऽस्ति यत् काकस्य वर्णः कृष्णः वर्तते पिकस्य अपि वर्णः कृष्णः एव अस्ति। अतः तयोः पिके काके च कः भेदः अस्ति अर्थात् वर्णदृष्ट्या तयोः कश्चिद् भेदो न दृश्यते। परन्तु यदा वसन्तस्य समयः आगच्छति तदा तयोः स्वरैः ज्ञायते यत् कः काकः अस्ति कश्च पिको वर्तते।
प्रश्न 9.
अधोलिखित-कथांशं समुचितक्रमेण लिखत (½ × 8 = 4)
(निम्नलिखित कथांश को समुचित क्रम में लिखिए।)
(i) तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
(ii) चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽय” चौरोऽयम् इति।
(iii) चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृहणाच्च, परं विचित्रमघटत।
(iv) तस्यामेव रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(v) विवित्रा दैवगतिः।
(vi) तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्ल्सयन्।
(vii) तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(vii) यद्यपि ग्राम्स्य आरक्षी एव चौर आसीत।
उत्तरः
(v) विचित्रा दैवगतिः।
(iv) तस्यामेव रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(i) तत्र निहितामेकां मञ्जूषां आदाय पलायितः।
(iii) चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत।
(ii) चौरः एव उच्चैः, क्रोशितुमारभत “चौरोऽयं चौरोऽयं इति।”
(vi) तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्।
(vii) यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्।
(vii) तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।