Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit Communicative with Solutions Set 6 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Communicative Set 6 with Solutions
अवधि: – होरात्रयम्
पूर्णाङ्काः – 80
सामान्यनिर्देशा:-
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 पृष्ठानि मुद्रितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः भागाः सन्ति-
- ‘क’ भागः – अपठितावबोधनम् (10 अङ्काः)
- ‘ख’ भागः – रचनात्मक कार्यम् (15 अङ्काः)
- ‘ग’ भागः – अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
- ‘घ’ भागः – पठितावबोधनम् (30 अङ्काः)
- प्रत्येकं भागम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः।
- प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् एवं लेखनीयः।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
भाग ‘क’ – अपठित अवबोधनम् (10 अंङ्काः)
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत। (10)
इदं सत्यं यत् कश्चिदपि प्राणी जीवहत्यां न कुर्यात्। प्रत्येकं पशु-पक्षी मानवेषु जीवनं भवति अतः कस्मैचिदपि अन्यया प्राणहरणाय अधिकारः एव नास्ति। भारतदेशः प्राचीनकालादेव अहिंसायाः प्रचारम् “अहिंसा परमोधर्मः” इति कथयित्वा कुर्वन्नस्ति। आधुनिके युगे राष्ट्रपिता महात्मागांधी अपि हिंसायाः विरोधे स्वस्वर गुज्जितमकरोत् अहिंसायाश्च प्रचारमकरोत्। वास्तव हिंसा जनान पशुवत् करोति। अनया जनेषु प्रेम्णः स्नेहस्य च भावना समाप्यते निस्सन्देह हिंसा अतीव दुर्गुणरूपे भवति। परं दासता तु तस्याः अपि वीभत्सरूपं वर्तते। कश्चिदपि जनः स्वस्वतन्त्रतां विस्मृत्य सुख-शान्तिपूर्वक स्वप्तुमपि न शक्यते यदि कश्विदपि पक्षी पा बद्धयते तर्हि सः बहिः गन्तुं परिपूर्णशक्तया प्रयत्नं करोति उदासीनः दुःखी च भवति परं मनुष्य तु विवेकी प्राणी भवति, तस्य समीपे मस्तिष्को हृदयश्च वर्तते अतः सः दासतायाः बन्धनेषु कथं वस्तुं शक्नोति।
(अ) एकपदेन उत्तरत-
(i) कः राष्ट्रपिता अस्ति?
(ii) अतीव दुर्गुणरूपे का भवति?
(iii) कश्चिदपि प्राणी किं न कुर्यात्?
उत्तर:
(i) महात्मागांधी।
(ii) हिंसा।
(iii) जीवहत्याम्।
(आ) पूर्णवाक्येन उत्तरत-
(i) भारतदेशः किं कुर्वन्नस्ति?
(ii) क: विवेकी प्राणी भवति?
(iii) कस्य समीपे मस्तिष्को हृदयः च वर्तते?
उत्तर:
(i) भारतदेश: प्राचीनकालादेव अहिंसायाः प्रचारं कुर्वन्नस्ति।
(ii) मनुष्यः विवेकी प्राणी भवति।
(iii) मनुष्यस्य समीपे मस्तिष्कं हृदयं च वर्तते।
(इ) उपरिलिखितस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तर:
अहिंसायाः महत्त्वम्।
(ई) भाषिककार्यम्
(i) ‘कश्चिदपि प्राणी जीवहत्यां न कुर्यात्।’ अत्र क्रियापदं किम्?
(A) प्राणी
(B) कुर्यात्
(C) जीवहत्याम्
(D) कश्चिदपि
उत्तर:
(B) कुर्यात्।
(ii) अनुच्छेदे ‘अहिंसा’ इत्यस्य पदस्य कः विपर्यय: लिखितोऽस्ति?
(A) हिंसा
(B) दुःखी
(C) उदासीन:
(D) हिसाया:
उत्तर:
(A) हिंसा।
![]()
(iii) ‘खग:’ इति पदस्य कः पर्यायः अनुच्छेदे आगतः?
(A) जन:
(B) पक्षी
(C) मनुष्यः
(D) जीव:
उत्तर:
(B) पक्षी।
(iv) ‘तर्हि सः बर्हि गन्तुं।’ अत्र सः पदं कस्मै प्रयुक्तम्?
