Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit Communicative with Solutions Set 5 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Communicative Set 5 with Solutions
अवधि: – होरात्रयम्
पूर्णाङ्काः – 80
सामान्यनिर्देशा:-
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 पृष्ठानि मुद्रितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः भागाः सन्ति-
- ‘क’ भागः – अपठितावबोधनम् (10 अङ्काः)
- ‘ख’ भागः – रचनात्मक कार्यम् (15 अङ्काः)
- ‘ग’ भागः – अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
- ‘घ’ भागः – पठितावबोधनम् (30 अङ्काः)
- प्रत्येकं भागम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः।
- प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् एवं लेखनीयः।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
भाग ‘क’ – अपठित अवबोधनम् (10 अंङ्काः)
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत। (10)
अस्माकं जीवने विद्यालयस्य महती भूमिका अस्ति। विद्यालयः तु शिक्षायाः केन्द्रम् एव भवति। विद्यालयं गत्वा छात्रः न केवलं शिक्षां प्राप्नोति अपितु तस्य सर्वाङ्गीण विकासः अपि भवति। प्रतिदिनं प्रातःकाले विद्यालयम् आगत्य छात्राः विविधान् विषयान् पठन्ति। गणितं, विज्ञानं, भाषा, सामाजिक विज्ञानम् आदयः विषयाः शिक्षायां महत्त्वपूर्णाः सन्ति। विद्यालये एतेषां विषयाणां शिक्षणं तु भवति एव, क्रीडा, सङ्गीत, चित्रकला आदयः अपि भवन्ति। यः छात्रः विद्यालयस्य नियमान् पालयति सः शिक्षायाः लाभम् अवश्यमेव प्राप्नोति। शिक्षया एव छात्रस्य ज्ञानं वर्धते अपितु तस्य सामाजिक विकासः अपि भवति। विद्यालये छात्राः सहयोगेन कार्याणि कुर्वन्ति, सामाजिक, सांस्कृतिकं, नैतिकं चारित्रिकं च ज्ञानम् अपि लभन्ते। अतः अस्माकं जीवने विद्यालयस्य भूमिका महत्त्वपूर्णा अस्ति।
(अ) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(i) अस्माकं जीवने विद्यालयस्य कीदृशी भूमिका अस्ति?
(ii) कया छात्रस्य ज्ञानं वर्धते?
(iii) के विविधान् विषयान् पठन्ति?
उत्तरा:
(i) महती
(ii) शिक्षया
(iii) छात्रा:
(आ) पूर्णवाक्येन लिखत: (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) शिक्षायां के के विषया: महत्त्वपूर्णाः सन्ति?
(ii) छात्रा: विद्यालये कीदृशं ज्ञानं लभन्ते?
(iii) कीदृश: छात्र शिक्षायाः लाभं प्राप्नोति?
उत्तरा:
(i) गणितम्, विज्ञानम्, भाषा, सामाजिक विज्ञानम् आदयः विषया: शिक्षायां महत्त्वपूर्णाः सन्ति।
(ii) विद्यालये छात्रा: सहयोगेन कार्याणि कुर्वन्ति, सामाजिक, सांस्कृतिकम्, नैतिकम् चारित्रिकम् च ज्ञानम् अपि लभन्ते।
(iii) छात्र विद्यालयस्य नियमान् पालयति सः शिक्षायाः लाभम् अवश्यमेव प्राप्नोति।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्त शीर्षकं संस्कृतेन लिखत। (1 × 1 = 1)
उत्तरा:
विद्यालय: / विद्यालस्य महत्त्वम्
(ई) यथानिर्देशम् उत्तरतः (3 × 1 = 3)
(i) ‘लभन्ते’ इति क्रियापदस्य कर्तृपदं किं भवेत्?
(A) विद्यालये
(B) छात्रा:
(C) मूल्या
(D) सहयोगेन
उत्तरा:
(B) छात्रा:
![]()
(ii) ‘विविधान्’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(A) छात्रा:
(B) पठन्ति
(C) आगत्य
(D) विषयान्
उत्तरा:
(D) विषयान्
(iii) ‘विद्यालयः तु शिक्षायाः केन्द्रम् एव भवति।’ अत्र किं क्रियापदम्?
