Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit Communicative with Solutions Set 8 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Communicative Set 8 with Solutions
अवधि: – होरात्रयम्
पूर्णाङ्काः – 80
सामान्यनिर्देशा:-
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 पृष्ठानि मुद्रितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः भागाः सन्ति-
- ‘क’ भागः – अपठितावबोधनम् (10 अङ्काः)
- ‘ख’ भागः – रचनात्मक कार्यम् (15 अङ्काः)
- ‘ग’ भागः – अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
- ‘घ’ भागः – पठितावबोधनम् (30 अङ्काः)
- प्रत्येकं भागम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः।
- प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् एवं लेखनीयः।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
भाग ‘क’ – अपठित अवबोधनम् (10 अंङ्काः)
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत- (10)
महान् स्वतन्त्रतासेनानीः स्वतन्त्र भारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च लौहपुरुष सरदार वल्लभभाईपटेलमहोदयः 1875 तमे वर्षे अक्तूबरमासस्य एकत्रिंशत- दिनाङ्के जन्म अलभत। प्रान्तानाम् एकीकरणे केन्द्रीयां भूमिकां निर्वहन् पटेलमहोदयः अद्यापि सर्वेषां भारतवासिनां श्रद्धाभाजनम्। पटेलमहोदयं प्रति कृतज्ञतां प्रकटयितुं गुजरातप्रान्तस्य तत्कालीनः मुख्यमन्त्री नरेन्द्रमोदीमहोदयः 2013 तमे वर्षे अक्तूबरमासस्य एकत्रिंशद्-दिनाङ्के तस्य मूर्तेः शिलान्यासं कृतवान्। अस्याः विशालकायायाः मूर्तेः निर्माण पञ्चवर्षाणां कालः उपयुक्तः। तस्यैव जन्मदिवसे अक्तूबरमासस्य एकत्रिंशद् दिनाङ्के एव भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन मूर्तिरियं राष्ट्राय समर्पिता। इयं प्रतिमा एकतायाः मूर्ति (स्टैच्यू ऑफ लिबर्टी) इति नाम्ना ख्याता अस्ति । इदं स्मारकं सरदार सरोवरबन्धतः प्रायश: त्रिकिलोमीटरमिते दूरे साधूबेरनामके उपद्वीपे स्थितमस्ति। अस्याः प्रतिमायाः उच्चता द्वयशीत्यधिकशतमीटरमिता (182मी. 1597 फीट) अस्ति। इयं विश्वस्य उच्चतमा मूर्तिः अस्ति। मूर्तेः उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतित्वस्य च उच्चतायाः सूचिका वर्तते।
(अ) एकपदेन उत्तरत-
(i) भारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च कः आसीत्?
(ii) पटेलमहोदयः कस्मिन् केन्द्रीयां भूमिकां निव्यढवान्?
(iii) नरेन्द्रमोदीमहोदयेन मूर्तिः कस्मै समर्पिता?
उत्तर:
(i) सरदार वल्लभभाई पटेलः
(ii) प्रान्तानाम् एकीकरणे
(iii) राष्ट्राय
(आ) पूर्णवाक्येन उत्तरत-
(i) कः सर्वेषां भारतीयानां श्रद्धाभाजनम्?
(ii) मूर्ते: उच्चता किं सूचयति?
(iii) पटेलमहोदयस्य प्रतिमा केन नाम्ना ख्याता?
उत्तर:
(i) पटेलमहोदयः सर्वेषां भारतीयानां श्रद्धाभाजनम्।
(ii) मूर्ते: उच्चता पटेलमहोदयस्य व्यक्तित्वस्य सूचिका।
(iii) ‘एकतायाः मूर्ति:’ इति।
(इ) अनुच्छेदस्यास्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
शीर्षक: – ‘एकतायाः मूर्तिः’।
(ई) यथानिर्देशं प्रश्नान् उत्तरत-
(i) ‘केन्द्रीयां भूमिकां निर्वहन् पटेलमहोदयः’ इत्यनयोः पदयोः किं विशेष्यपदम्?