(A) पक्षिणे
(B) खगाय
(C) पशवे
(D) जनाय
उत्तर:
(A) पक्षिणे
भाग ‘ख’ – रचनात्मक कार्यम् (15 अंङ्का)
प्रश्न 2.
भवान् वेदभूषणः धारानगर्या वसति। उज्जयिन्यां गते भवता अनेकानेकाः उपलब्यः प्राप्ताः। तत्र भवता किं किं दृष्टं कवञ्च तन्नगरं भवन्तं प्रतीतम्, तस्य स्मृतिम् आवृत्य एवं पत्रं स्वानुजाय मञ्जूषापदसहायतया लिखतु भवान्- (5)
115, तक्षशिला खण्डम्
(i) ________________
मध्यप्रदेश:
तिथि: ________________
प्रिय अनुज सत्यभूषण,
सदैव प्रसीदतु।
अत्र सर्वं कुशलम् अस्ति तत्रापि भवेत् इदं कामये। ह्यः एव अहं (ii) ________________ प्रत्यागच्छम्। तत्र अहं विद्यालयस्य कार्यात् (iii) ________________ । श्रूयते यत् इदं नगरं भगवतः (iv) ________________ नगरी अस्ति। भारतस्य प्राचीना संस्कृति: अत्रैव (v) ________________ आसीत्। सम्राट् विक्रमादित्यः (vi) ________________ कालिदासश्च तां धरां विभूषितवन्ती। तत्रैव क्षिप्रायाः तटे भगवतः महाशिवस्य ज्योतिर्लिङ्गः ‘(vii) ________________’ इति नाम्ना वर्तते। सागरमन्थनसमये अमृतकुम्भस्य बिन्दवः तत्रापि पतितवन्तः अतः तंत्र कुम्भस्य च महापर्व प्रत्येकं षड्वर्षानन्तरं संपद्यते। विक्रमविश्वविद्यालयः अपि तस्य शोभां द्विगुणीकरोति। अतः (viii) ________________ उज्जैन प्रदेशस्य भ्रमणं सर्वेषां चित्तं हरति। त्वम् अपि एकं वारं (ix) ________________ सह तत्र चल तस्य च आनन्दं लभस्व इति भावं जनानां द्रष्टुं भवान् अवश मम कामना अस्ति।
भवदीयः अग्रजः
(x) ________________ ।
मञ्जूषा – महाकालेश्वर, वेदभूषणः, उज्जयिनीतः, विकसिता, अर्धकुम्भस्य, अगच्छम् धारानगरी, मया, शिवस्य, महाकविः
उत्तर:
(i) धारानगरीम्
(ii) उज्जयिनीतः
(iii) अगच्छम्
(iv) शिवस्य
(v) विकसिता
(vi) महाकविः
(vii) महाकालेश्वर
(viii) अर्धकुम्भस्य
(ix) मया
(x) वेदभूषणः।
प्रश्न 3.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायाः सहायतया पञ्च वाक्यानि रचय। (5 × 1 = 5)

मञ्जूषा – बालकाः, वृक्षारोपणं, पादपम् कुर्वन्ति, जलपात्रेण, सिञ्चति, शुद्धम्, पर्यावरणम् खनित्रम्, हरितिमा, बालकः, वृक्षौ, बालिका
उत्तर:
संभावित-वाक्या-
1. बालकाः वृक्षारोपणं कुर्वन्ति।
2. एक बालक खनित्रेण भूमौ पादपम् स्थापयति।
3. बालिका जलपात्रेण पादपं सिञ्चति।
4. वृक्षौ पर्यावरणं शुद्धम् कुर्वन्ति।
5. वृक्षै: भूमेः हरितिमा वर्धते।
अथवा
‘मम जीवनस्य उद्देश्यम्’ इत्यस्मिन् विषये मञ्जूषायाः सहायतया संस्कृतभाषायां एकं अनुच्छेदं लिखत।
मञ्जूषा – प्रसिद्धसंगीतगायकस्य, अहम्, पञ्चवर्षीय, रोचते, इच्छामि, सङ्गीतश्रवणे, मह्यम् आरब्धः स्वगुरुम् संगीतशिक्षकरूपे, भैरवीरागः
उत्तर:
संभावित वाक्या-
1. मम जीवनस्य उद्देश्यम् प्रसिद्धसंगीतगायकस्य भवितुम् अस्ति।
2. अहं पञ्चवर्षीयः एव स्वगुरुम् संगीतशिक्षकत्वेन आरभे।
3. मह्यम् सङ्गीतश्रवणे अतीव रोचते।
4. अहं भैरवीरागं गातुम् इच्छामि।
5. अतः अहं नित्यं संगीतस्य अभ्यासं करोमि।
![]()
प्रश्न 4.