(A) भवति
(B) केन्द्रम्
(C) शिक्षाया:
(D) विद्यालय
उत्तरा:
(A) भवति
भाग ‘ख’ – रचनात्मक कार्यम (15 अंङ्का)
प्रश्न 2.
भवान् रहमानः अस्ति दिल्लीनगरे च वसति। स्वनगरे वर्षायाः वर्णनं कुर्वन् स्वमित्रं कृष्णं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तैः पदैः पूरयित्वा पुनः लिखत। (10 × ½ = 5)
तीर्थवास:
(i) __________________
प्रिय (ii) __________________
सप्रेम नमः!
अत्र कुशलं (iii) __________________ । अहम् इदानीं दिल्लीनगरे (iv) __________________ विषये लिखामि। अत्र अस्मिन् वर्षे अत्यधिका वर्षा अभवत्। गतसप्ताहे तु निरन्तरं वर्षा जाता। आकाशे सर्वत्र (v) __________________ विद्यालये तु (vi) __________________ एव आसन्। मार्गाः अपि अवरुद्धाः आसन्। अत्र (vii) __________________ जलस्तर एव वर्धितः आसीत्। वर्षा तु आनन्ददायिका भवति परम् अतिवृष्टिः (viii) __________________ उत्पादयति। तव पत्रोत्तरं प्रतीक्षिष्ये। पितृचरणयोः मम (ix) __________________
तवमित्रम्
(x) __________________
मञ्जूषा – रहमान:, अवकाश:, दिल्लीत:, प्रणामाः, कृष्ण!, समस्याम्, तत्रास्तु, यमुनायाः, मेघाः, वर्षायाः।
उत्तरा:
तीर्थवास
(i) दिल्लीत:
प्रिय (ii) कृष्ण!
सप्रेम नमः!
अत्र कुशलं (ii) तत्रास्तु। अहम् इदानीं दिल्लीनगरे (iv) वर्षायाः विषये लिखामि। अत्र अस्मिन् वर्षे अत्यधिका वर्षां अभवत्। गतसप्ताहे तु निरन्तरं वर्षा जाता। आकाशे सर्वत्र (v) मेघा: विद्यालये तु (vi) अवकाशः एव आसन्। मार्गाः अपि अवरुद्धाः आसन्। अत्र (vii) यमुनाया: जलस्तर: एव वर्धितः आसीत्। वर्षा तु आनन्ददायिका भवति परम् अतिवृष्टि (viii) समस्याम् उत्पादयति। तव पत्रोत्तरं प्रतीक्षिष्ये। पितृचरणयोः मम (ix) प्रणामाः।
तव मित्रम्
(x) रहमान:
प्रश्न 3.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायाः सहायतया पञ्च वाक्यानि रचयत (5 × 1 = 5)

मञ्जूषा – विद्यालयस्य, छात्राः, परीक्षाम्, वाहनानि, काष्ठपट्टिकाम्, परीक्षाम् हस्ते, जनाः, प्रसन्नाः, आगच्छन्ति।
उत्तरा:
संभावित-वाक्यानि
- इदं चित्रं छात्राणाम् अस्ति।
- छात्रा परीक्षां दत्त्वा आगच्छन्ति।
- ता: प्रश्नपत्रं पश्यन्ति।
- एकस्यां बालिकायां हस्ते काष्ठपट्टिका अस्ति।
- सर्वाः बालिका प्रसन्नाः सन्ति।
अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत-
‘अनुशासनस्य महत्त्वम्’
मञ्जूषा – साफल्यम् जनयति, परिश्रमेण सह आलस्यम् प्राप्नोति, स्वस्थम्, दिनचर्या, आत्मविश्वास, जीवनम् स्वलक्ष्यम्, आवश्यकम्, आत्मानम्, दुर्गुणेभ्यः।
उत्तरा:
‘अनुशासनस्य महत्त्वम्’
संभावित-वाक्यान
- अनुशासनं जीवनस्य भूषणम् अस्ति।
- यः मानव: अनुशासनं पालयति सः एव सफलताम् प्राप्नोति।
- विद्यालये छात्राणां चरित्रनिर्माणे अनुशासनम् आवश्यकम्।
- अनुशासनहीन जीवनः अव्यवस्थितः भवति।
- अस्माकं प्रगत्याः मूलं अनुशासनमेव भवति।
प्रश्न 4.