(A) केन्द्रीयां
(B) भूमिकां
(C) निर्वहन्
(D) पटेलमहोदय:
उत्तर:
(B) भूमिकाम्
![]()
(ii) ‘तस्यैव जन्मदिवसे समर्पिता’? इत्यस्मिन् वाक्ये तस्य इति सर्वनामपदं कस्मै प्रयुक्तम्?
(A) पटेल महोदयाय
(B) महात्माय
(C) जनाय
(D) लोभाय
उत्तर:
(A) पटेल महोदयाय
(iii) “महान् स्वतन्त्रतासेनानीः जन्म अलभत्” इत्यस्मिन् वाक्ये किं क्रियापदम्?
(A) महान्
(B) स्वतन्त्रतासेनानी:
(C) अलभत्
(D) जन्म
उत्तर:
(C) अलभत्
भाग ‘ख’ – रचनात्मक कार्यम् (15 अंङ्का)
प्रश्न 2.
भवान् दिल्लीवासी सुरेशः अस्ति। स्वमित्रं शुभम स्वभगिन्याः विवाहे निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत- (5)
दिल्लीत:
दिनाङ्कः __________________
प्रियमित्र शुभम!
सस्नेहं (i) __________________
अत्र कुशलं तत्रास्तु भवान् इदं (ii) __________________ अत्यधिक प्रसन्नः भविष्यति यत् मम (iii) __________________ दिव्यायाः विवाहः विजयनगरनिवाशी श्रीवेदप्रकाशस्य पुत्रेण (iv) __________________ सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) __________________ सायं सप्तवादने आगमिष्यति। अस्मिन् मङ्गलावसरे भवान् सपरिवारः सादरं निमन्त्रितः। भवता स्वपरिवारेण सह विवाहत: (vi) __________________ पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) __________________ अपि करणीयम्। भवतः उपस्थिति: (viii) __________________ उत्साहं विश्वासं च वर्धिष्यते। इतोऽपि भवतः दिल्लीदर्शनस्य
इच्छासिद्धिः अपि (ix) __________________ । गृहे पितृभ्यां मम प्रणामाः।
भवतः (x) __________________
राजेन्द्रः
मञ्जूषा – भविष्यति, मम, नमः, वरयात्रा, राकेशेन सहाय्यम्, भगिन्याः, अभिन्नहृदयः, त्रिदिनानि, ज्ञात्वा
उत्तर:
(i) नमः
(ii) ज्ञात्वा
(iii) भगिन्याः
(iv) राकेशेन
(v) वरयात्रा
(vi) त्रिदिनानि
(vii) सहाय्यम्
(viii) मम
(ix) भविष्यति
(x) अभिन्नहृदयः
प्रश्न 3.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायाः सहायतया पञ्च वाक्यानि रचय- (5 × 1 = 5)

मञ्जूषा – छत्रविक्रेता, समीकरोति, आपणिकः, बालिका, विद्यालयस्य, वेशभूषा, वृक्षा:, पश्यति, ग्राहक:
उत्तर:
संभावित-वाक्या:-
- विद्यालयस्य समीपे छत्रविक्रेता आपणिकः उपविष्टः अस्ति।
- सः आपल्या समीकरोति तथा ग्राहकेभ्यः छत्रं विक्रीणाति।
- एक ग्राहकः छत्रं पश्यति।
- तत्र बालिका विद्यालयस्य वेशभूषायुक्ता तिष्ठति।
- वृक्षाः छायां ददति, तत्रैव सर्वे मिलित्वा तिष्ठन्ति।
अथवा
‘परोपकारः’ इत्यस्मिन् विषये मञ्जूषायाः सहायतया संस्कृतभाषायां एकं अनुच्छेदं लिखत’
मञ्जूषा – परेषाम्, उपकारः, धनेन दानेन सर्वेषाम् प्राणिनाम्, कर्तव्यम्, हितम्, भवति, प्रकृतिः
उत्तर:
संभावित वाक्या-
- परोपकारः नाम परेषाम् उपकारः भवति।
- परोपकारः सर्वेषां प्राणिनां कर्तव्यम् अस्ति।
- सः धनेन दानेन च साध्यते।
- परोपकारेण सर्वेषाम् हितम् भवति।
- परोपकारः एव मानवस्य श्रेष्ठा प्रकृतिः इति मन्यते।
![]()
प्रश्न 4.