अधोलिखित कथां मञ्जूषाया: सहायतया पूरयत- (10 × ½ = 5)
गंगातीरे एकः (i) ________________ आसीत्। तत्र (ii) ________________ निर्मितेषु नीडेषु खगाः वसन्ति स्म। तस्मिन् वृक्षतले कश्चित् (iii) ________________ अपि निवसति स्म। एकदा महती (iv) ________________ अभवत्। सः वानरः जलेन अतीव आर्द्र: (v) ________________ च अभवत्। खगाः शीतेन कम्पमान वानरम् अवदन्- “भो वानर! त्वं कष्ट (vi) ________________ । तत् कथं गृहस्य (vii) ________________ न करोषि?” वानरः एतत् वचनं (viii) ________________ अचिन्तयत्- “अहो! एते क्षद्राः खगाः मां निन्दन्ति।” अतः सः वानरः खगानां (ix) ________________ वृक्षात् अधः अपातयत्। खगानां नीडैः सह तेषाम् अण्डानि अपि (x) ________________ ।
मञ्जूषा – नष्टानि, कम्पितः, नीडानि, वृक्षः, वृष्टिः, अनुभवसि स्वपरिश्रमेण, निर्माणं, वानरः, श्रुत्वा
उत्तर:
(i) वृक्षः।
(ii) नीडानि।
(iii) वानरः।
(iv) वृष्टिः।
(v) कम्पितः।
(vi) अनुभवसि।
(vii) निर्माणम्।
(viii) श्रुत्वा।
(ix) नीडानि।
(x) नष्टानि।
अथवा
इक्षुदण्ड-निम्बवृक्षयोः मध्ये संवादं पूरयत- (5)
इक्षुदण्ड: – भोः निम्बवृक्ष! निरन्तरं विशालताम् प्राप्स्यसि मत्समक्षम्। (i) ________________। जानासि किं कियत् मधुरं अहम् अस्मि। सर्वान् एव मधुररसेन पूरयामि।
निम्बवृक्ष: – (ii) ________________ । जनाः न केवलं खादन्ति त्वाम् अपि तु तव रसमपि मग्नतया पिबन्ति। परं यदा शरीरं व्रणयुक्तं जायते मधुरताया: प्राचुर्येण तदा मम प्रयोगेण एव त्वचः रोगाः नश्यन्ति।
इक्षुदण्ड: – (iii) ________________ । मत्तः एव गुडशर्करयोः निर्माणं भवति यच्च मिष्टान्नानां मूलम्। मम रसपानं तु ग्रीष्मता हरति, एतदर्थं तु आपणे यत्र तत्र सर्वत्र विक्रीयते। इक्षुरसः सत्यं परं तेन मधुररसपानेन मधुमेह रोगिणां व्याधिरपि वर्धते। कथं विस्मरसि इदं तथ्यम्?