अधोलिखितां कथां मञ्जूषाया: सहायतया पूरयित्वा पुनः लिखत- (10 × ½ = 5)
भारतदेशस्य संस्कृति विविधा प्राचीना च अस्ति। अस्माकं संस्कृत्यां (i) __________________ महत्त्वं विशेषरूपेण अस्ति। एषा नदी देवनदी अपि कथ्यते। गङ्गा हिमालयस्य (ii) __________________ उत्पन्ना भवति। तस्याः प्रवाहः (iii) __________________ अस्ति। जनाः गङ्गायाः दर्शनमात्रेण आत्मानं धन्यं मन्यन्ते। नदीषु गङ्गा (iv) __________________ नदी अस्ति, एतत् तु सत्यमेव धार्मिकजनाः तस्यां स्नानं कुर्वन्ति अपूर्वा प्रसन्नताम् च (v) __________________ । अस्याः जलं शुद्ध मोक्षप्रदायकं चास्ति। हरिद्वारनगरस्य (vi) __________________ च महत्त्वं गङ्गानद्याः कारणात् एव वर्तते। अस्याः तटे अनेके (vii) __________________ पर्वाणि च आयोज्यन्ते। सर्वेषां जनानां अस्यां नद्याम् (viii) __________________ अस्ति। वस्तुतः गङ्गायाः प्रवाहः जीवनस्य प्रतीकः अस्ति। गङ्गायाः (ix) __________________ अस्माकं कर्तव्यम् एव अस्ति। गङ्गानदीं पुनः स्वच्छं निर्मलं च कर्तुं सर्वे: (x) __________________ करणीयः।
मञ्जूषा – दिव्य, प्रयत्नः, गङ्गानद्याः, उत्सवाः, आस्था, शिखरात्, काशीनगरस्य, पवित्रतमा, अनुभवन्ति, संरक्षणम्।
उत्तरा:
भारतदेशस्य संस्कृति: विविधा प्राचीना च अस्ति। अस्माकं संस्कृत्यां (i) गङ्गानद्या: महत्त्वं विशेषरूपेण अस्ति। एषा नदी देवनदी अपि कथ्यते। गङ्गा हिमालयस्य (ii) शिखरात् उत्पन्ना भवति। तस्याः प्रवाह: (iii) दिव्यः अस्ति। जनाः गङ्गायाः दर्शनमात्रेण आत्मानं धन्यं मन्यन्ते। नदीषु गङ्गा (iv) पवित्रतमा नदी अस्ति एतत् तु सत्यमेव। धार्मिकजनाः तस्यां स्नानं कुर्वन्ति अपूर्वा प्रसन्नताम् च (v) अनुभवन्ति। अस्याः जलं शुद्धं मोक्षप्रदायकं चास्ति। हरिद्वारनगरस्य (vi) काशीनगरस्य च महत्त्वं गङ्गनद्याः कारणात् एव वर्तते। अस्याः तटे अनेके (vii) उत्सवा पर्वाणि च आयोज्यन्ते। सर्वेषां जनानां अस्यां नद्याम् (viii) आस्था अस्ति। वस्तुतः गङ्गायाः प्रवाह: जीवनस्य प्रतीकः अस्ति। गङ्गायाः (ix) संरक्षणम् अस्माकं कर्तव्यम् एव अस्ति। गङ्गानदीं पुनः स्वच्छ निर्मलं च कर्तुं सर्वे (x) प्रयत्न करणीयः।
अथवा
मञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत- (5 × 1 = 5)
पुत्रः – तात! प्रणमामि।
पिता – (i) __________________ ।
पुत्र: – आम् तात! सर्वं कुशलम् अस्ति।
पिता – उत्तमम्। विद्यालये तव अध्ययनं कथं प्रचलति कापि समस्या तु नास्ति?