अधोलिखित-कथां मञ्जूषायाः सहायतया पूरयत- (10 × ½ = 5)
एकदा केचन शिष्याः (i) __________________ कुर्वन्ति स्म। तदैव एकः गजः महता वेगेन तस्मिन् (ii) __________________ आगच्छत्। गजस्य उपरि उपविष्टः (iii) __________________ उच्चस्वरेण पुनः पुनः घोषयति स्म अपसरन्तु, अपसरन्तु इति। सर्वे (iv) __________________ धावितवन्तः। यथा सर्वेषु वस्तुषु (v) __________________ अस्ति तथा गजे अपि इति विचिन्त्य एकः शिष्यः तत्रैव स्थितवान्। तावति काले गजः तं (vi) __________________ गृहीत्वा दूरे क्षिप्तवान्। शिष्याः मूर्चितं तं गुरुकुलम् अनयन्। (vii) __________________ तं गुरुः अपृच्छत् “वत्स! त्वम् एवं किमर्थम् आचरः इति।” शिष्यः अवदत् – “गुरुवर्य। भवद्भ्यः एव (viii) __________________ यत् ईश्वरः सर्वेषु अस्ति, अतः अहम् गजे अपि ईश्वरं मत्वा तत्र (ix) __________________ इति।” गुरुः उक्तवान् वत्स! यथा गजे तथा हस्तिपके अपि ईश्वरः इति (x) __________________ न चिन्तितम् इति।”
मञ्जूषा – हस्तिपक, लब्धसंज्ञम्, कथम्, शिक्षितम्, भिक्षाटनम्, अतिष्ठम्, शिष्याः, ईश्वरः, स्वशुण्डेन, मार्गे।
उत्तर:
(i) भिक्षाटनम्
(ii) मार्गे
(iii) हस्तिपक
(iv) शिष्या:
(v) आत्मा
(vi) स्वशुण्डेन
(vii) लब्धसंज्ञम्
(viii) शिक्षितम्
(ix) अतिष्ठम्
(x) कथम्
अथवा
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत-
कृतिका – तव वस्त्राणि तु अतीव शोभन्ते।
मञ्जुला – (i) __________________
कृतिका – तव पार्श्वे कति परिधानानि सन्ति?
मञ्जुला – बहूनि नूतनपरिधानानि वर्तन्ते मम समीपे तथापि अहं विशेषावसरेषु नवीनपरिधानानां क्रयं करोमि।
कृतिका – (ii) __________________
मञ्जुला – अत्र-तत्र यदा-कदा अवसरेषु धारयिष्यामि। तव समीपे कति परिधानानि?
कृतिका – (iii) __________________
मञ्जुला – पुस्तकैः किं करिष्यसि?
कृतिका – पुस्तकानि एव अस्माकं मित्राणि सन्ति। अद्यत्वे दिल्लीनगरे पुस्तकमेलापकं वर्तते। तत्र गत्वा पुस्तकानि एव क्रेष्यामि।
मञ्जुला – (iv) __________________
कृतिका – परिधानेभ्यः किं भवति? परिधानानि तु जीवनाय एव सन्ति न तु जीवनं परिधानेभ्यः अस्ति। पुस्तकानि तु आजीवनम् उपकुर्वन्ति।
मञ्जुला – (v) __________________
मञ्जूषा
(i) किं पुस्तकैः परिधानस्य स्थानं नीयते?
(ii) किं करिष्यसि एभिः परिधान:?