इक्षुदण्ड: – (iv) ________________ । मुख्यतः अस्मै रोगाय जीवनचर्या, सन्तुलित भोजनाभावः इत्यादीनि कारणानि।
निम्बवृक्षः – मित्र! अहं एतत् कथयामि यत् रोगः तव कारणेन भवति अपि तु मधुमेहरोगिणां रोगः वर्धते यदा तदा तस्य हरणाय ममोपयोगः एव हितकारी भवति।
इक्षुदण्ड: – (v) ________________। एवम् आवां द्वावेव तापहारकौ उपयोगिनी च। अत एव प्रतिवेशिनौ।
मञ्जूषा
(i) आम् वस्तुतः एव त्वमतिमधुररसेन युक्तः
(ii) विस्मरामि न परं वस्तुतः मधुमेहरोगस्य तु अन्यान्यपि बहू कारणानि
(iii) तव फलानि तु लघूनि कटूनि च
(iv) आम् एतत्तु सर्वथा सत्यम्
(v) निम्बवृक्षः कथमेवं भणसि मित्र! अहं तु मधुरतायाः भाण्डारम्
उत्तर:
इक्षुदण्ड: निम्बवृक्षयोः मध्ये संवादं पूरयत-
(i) निम्बवृक्षः कथमेवं भणसि मित्र! अहं तु मधुरतायाः भाण्डारम्।
(ii) आम् वस्तुतः एव त्वमतिमधुररसेन युक्तः।
(iii) तव फलानि तु लघूनि कटूनि च।
(iv) विस्मरामि न परं वस्तुतः मधुमेहरोगस्य तु अन्यान्यपि बहू कारणानि।
(v) आम् एतत्तु सर्वथा सत्यम्।
भाग ‘ग’ – अनुप्रयुक्त-व्याकरणम् (25 अंङ्काः)
प्रश्न 5.
(अ) निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां सन्धिं विच्छेदं वा कृत्वा लिखत- (4 × 1 = 4)
(i) दिगम्बराणां रथयात्रा गच्छति।
(ii) वृक्षस्य चित्रम् + पश्य।
(iii) कालः पिवति तदरसम्।
(iv) अपि + एवम् आश्चर्यजनकं दृश्यम्।
उत्तर:
(i) दिक् + अम्बराणाम्
(ii) चित्रं पश्य
(iii) तत् + रसम्
(iv) अप्येवम्
अथवा
(आ) अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (4)
(i) गच्छतु भवान् पुनर्दर्शनाय।
(ii) वाग्देवीं सरस्वती नमामि।
(iii) देवेन आचरेण + एव कालेन यश: अर्जितम्।
(iv) जननी जन्मभूमि: + च स्वर्गादपि गरीयसी।
उत्तर:
(i) पुन: + दर्शनाय
(ii) वाक् + देवीम्
(iii) अचिरेणैव
(iv) जन्भूमिश्च
प्रश्न 6.
रेखाङ्कितपदानां समासं विग्रहं वा कृत्वा लिखत- (4 × 1 = 4)
(i) वीरजननी त्वं शोचितुं नार्हसि।
(A) वीर: जननी
(B) वीरानाम् जननी
(C) वीरा जननी
(D) वीराणाम् जननी
उत्तर:
(D) वीराणाम् जननी
(ii) पाठतः अपि अनभ्यासः।
(A) अन् अभ्यास:
(B) ना अभ्यास:
(C) न अभ्यास:
(D) अना अभ्यासः
उत्तर:
(C) न अभ्यासः
(iii) सर्वदा सर्वदाऽस्माकं सविधिं क्रियात्।
(A) सर्व ददाति
(B) सर्व ददाति इति
(C) सर्व दादति इति
(D) सर्वमेव ददाति
उत्तर:
(B) सर्वं ददाति इति
(iv) दुष्टबुद्धिः सुवर्णकलशं गृहाभ्यन्तरे क्षिप्तवान्।
(A) गृहस्य अभ्यन्तरे
(B) गृहे अभ्यन्तरे
(C) गृह अभ्यन्तरे
(D) गृहम् अभ्यन्तरे
उत्तर:
(A) गृहस्य अभ्यन्तरे
प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृति-प्रत्ययान् संयोग्य विभञ्ज्य वा लिखत- (4 × 1 = 4)
(i) भवान् जानाति द्रौणे: चपलाम् प्रकतिम्।
(A) चपल + टाप्
(B) चपल + ला
(C) चपल + आम्
(D) चपल + आ
उत्तर:
(A) चपल + टाप्
(ii) यथासमयं सर्वेषां महत्त्वं विद्यते।
(A) महत् + त्व
(B) महान् + त्वम्
(C) महत् + तु
(D) महत् + तव
उत्तर:
(A) महत् + त्व
(iii) धैर्यवान् जनः लोके पराभवं न प्राप्नोति।
(A) धैर्य + क्तवतु
(B) धैर्य + मतुप्
(C) धैर्य + शानच्
(D) धैर्य + तव
उत्तर:
(B) धैर्य + मतुप्
(iv) क्रूरता सदैव निन्दनीया एव।
(A) क्रूर् + तल्
(B) क्रूर + त्व
(C) क्रूर + तल् + आ
(D) क्रूर + तल्
उत्तर:
(D) क्रूर + तल्
![]()
प्रश्न 8.