पुत्रः – न कापि समस्या नास्ति परन्तु अत्र एकां भवताम् अनुमतिं सहाय्यं च इच्छामि।
पिता – कस्मिन् सन्दर्भे, निस्सङ्कोचं वद।
पुत्र: – श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति। अहम् (ii) __________________
पिता – ‘शिक्षक’ तु सदैव पूज्यः। तस्मिन् सन्दर्भे सङ्कोच न कर्तव्यः। (iii) __________________
पुत्र: – अहं पूर्वमेव पृष्टवान्, कार्यक्रमः सायं सप्तवादने भविष्यति। केवलं भवतां समयस्य आशङ्का आसीत्।
पिता – चतुर! सर्वं निश्चित्य मां पृच्छसि। (iv) __________________
पुत्र: – तात! किमपि उपायनं स्वीकरणीयम् अस्ति।
पिता – अस्तु! मात्रा सह आपणं गत्वा उत्तमम् उपायनं स्वीकुरु।
पुत्र: – (v) __________________
मन्जूंषा
(क) अस्तु, अहं कार्यालयात् समयेन आगमिष्यामि।
(ख) अस्तु, धन्यवादः।
(ग) शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति?
(घ) तत्र भवता सह गन्तुम् इच्छामि।
(ङ) चिरञ्जीव! वत्स सर्वं कुशलम्?
उत्तरा:
पुत्र: – तात! प्रणमामि।
पिता – (i) चिरञ्जीव! वत्स सर्वं कुशलम्?।
पुत्र: – आम् तात! सर्वं कुशलम् अस्ति।
पिता – उत्तमम्। विद्यालये तव अध्ययनं कथं प्रचलति कापि समस्या तु नास्ति?
पुत्र: – न कापि समस्या नास्ति परन्तु अत्र भवताम् एकाम् अनुमतिं सहाय्यं च इच्छामि।
पिता – कस्मिन् सन्दर्भे, निस्सङ्कोचं वद।
पुत्र: – श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति। अहम् (ii) तत्र भवता सह गन्तुम् इच्छामि।
पिता – ‘शिक्षक’ तु सदैव पूज्यः। तस्मिन् सन्दर्भे सङ्कोच न कर्तव्य:। (iii) शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति?
पुत्र: – अहं पूर्वमेव पृष्टवान्, कार्यक्रमः सायं सप्तवादने भविष्यति। केवलं भवतां समयस्य आशङ्का आसीत्।
पिता – चतुर! सर्व निश्चित्य मां पृच्छसि। (iv) अस्तु, अहं कार्यालयात् समयेन आगमिष्यामि।
पुत्रः – तात! किमपि उपायनं स्वीकरणीयम् अस्ति।
पिता – अस्तु! मात्रा सह आपणं गत्वा उत्तमम् उपायनं स्वीकुरु।
पुत्रः – (v) अस्तु, धन्यवादः।
भाग ‘ग’ – अनुप्रयुक्त-व्याकरणम् (25 अंङ्काः)
प्रश्न 5.
(अ) निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां सन्धिं विच्छेदं वा कृत्वा लिखत। (4 × 1 = 4)
(i) केन प्रयुक्त + अयं पापं चरति पुरुषः।
(ii) नैतत् मनुष्येषु प्रयोक्तव्यम्।
(iii) आसीत् प्रच्छन्नभाग्यः कश्चित् कुमारः।
(iv) पापिनाञ्च सदा दुःखम्।
उत्तरा:
(i) प्रयुक्तोऽयं
‘विसर्गस्य उत्त्वं’ – यहाँ पर विसर्ग के बाद ‘अ’ आने से विसर्ग को ‘उ’ हुआ तथा विसर्ग वाले वर्ण के ‘अ’ के साथ ‘उ’ जुड़ने से ‘ओ’ हुआ।
(ii) न + एतत्
‘वृद्धि संधि’ अ ए जुड़कर ‘ऐ’ बना।
(iii) क + चित
विसर्गस्य शत्वम् – यदि विसर्ग वाला वर्ण ‘अ’ युक्त हो तथा उसके बाद च् छ् श् आए तो विसर्ग के स्थान पर ‘शू’ हो जाता है।
(iv) पापिनाम् + च
परसवर्ण सन्धि-यदि अनुस्वार के बाद किसी भी वर्ग के प्रथम, द्वितीय, तृतीय, चतुर्थ वर्ण आए तो अनुस्वार के स्थान पर परसवर्ण होता है।
अथवा
(आ) अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (4 × 1 = 4)
(i) प्रियच्छात्राः! अभिनन्दनं भवताम्।
(ii) इति + एतद् विदुषां वचः।
(iii) दुष्टबुद्धिस्तु तयोः वार्ता श्रुत्वा गतः।
(iv) पितुः + उपदेशेन असन्तुष्टः सः आगच्छत्।
उत्तरा:
(i) प्रिय + छात्राः
अथवा
तुकागम संधि – यदि ह्रस्व स्वर के बाद छ आये तो ‘च्’ का आगम होता है।
(ii) इत्येतद्
यण-संधि-इ के बाद सामान स्वर को छोड़कर कोई भी स्वर आने पर ‘इ’ ‘य्’ में परिवर्तित हो जाता है।
(iii) दुष्टबुद्धि + तु
विसर्गस्य रत्वम्- यदि विसर्ग वाला वर्ण ‘अ’ को छोड़कर किसी अन्य स्वर से युक्त हो तो विसर्ग के स्थान पर ‘र्’ हो जाता है।
(iv) पितुरुपदेशेन
विसर्गस्य रत्वम् – यदि विसर्ग वाला वर्ण ‘अ’ को छोड़कर किसी अन्य स्वर से युक्त हो तो विसर्ग के स्थान पर ‘र्’ हो जाता है।
![]()
प्रश्न 6.