(iii) साधु। एतत् तु मया न चिन्तितम्। अद्य आरभ्य अहम् अपि धनस्य सदुपयोगं पुस्तकेभ्यः एवं करिष्यामि न तु परिधानेभ्यः।
(iv) मम समीपे केवलं पञ्च परिधानानि सन्ति। अहं तैः सन्तुष्टा अस्मि। अहं तु पुस्तकप्रिया अस्मि।
(v) अये। अशा तु मम जन्मदिवसः, एतत् परिधानं तु मम माता महां क्रीत्तवती।
उत्तर:
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत-
(i) अये। अद्य तु मम जन्मदिवसः, एतत् परिधानं तु मम माता ममं क्रीत्तवती।
(ii) किं करिष्यसि एभिः परिधानैः?
(iii) मम समीपे केवलं पञ्च परिधानानि सन्ति। अहं तैः सन्तुष्टा अस्मि। अहं तु पुस्तकप्रिया अस्मि।
(iv) किं पुस्तकैः परिधानस्य स्थानं नीयते?
(v) साधु। एतत् तु मया न चिन्तितम्। अद्य आरभ्य अहम् अपि धनस्य सदुपयोगं पुस्तकेभ्यः एव करिष्यामि न तु परिधानेभ्यः।
भाग ‘ग’ – अनुप्रयुक्त-व्याकरणम् (25 अंङ्काः)
प्रश्न 5.
(अ) निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां सन्धिं विच्छेदं वा कृत्वा लिखत- (4 × 1 = 4)
(i) आचार: परमो धर्मः इति + एतत् विदुषां वचः।
(ii) षडेते पाठकगुणाः सन्ति।
(iii) अस्य श्लोकस्य पद + छेदं कुरु।
(iv) जगत्पतेः सृष्टिरेषा रमणीया।
उत्तर:
(i) इत्येतत्
(ii) षटू + एते
(iii) पदच्छेदम्
(iv) सृष्टि: + एषा
अथवा
(आ) अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (4)
(i) कार्यक्रमस्तु निश्चितमेव अस्ति।
(ii) निर्जने वने कः + अपि नासीत्।
(iii) अहम् अद्यैव तत्र गमिष्यामि।
(iv) पापिनाम् + च सदा दुखमेवं भवति।
उत्तर:
(i) कार्यक्रम + तु
(ii) कोऽपि
(iii) अद्य + एव
(iv) पापिनाञ्च
प्रश्न 6.
रेखाङ्कितपदानां समासं विग्रहं वा कृत्वा लिखत। (4 × 1 = 4)
(i) सरस्तीरे काकध्वनिः भवति।
(A) काकः ध्वनिः
(B) काकस्य ध्वनिः
(C) काकात् ध्वनि
(D) काकाय ध्वनिः
उत्तर:
(B) काकस्य ध्वनिः
(ii) धर्ममतिः प्रच्छन्नभाग्यः सकरुणम् उच्चौः अक्रन्दत्।
(A) करुणया सहितम्
(B) करुणेन सहितम्
(C) करुणाया: सहितम्
(D) करुणा सहितम्
उत्तर:
(A) करुणया सहितम्
(iii) वानराणां यूथ पाति इति सर्वान् वानरान् अवदत्।
(A) यूथपा
(B) यूथपति:
(C) यूथपौ
(D) यूथपः
उत्तर:
(B) यूथपति:
(iv) तस्य वचनम् अश्रद्धेयम अस्ति।
(A) न अश्रद्धेयम्
(B) न श्रद्धेयम
(C) श्रद्धेयम् न
(D) अनश्रद्धेयम्
उत्तर:
(B) न श्रद्धेयम
![]()
प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृति-प्रत्ययान् संयोग्य विभञ्ज्य वा लिखत। (4 × 1 = 4)
(i) दैवगति: विचित्र + टाप् अस्ति।
(A) वीचित्रा
(B) विचित्रा
(C) विचित्रम्
(D) विचीत्रा
उत्तर:
(B) विचित्रा
(ii) बक: मीनान् क्रूर + तल् खादति।
(A) क्रूरताया:
(B) क्रूरताम्
(C) क्रूरता
(D) क्रूरतया
उत्तर:
(D) क्रूरतया
(iii) धैर्यवान् मन्त्री कदापि न परिभूयते।
(A) धैर्य + इनि
(B) धैर्य + मतुप्
(C) धैर्य + ठक्
(D) धैर्य + तुप्
उत्तर:
(B) धैर्य + मतुप्
(iv) आ! किम् उक्तवती भवती?