(अ) वाच्यानुसार कोष्ठकेषु प्रदत्तपदैः रिक्तस्थानानि पूरयत- (3 × 1 = 3)
(i) बालिकाभिः लेखा: ________________ ।
(A) लिख्यते
(B) लिख्यन्ते
(C) लिखन्ति
(D) लिखति
उत्तर:
(B) लिख्यन्ते
(ii) मम भ्रात्रा वाटिकां ________________।
(A) सिच्यते
(B) सिच्यन्ते
(C) सिचति
(D) सिञ्चति
उत्तर:
(A) सिच्यते
(iii) ________________ पर्वताः दृश्यन्ते।
(A) आवाम्
(B) यूयम्
(C) अस्माभिः
(D) मम
उत्तर:
(C) अस्माभिः
अथवा
(आ) वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यानि पुनः लिखत- (4)
(i) मम मात्रा प्रातः एव ________________ जप्यते।
(A) गायत्रीमन्त्रः
(B) गायत्रीमन्त्र
(C) गायत्रीमन्त्रम्
(D) गायत्रीमन्त्रा
उत्तर:
(A) गायत्रीमन्त्रः
(ii) वने जीवै: ________________।
(A) वसति
(B) वस्यते
(C) उष्यते
(D) वसन्ति
उत्तर:
(B) वस्यते
(iii) मम अनुजेन ________________ नित्यमेवक्रियते।
(A) योगाभ्यासः
(B) योगाभ्यासं
(C) योगाभ्यास
(D) योगाभ्यासेन।
उत्तर:
(A) योगाभ्यासः
प्रश्न 9.
कालबोधकैः शब्दैः अधोलोखित दिनचर्या पूरयत- (3 × 1 = 3)
(क) प्रात: (7:30) ________________ वादने प्रार्थना सभा।
(ख) प्रात: (10:00) ________________ वादने अर्धावकाशः।
(ग) मध्याहने (11:45) ________________ वादने विविधाः क्रीडाः।
उत्तर:
(i) सार्थसप्त
(ii) दश
(iii) पादोनद्वादश
प्रश्न 10.
मञ्जूषायाः उचितैः अव्ययैः चित्वा रिक्तस्थानानि पूरयत- (4 × 1 = 4)
(क) त्वं ________________ समागतोऽसि?
(ख) ग्रामाद् ________________ एक सुन्दरम् उद्यानम् अस्ति।
(ग) ________________ परोपकारः क्रियते तावत् शरीरस्य उपयोगः।
(घ) चिकित्सालयं निकषा ध्वनिं ________________ कुरु।
मञ्जूषा – कुतः, बहिः, मा, यावत्
उत्तर:
(i) कुत:
(ii) बहि:
(iii) यावत्
(iv) मा
प्रश्न 11.
निम्नवाक्येषु रेखाङ्कितपदानां संशोधनं कृत्वा पुनर्लिखत- (3 × 1 = 3)
(i) गंगायाः जलम् पवित्रः अस्ति।
(A) पवित्र
(B) पवित्रम्
(C) पवित्रा
(D) पवित्राम्
उत्तर:
(B) पवित्रम्
(ii) मम मित्रं कठोरः अस्ति।
(A) कठोर
(B) कठोरा
(C) कठोरम्
(D) कठोराम्
उत्तर:
(C) कठोरम्
(iii) अयम् ललना ग्रामं गच्छति।
(A) इमाम्
(B) इमम्
(C) इदम्
(D) इयम्
उत्तर:
(D) इयम्
भाग ‘घ’ – पठितावबोधनम् (30 अंङ्काः)
प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)
इत्युक्वा स राजा वैद्योक्तविधिना नीलोत्पलम् इव एकं चक्षुः शनैः अक्षतम् उत्पाट्य प्रीत्या याचकाय समर्पितवान्। सः अपि तत् नेत्रं यथास्थानम् अस्थापयत्। ततो महीपालः द्वितीयं नेत्रमपि शनैः निष्कास्य तस्मै ददौ। अथ विस्मितः शक्रः अचिन्तयत्-अहो धृति:! अहो सत्त्वम्! अहो सत्त्वहितैषिता! नायं चिरं परिक्लेशम् अनुभवितुम् अर्हति। अतः प्रयतिष्ये चक्षुषोऽस्य पुनः प्रत्यारोपणाय इति।
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) राजा केन विधिना नेत्रं निष्कासितवान्?