रेखाङ्कितपदानां समासं विग्रहं वा कृत्वा लिखत। (4 × 1 = 4)
(i) येन मम लोकयात्रा निर्बाधा भवेत्।
(A) लोके यात्रा
(B) लोकं यात्रा
(C) लोक: च यात्रा च
(D) लोकस्य यात्रा
उत्तरा:
(D) लोकस्य यात्रा
क्योंकि पद के अर्थ के अनुसार ‘लोक / संसार की यात्रा’ आना चाहिए जिसके लिए राष्ट्र में षष्ठी विभक्ति का प्रयोग किया गया है जो कि विकल्प (D) दर्शाता है।
(ii) न पूर्व: अयं कोश: तव भारति।
(A) अनपूर्व
(B) अपूर्व:
(C) पूर्वन्
(D) अनपूर्वन्
उत्तरा:
(B) अपूर्व:
- क्योंकि ‘नञ् तत्पुरुष समास में समस्त पद करने पर ‘न्’ के स्थान पर ‘अ’ का प्रयोग किया जाता है यदि व्यंजन हो तो
- विकल्प (A) पद में ‘न’ के स्थान पर ‘अन’ का प्रयोग किया गया है इसलिए सही नहीं है।
- विकल्प (C) पद में ‘न’ के स्थान पर नहीं किया गया है इसलिए सही नहीं है।
- विकल्प (D) पद में ‘न’ के स्थान पर ‘अन’ का प्रयोग किया गया है इसलिए सही नहीं है।
(iii) बकः च काकः च कलहं कुरुतः।
(A) बककाकयोः
(B) बककाक:
(C) बककाकौ
(D) बककाके
उत्तरा:
(C) बककाकौ
- क्योंकि द्वंद्व समास के नियम के अनुसार दो पदों के जुड़ने पर द्विवचन का प्रयोग किया जाता है। यहाँ पर प्रथमा द्विवचन का प्रयोग किया गया है जो की वाक्य की दृष्टि से उचित है
- विकल्प (A) सही नहीं है क्योंकि द्विवचन का प्रयोग किया गया है परन्तु विभक्ति सही नहीं है।
- विकल्प (B) और (D) सही नहीं है क्योंकि द्विवचन का प्रयोग नहीं किया गया है।
(iv) विषादेन सहितम् यूथपतिः अवदत्।
(A) विषादसहितम्
(B) सहितविषादम्
(C) सविषादम्
(D) सहविषादम्
उत्तरा:
(C) सविषादम्
- क्योंकि ‘स’ उपसर्ग के प्रयोग साथ लिए किया जाता है तथा सह का ‘स’ शब्द में जुड़ता है।
- विकल्प (A) में समस्त पद सही नहीं है।
- विकल्प (B) और (D) में समस्त पद सही नहीं है।
प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृति-प्रत्ययान् संयोग्य विभञ्ज्य वा लिखत। (4 × 1 = 4)
(i) ‘विद्वान्’ एव चक्षुष्मान् प्रकीर्तितः।
(A) चक्षुष् + टाप्
(B) चक्षुष् + मतुप्
(C) चक्षुष् + ङीप्
(D) चक्षुष् + वतुप्
उत्तरा:
(B) चक्षुष् + मतुप्
मतुप् प्रत्यय का मानू (अंत में अ/आ को छोड़कर कोई अन्य स्वर), वान् (अंत में अ / आ आने पर) पद में जुड़ता है।
(ii) मम नृत्यं प्रकृतेः आराधन + टाप्।
(A) आराधनम्
(B) आराधन:
(C) आराधना
(D) आराधनता
उत्तरा:
(C) आराधना