(A) भवत् + ई
(B) भवत् + इनि
(C) भवत् + त्व
(D) भवत + ङीप्
उत्तर:
(D) भवत + ङीप्
प्रश्न 8.
(अ) वाच्यानुसार कोष्ठकेषु प्रदत्तपदैः रिक्तस्थानानि पूरयत। (3 × 1 = 3)
अखिल – सुमित! इदानी त्वया कि क्रियते?
सुमित – अखिल अधुना तु मया (i) __________________ क्रियते। का वार्ता?
अखिल – नास्ति विशेषः। (ii) __________________ क्रीडितु बहिः गम्यते, त्वमपि आगच्छ।
सुमित – न। श्वः मम परीक्षा भविष्यति अतः अद्य अहम् सम्पूर्णदिने पठामि।
अखिल – अस्तु, किन्तु त्वं किं पठसि?
सुमित – सामाजिक विज्ञानस्य परीक्षा भविष्यति अत मया सामाजिकविज्ञानविषय (iii) __________________
मञ्जूषा – अस्माभिः, पठ्यते, अध्ययनम्
उत्तर:
(i) अध्ययनम्
(ii) अस्माभिः
(iii) पठ्यते
अथवा
(आ) वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यानि पुनः लिखत- (3)
(i) त्वं पत्रं __________________ (लिख्)।
(ii) सुरेशेन आपणं __________________ (गम्)।
(iii) मया (पुस्तक) __________________ पठ्यन्ते।
उत्तर:
(i) लिखसि
(ii) गम्यते
(iii) पुस्तकानि
प्रश्न 9.
कालबोधकैः शब्दैः अधोलोखित दिनचर्यां पूरयत- (3 × 1 = 3)
(i) महिमा स्वगृहकार्यं कृत्वा प्रातः (8:30) __________________ वादने सेवार्थ स्वामिन, गृहं गच्छति।
(ii) (10:15) __________________ वादने सा अन्यद् गृहं गच्छति।
(iii) (12:00) __________________ वादने सा स्वगृहं गच्छति।
उत्तर:
(i) सार्धअष्ट
(ii) सपाददश
(iii) द्वादश
प्रश्न 10.
मञ्जूषायाः उचितैः अव्ययैः चित्वा रिक्तस्थानानि पूरयत- (4 × 1 = 4)
(i) अहम् मनसः निग्रह वायो: __________________ दुष्करं मन्ये।
(ii) तस्मात् प्राणेभ्यः __________________ सदाचार: विशेषत रक्षेत्।
(iii) __________________ सूपकाराणाम् मेषेण सह कलह वानाराणां विनाशकारणं भविष्यति।
(iv) अस्य याञ्चा वृथा __________________ अस्तु।
मञ्जूषा – अपि, मा, इव, नूनम्
उत्तर:
(i) इव
(ii) अपि
(iii) नूनम्
(iv) मा
प्रश्न 11.
निम्नवाक्येषु रेखाङ्कितपदानां संशोधनं कृत्वा पुनर्लिखत- (3 × 1 = 3)
(i) प्रबुद्धौ ते दम्पती आश्चर्येण अतिष्ठताम्।
(A) सा
(B) तौ
(C) ता
(D) तानि
उत्तर:
(B) तौ
(ii) कुमार्गं आश्रितस्य मम कीदृश: इयं क्लेशपरम्परा।
(A) कीदृशम्
(B) कीदृशा
(C) कीदृश्यः
(D) कीदृशी
उत्तर:
(D) कीदृशी
(iii) त्वं नर्तनात् अन्यत् किम् अपर जानाति?