(ख) प्रथमं नेत्रं कः यथास्थाने स्थापयामास?
(ग) राजा द्वितीयं किम् अपि दत्तवान्?
उत्तर:
(क) वैद्योक्तविधिना।
(ख) याचकः।
(ग) नेत्रम्।
(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) राजा किमर्थं स्वचक्षुषोः दानं कृतवान्?
(ख) शक्रः किं चिन्तयामास?
(ग) शक्रेण कः निश्चयः कृतः?
उत्तर:
(क) राजा याचकाय प्रीत्या स्वचक्षुषोः दानं कृतवान्।
(ख) शक्रः अचिन्तयत्- “अहो धृतिः, अहो सत्त्वम्, अहो सत्त्वहितैषिता।”
(ग) शक्रेण निश्चयः कृतः यत् चक्षुषोः पुनः प्रत्यारोपणं करिष्यति।
(iii) (अ) निर्देशानुसारम् उत्तरत (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘उद्घाट्य’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
(ख) ‘प्रीत्या’ इति पदस्य विलोमपदं लिखत।
उत्तर:
(क) ‘उत्पाट्य’।
(ख) अप्रित्या।
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) ‘राजा दत्तवान्’ अत्र क्रियापदं किम्?
(ख) ‘अहो धृति:’ अत्र धृतिः इति पदं कस्य भाववाचकम्?
उत्तर:
(क) दत्तवान्।
(ख) धैर्यस्य भाववाचकम्।
![]()
प्रश्न 13.
अधोलिखितं पद्यान्ं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)
काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ययेनमिह वैरिणम्॥
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात्।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) कः रजोगुणसमुद्भवः?
(ख) अस्मिन् श्लोके कः वैरिणः इति निर्दिष्टः?
(ग) कः महाशन: महापाप्मा इति निर्दिष्टः
उत्तर:
(क) क्रोधः।
(ख) कामः।
(ग) रजः गुणः।
(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) नरः कदा युक्तः सुखी च भवति?
(ख) भगवता अस्मिन् श्लोके कं वैरिणं विद्धि इति उक्तम्?
(ग) कामः क्रोधश्च कस्य समुद्भवौ स्तः?
उत्तर:
(क) यः नरः प्राक् शरीरविमोक्षणात् कामक्रोधोद्धवं वेगं सोढुं शक्नोति, स युक्तः सुखी च भवति।
(ख) भगवता अस्मिन् श्लोके कामं वैरिणं विद्धि इति उक्तम्।
(ग) कामः क्रोधश्च रजोगुणसमुद्भवौ स्तः।
(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) “महाशन” पदस्य पर्यायपदं लिखत।
(ख) “युक्तः” पदस्य विलोमपदं लिखत।
उत्तर:
(क) “भक्षकः”।
(ख) “अयुक्तः”।
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) “वैरिणम्” इति पदे का विभक्तिः अस्ति?
(ख) “कामक्रोधोद्भवं वेगम्” अत्र विशेषणपदं किम्?
उत्तर:
(क) द्वितीया विभक्तिः।
(ख) कामक्रोधोदद्धवम्।
प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत। (5)
मयूरः – (प्रविश्य साट्टहासम्) सत्यं सत्यम्। अहमेव राष्ट्रपक्षी को न जानाति तव ध्यानावस्थाम्? मौनं धृत्वा वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। अवमानितं खलु सर्व पक्षिकुलं त्वया।
काक: – रे सर्पभक्षक नर्तनात् अन्यत् किम् अपरं जानासि?
मयूरः – श्रूयतां श्रूयताम्! मम नृत्यं तु प्रकृतेः आराधना। पश्य। चारुवर्तुलचन्द्रिकाशोभितानां मम पिच्छानाम् अपूर्व सौन्दर्यम्। मम केकारवं श्रुत्वा कोकिलः अपि लज्जते। मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवं अहं पक्षिराजः कृतः।
कोकिलः – (प्रविश्य) रे मयूर अलम् अतिविकत्थनेन। मधुमासे आम्रवृक्षे स्थित्वा यदा अहं पञ्चमस्वरेण गायामि तदा
श्रोतारः कथयन्ति – काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
काक: – रे परभृत्। अहं यदि तव सन्ततिं न पालयामि तर्हि कुत्र पिकाः स्युः? अतः अहम् एव करुणापरः पक्षिसम्राट् काक:!
राजहंसः – शान्तं शान्तम्। अहमेव नीरक्षीरविवेकी पक्षिणां राजा।
बक: – धिक् युष्मान्। अहमेव सर्वशिरोमणिः। (ततः प्रकृतिमाता प्रविशति)
प्रकृति: – (सस्नेहम्) अलम् अलं मिथः कलहेन। अहं प्रकृति एवं युष्माकं जननी। यूयं सर्वे एव मम प्रियाः। सर्वेषामेव महत्त्वं विद्यते यथासमयम्। सर्वैः एव मे शोभा। न तावत् कलहेन समयं वृथा यापयेत। मिलित्वा एव मोदध्यं जीवनं च रसमयं कुरुध्वम्।
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) केन पक्षिणा मीनानां भक्षणं कृतम्?
(ख) “सर्पभक्षक” इति शब्दः कस्मै उक्तः?
(ग) “नीरक्षीरविवेकी” इति विशेषणं कस्य?
उत्तर:
(क) बकः।
(ख) मयूराय।
(ग) राजहंसस्य।
(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) मयूरस्य पिच्छानाम् सौन्दर्यं कथं वर्णितम् ?
(ख) वसन्तसमये श्रोतारः काकं च कोकिलं च कथं भेदयन्ति ?
(ग) प्रकृतिः पक्षिभ्यः किम् उपदिष्टवती ?
उत्तर:
(क) मयूरस्य पिच्छानि चारुवर्तुलचन्द्रिकाशोभितानि इति वर्णितम्।
(ख) वसन्तसमये श्रोतारः काकं च कोकिलं च न भेदयन्ति।
(ग) प्रकृतिः पक्षिभ्यः एकतया मिलित्वा मोदनं जीवनं च रसमयं करणीयम् इति उपदिष्टवती।
(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) “नर्तनम्” इत्यस्य पर्यायपदं किम्?
(ख) “धिक्” इत्यस्य विलोमपदं किम्?
उत्तर:
(क) नृत्यम्।
(ख) आशिषः।
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) “सम्राट्” इति पदं कस्य विशेषणम्?
(ख) “मिथः कलहेन” इत्यत्र “कलहेन” इति पदे का विभक्ति:?
उत्तर:
(क) काकस्य
(ख) तृतीया
प्रश्न 15.
रेखाङ्कितपदानि आवृत्य प्रश्ननिर्माणं कृत्या वाक्यानि पुनः लिखत- (5 × 1 = 5)
(क) मंत्री सभायाम् अकातरः भवेत्।
(ख) ब्रह्मण: आयुः शतं वर्षाणि।
(ग) द्रौणिना द्रौपद्याः पुत्राः हताः।
(घ) प्रच्छन्नभाग्यस्य गृहम् मणीनाम् अभया भासमानम् अभवत्।
(ङ) हंसः वर्षर्तौ तु मानसं पलायते।
उत्तर:
(क) कुत्र
(ख) क
(ग) केन
(घ) कया
(ङ) कदा
प्रश्न 16.