(A) जानासि
(B) जानन्ति
(C) जानामि
(D) जानाति
उत्तर:
(A) जानासि
भाग ‘घ’ – पठितावबोधनम् (30 अंङ्काः)
प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)
दुष्टबुद्धिः तु तयोः वार्ता श्रुत्वा झटिति एव क्षेत्रं गतः। तत्र अश्वत्थमूलं खनित्वा तं सुवर्णकलशं प्राप्तवान्। यदा स तस्य आवरणम् अपसारयति तदैव भयङ्करम् एकं विषधरं फूत्कार कुर्वन्तं पश्यति। भीतः स कलशं पुनः आवृत्य तं च आदाय मित्रस्य गृहं समागतः। स्वमित्र सर्पेण मारयितुम् इच्छन् सः भित्तौ सन्धिं प्रकल्प्य तन्मध्यतः कलशं गृहाभ्यन्तरे क्षिप्तवान्।
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) सः गृहाभ्यन्तरे कि क्षिप्तवान्?
(ख) झटिति क्षेत्र कः गतः?
(ग) दुष्टबुद्धिः कस्य आवरणम् अपसारयति?
उत्तर:
(क) कलशम्
(ख) दुष्टबुद्धिः
(ग) कलशस्य
(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) दुष्टबुद्धिः कलश कथं प्राप्तवान्?
(ख) सः किम् इच्छन् कलश क्षिप्तवान्?
(ग) कलशम् आवृत्य दुष्टबुद्धिः कुत्र समागत:?
उत्तर:
(क) दुष्टबुद्धिः अश्वत्थमूलं खनित्वा सुवर्णकलशं प्राप्तवान्।
(ख) सः स्वमित्रं सर्पेण मारयितुम् इच्छन् कलशं क्षिप्तवान्।
(ग) कलशम् आवृत्य दुष्टबुद्धिः मित्रस्य गृहे समागतः।
(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) ‘पश्यति’ इति क्रियापदस्य कर्तृपदं किम्?
(ख) ‘भयङ्करम्’ इति पदस्य किं विशेष्यपदं प्रयुक्तम्?
उत्तर:
(अ) (क) दुष्टबुद्धिः।
(ख) विषधरः।
अथवा
(आ) निर्देशानुसारम् उत्तरत।
(क) ‘सर्पम्’ इति पदस्य किं पर्यायपदं प्रयुक्तम्?
(ख) ‘रिपो:’ इति पदस्य किं विलोमपदं अत्र प्रयुक्तम्?
उत्तर:
(क) विषधरः।
(ख) मित्रस्य।
![]()
प्रश्न 13.
अधोलिखितं पद्यान्ं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)
असशय महाबाहो! मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय! वैराग्येण च गृह्यते।।
अवक्रत्ता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहु महात्मानं समत्वमिति तथ्यतः।।
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) श्लोके श्रीकृष्णः क सम्बोधयति?
(ख) दुर्निग्रह किम् अस्ति?
(ग) यथा अवक्रता चित्ते भवति तथैव कुत्र भवेत्?
उत्तर:
(क) अर्जुनम्
(ख) मनः
(ग) वाचि
(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) चित्ते वाचि च अवक्रता भवेद् इति के मन्यन्ते?
(ख) मन: काभ्यां गृह्यते?
(ग) मनः कीदृशं भवति?
उत्तर:
(क) ‘चित्ते वाचि च अवक्रता भवेत्’ इति महात्मानः मन्यन्ते।
(ख) मनः अभ्यासेन वैराग्येण च गृह्यते।
(ग) मनः चञ्चलं दुर्निग्रहम् भवति।
(iii) (अ) निर्देशानुसारम् उत्तरत-
(क) स्थिरम् पदस्य विलोमपदं किम्?
(ख) ‘आहुः’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तर:
(क) चलम्।
(ख) महात्मानः।
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) मनसि इति पदस्य पर्यायपदम् किम्?