अधोलिखितयोः श्लोकयोः अन्वयम् उचितैः पदैः पूरयित्वा पुनर्लिखत- (4 × ½ = 2)
पापिनाञ्च सदा दुःखं सुखं वै पुण्यकर्मणाम्।
एवं स्थिरतरं ज्ञात्वा साधुवृत्तिं समाचरेत्॥
अन्वयः सदा (i) ________________ दुरूखम् (ii) ________________ च वै सुखम्। एवम् (iii) ________________ ज्ञात्वा साधुवृत्तिम् (iv) ________________ ।
मञ्जूषा – समाचरेत्, पुण्यकर्मणाम्, स्थिरतरम्, पापिनाम्
उत्तर:
(i) पापिनाम्
(ii) पुण्यकर्मणाम्
(iii) स्थिरतरम्
(iv) समाचरेत्
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (4 × ½ = 2)
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव हि।
तस्मात् संहर दिव्यं त्वमस्त्रमेतन्महाभुज॥
भावार्थ: हे महाबाहो! (i) ________________ राष्ट्रं च सर्वदा (ii) ________________ स्तः। तस्मात् त्वं एतत् (iii) ________________ संहर। अर्थात्, वीरपुरुषेण धर्मरक्षणाय एव बलं प्रयोज्यं न तु निरर्थकं (iv) ________________ ।
मञ्जूषा – रक्षितव्यौ, विनाशाय, दिव्यमस्त्रं, पाण्डवाः
उत्तर:
(i) पाण्डवा:
(ii) रक्षितव्यौ
(iii) दिव्यमस्त्रम्
(iv) विनाशाय
प्रश्न 17.
रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् अर्थं लिखत- (4 × 1 = 4)
(i) आपदां तरणि धैर्यम् भवति।
(A) सूर्य:
(B) नौका
(C) नक्षत्रम्
(D) तीर्खा
उत्तर:
(B) नौका
(ii) प्रच्छन्न पापम् आमरणात् शल्यम् भवति?
(A) कण्टकः
(B) कर्णस्य सेनापतिः
(C) शालिचूर्णम्
(D) शल्यचिकित्सा
उत्तर:
(A) कण्टकः
(iii) नर्तनात् अपरं कि जानासि।
(A) अन्यम्
(B) श्रेष्ठम्
(C) असंलग्नम्
(D) पक्षरहितम्
उत्तर:
(A) अन्यम्
(iv) विषमे समये ब्रह्मास्त्रम् एव मे शरणम्।
(A) विषपूर्ण
(B) कठिने
(C) समविपरीते
(D) मम विषये
उत्तर:
(B) कठिने
![]()
प्रश्न 18.
अधोलिखित कथां रिक्तस्थानानि पूरयित्वा पुनः लिखत- (8 × ½ = 4)
भगवान् बोधिसत्त्वः शिवीनां राजा अभवत्। सः (i) ________________ एव विनयी, वृद्धोपसेवी, (ii) ________________ च आसीत्। पुत्रवत् प्रजा: पालयन्, कारुण्य-औदार्ययुक्तः राजा नगरस्य चतुर्दिक् (iii) ________________ स्थापयामास। तत्र अर्थिनः अन्नं-पानं वसनं रत्नं सुवर्णादिकं प्राप्य (iv) ________________ आसन्। एकदा राजा दानशालासु गत्वा दृष्ट्वा यत् याचकाः केवलं (v) ________________ तृप्ता, अचिन्तयत्- “दानवीराः ते सौभाग्यशालिनः येषां समीपे याचकाः पात्रमपि याचन्ति।” एतस्मिन् समये शक्रः नेत्रहीनयाचकरूपेण आगत्य (vi) ________________ अयाचत। राजा तस्य वचनं श्रुत्वा मनसि चिन्तयामास- “(vii) ________________ दुष्करं, किन्तु दानस्य सार्थकता तत्रैव।” ततः सः उवाच- “भो मित्र! अहं केवलं एकं नेत्रं न दास्यामि चक्षुद्वयमेव दास्यामि।” एतत् श्रुत्वा अमात्याः (viii) ________________ भूत्वा निवेदयामासः- “महाराज, एतादृशं दुस्साहसम् मा कुर्यात्। प्रभूतं धनं दीयताम्।”
मञ्जूषा – बाल्यात्, सन्तुष्टाः, दुःखिता, चक्षुदानं, शास्त्रपारङ्गतः, धनलाभेन, नेत्रदानं दानशाला:
उत्तर:
(i) बाल्यात्
(ii) शास्त्रपारङ्गतः
(iii) दानशाला:
(iv) सन्तुष्टा:
(v) धनलाभेन
(vi) नेत्रदानं
(vii) चक्षुर्दानं
(viii) दुःखिता