(ख) ‘वाणी’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
उत्तर:
(क) चित्ते।
(ख) वाचि।
प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत। (5)
राजीव – किम् एतत् कस्यचित् दुर्गस्य चित्रम्?
पर्यटनाधिकारी – आम् एतत् दिवांग उपत्यका अस्य अवशेषाः तु आर्यकला संस्कृति सम्पदः परिचायकाः। अधुना इदं चित्रं पश्यत। मण्डले स्थित भीष्मकनगरदुर्गम्।
शैलेश – अहं जानामि इदं स्थानम्। इदं तु तवांग / तवाङ्ग गोम्पा इति प्रसिद्ध बौद्धमठः।
पर्यटनाधिकारी – सम्यक अभिज्ञातम्। मनोहरे सुरम्ये तवाङ्ग इति स्थले राजते अय बौद्धमतः। पञ्चशतानाम् बौद्धभिक्षूणा निवासयोग्या स्थली इयम्। लोहितजनपदे अपि अनेके बौद्धविहाराः सन्ति।
नीलिमा – मान्यवर! मया अस्य प्रदेशस्य परशुरामकुण्डम इति दर्शनीयस्थलविषये अपि पठितम। किम इदम्?
पर्यटनाधिकारी – आम। एतत् कुण्ड तु लोहितनद्या: कीर्तिचन्द्रदूरे अस्ति। पूर्वम् इदं ब्रह्मकुण्डम् आसीत्। इद लोहितनद्याः उदगमस्थलम् इति मन्यते। अत्र अनेकानि अन्यानि दर्शनीयानि स्थलानि अपि सन्ति।
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) भीष्मकनगरदुर्ग कस्मिन् मण्डले स्थितम्?
(ख) कस्मिन् जनपदे अनेके बौद्धविहाराः सन्ति?
(ग) परशुरामकुण्ड कस्याः उद्गमस्थल मन्यते?
उत्तर:
(क) मण्डले
(ख) लोहितजनपदे
(ग) लोहितनद्या:
(ii) पूर्णवाक्येन उत्तत- (केवल प्रश्नद्वयम्) (2 × 1 = 2)
(क) भीष्मकनगरदुर्गस्य अवशेषा. कस्याः परिचायकाः सन्ति?
(ख) तवाङ्ग गोम्पा केषा मठ.?
(ग) एतत् परशुरामकुण्ड कुत्र अस्ति?
उत्तर:
(क) भीष्मकनगरदुर्गस्य अवशेषाः आर्यकला संस्कृतिसम्पदः परिचायकाः सन्ति।
(ख) तवाङ्ग गोम्पा बौद्धमठः अस्ति।
(ग) एतत् परशुरामकुण्ड: लोहितनद्याः समीपे किञ्चित् दूरे अस्ति।
(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) दर्शनीयानि इति विशेषणपदस्य विशेष्यपद किम्?
(ख) राजते इति क्रियापदस्य कर्तृपद किम्?
उत्तर:
(क) स्थानानि।
(ख) बौद्धमठः।
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) उत्पत्तिस्थलम् इति पदस्य किं पर्यायपदं संवादे अस्ति?
(ख) ‘अन्यानि दर्शनीयानि स्थलानि अपि सन्ति।’ अत्र विशेष्यपदम् किम्?
उत्तर:
(क) उद्गमस्थलम्।
(ख) स्थलानि।
प्रश्न 15.
रेखाङ्कितपदानि आवृत्य प्रश्ननिर्माणं कृत्या वाक्यानि पुनः लिखत। (5 × 1 = 5)
(i) वनौषधीनां तु अयं स्त्रोतः एव अस्ति।
(ii) पापकर्मणा द्रौणिना मे पुत्राः हताः।
(iii) सूर्योदये तमः नश्यति।
(iv) जगत्पतेः एषा सृष्टिः रमणीया अस्ति।
(v) त्वत्तः एकस्य चक्षुषः दानम् इच्छामि।
उत्तर:
(i) केषाम्
(ii) के
(iii) कदा
(iv) कीदृशी
(v) कम्
प्रश्न 16.
अधोलिखितयोः श्लोकयोः अन्वयम् उचितैः पदैः पूरयित्वा पुनर्लिखत- (4 × ½ = 2)
परमापद्गतेनापि नैव तात त्वया रणे।
इदमस्त्र प्रयोक्तव्य मानुषेषु विशेषतः॥
अन्वयः – तात! परम (i) __________________ अपि (ii) __________________ त्वया विशेषत: (iii) __________________ इदम् (iv) __________________ नैव प्रयोक्तव्यम्।
मञ्जूषा – मानुषेषु, आपदगतेन, अस्त्रम्, रणे।
उत्तर:
(i) आपदगतेन
(ii) रणे
(iii) अस्त्रम्
(iv) मानुषेषु
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (4 × ½ = 2)
पिता यच्छति पुत्राय बाल्ये विद्याधन महत्।
पिताऽस्य कि तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥
भावार्थ: – कविः कथयति अस्मिन् संसारे (i) __________________ स्वपुत्राय तस्य बाल्यकाले महत् (ii) __________________ रूपी धन यच्छत्ति पर यदा स. पुत्रः एतत् चिन्तयति यत् (iii) __________________ पिता महा महत् तपः अकरोत् इयमेव तस्य पुत्रस्य पितर प्रति (iv) __________________ भवति।
मञ्जूषा – विद्या, कृतज्ञता, पिता, मम
उत्तर:
(i) पिता
(ii) विद्या
(iii) मम
(iv) कृतज्ञता
प्रश्न 17.
रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् अर्थं लिखत। (4 × 1 = 4)
(i) क्रोधाद् भवति सम्मोहः।
(A) उद्विग्नता
(B) निर्धनता
(C) व्याकुलता
(D) सरलता
उत्तर:
(C) व्याकुलता
(ii) द्वादश समाः पर्जन्यः तद् राष्ट्र नाभिवर्षति।
(A) मासा:
(B) दिवसा
(C) वर्षाणि
(D) सप्ताह:
उत्तर:
(C) वर्षाणि
(iii) अलम् अलं मिथः कलहेन।
(A) ईदृशम्
(B) परस्परम्
(C) मिथक
(D) व्यर्थम्
उत्तर:
(B) परस्परम्
(iv) य: इच्छत्यात्मनः श्रेयः।
(A) अध्यम्
(B) गृहम्
(C) अमूल्यम्
(D) कल्याणम्
उत्तर:
(D) कल्याणम्
![]()
प्रश्न 18.
अधोलिखित कथां रिक्तस्थानानि पूरयित्वा पुनः लिखत- (8 × ½ = 4)
प्रभातवेलाया राजहसी राजहसः च (i) __________________ विहरत स्म। तदैव सहसा (ii) __________________ श्रुत्वा राजहस: (iii) __________________ राजहसी च पृच्छति यत् इयं (iv) __________________ कस्य अस्ति? राजहसी काकध्वनि इयम् इति वदति। सा कथयत्ति यत् काकस्य (v) __________________ कृष्ण कर्म अपि कृष्णम् एव अस्ति। तदैव (vi) __________________ सक्रोध प्रविश्य वदति यत् मम वर्ण: तु (vii) __________________ श्रीकृष्णस्य सदृशो वर्तते। अह तु (viii) __________________ आदर्शः अस्मि। अहमेव स्वक्वणितैः जनान् प्रातः प्रबोधयामि।
मञ्जूषा – शरीरम्, ध्वनि, काका, सरस्तीरे, श्रीरामस्य, काकध्वनि, छात्रेभ्य, आकुलीभवति।
उत्तर:
(i) सरस्तीरे
(ii) काकध्वनिः
(iii) आकुलीभवति
(iv) ध्वनिः
(v) शरीरम्
(vi) काका
(vii) श्रीरामस्य
(viii) छात्रेभ्यः