क्योंकि ‘टाप्’ प्रत्यय का प्रयोग पुल्लिंग शब्द को स्त्रीलिंग बनाने के लिए किया जाता जाता है तथा ‘टाप्’ का ‘आ’ शब्द में जुड़ता है।
(iii) चित्ते ‘अवक्रता’ भवेत्।
(A) अवक्र + टाप्
(B) अवक्र + ङीप्
(C) अवक्र + त्व
(D) अवक्र + तल्
उत्तरा:
(D) अवक्र + तल्
क्योंकि ‘तल्’ प्रत्यय का ‘ता’ ही पद में जुड़ता है।
(iv) इयं काचित् व्याघ्रमारी इति।
(A) व्याघ्रमार + टाप्
(B) व्याघ्रमार + ङीप्
(C) व्याघ्रमार + मतुप्
(D) व्याघ्रमार + ई
उत्तरा:
(B) व्याघ्रमार + ङीप्
क्योंकि ‘ङीप्’ प्रत्यय का प्रयोग पुल्लिंग शब्द को स्त्रीलिंग बनाने के लिए किया जाता जाता है तथा ‘टाप्’ का ‘ई’ शब्द में जुड़ता है।
प्रश्न 8.
(अ) वाच्यानुसारं कोष्ठकेषु प्रदत्तपदैः रिक्तस्थानानि पूरयत। (3 × 1 = 3)
(i) मोहन: – रमे! किं तत्र शालायाम् गायक: गीतानि गायति।
रमा आम्, तत्र गायकेन गीतानि….
(A) गायति
(B) गायन्ति
(C) गीयन्ते
(D) गीयते
उत्तरा:
(C) गीयन्ते
(ii) मोहन: किं कापि बाला तत्र नृत्यति?
रमा आम्, तत्र तु द्वे बाले….
(A) नृत्यति
(B) नृत्यत:
(C) नर्तिष्यत:
(D) नृत्यन्ति
उत्तरा:
(B) नृत्यत:
(iii) मोहनः किम् इदानीं त्वम् अपि तत्र गच्छसि?
रमा आम्, … अपि तत्र गम्यते।
(A) अहम्
(B) वयम्
(C) मया
(D) त्वया
मोहन: अरे! गुरु: आयाति। अहं तु गुरुम् प्रणमामि।
उत्तरा:
(C) मया
मोहन: अरे! गुरु: आयाति। अहं तु गुरुम् प्रणमामि।
अथवा
(आ) वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यानि पुनः लिखत। (4)
(i) शिवा – रमे! अद्य विलम्बेन कथम्?
रमा – शिवे! अद्य… उत्सवं द्रष्टुं गच्छामि।
(A) मम
(B) माम्
(C) मया
(D) अहम्
उत्तरा:
(D) अहम्
(ii) शिवा – किं तत्र तव सखी अपि गच्छति?
रमा – नहि तत्र… एव गम्यते।
(A) अहम्
(B) सख्या
(C) वयम्
(D) मया
उत्तरा:
(D) मया
(iii) शिवा – साधु! किं तत्र जनाः अपि उत्सवं पश्यन्ति?
रमा – आम्, तत्र जनैः अपि…. दृश्यते।
(A) उत्सव:
(B) उत्सवम्
(C) उत्सवान्
(D) उत्सवी
रमा – शिवा रमे! अद्य विद्यालये सङ्गीत प्रतियोगिता भवति।
रमा – शोभनम्! तत्र मया अपि गीतं गीयते।
उत्तरा:
(A) उत्सव:
प्रश्न 9.
कालबोधकैः शब्दैः अधोलिखितं दिनचर्यां पूरयत। (3)
(i) अहं नित्यं रात्रौ (8:30) __________________ भोजनं करोमि।
(ii) तदन्तरं (8:45) __________________ भ्रमणाय गच्छामि।
(iii) तदा (9:30) __________________ मनोरञ्जनाय दूरदर्शनं पश्यामि।
उत्तरा:
(i) अहं नित्यं रात्रौ (8:30) सार्धअष्ट-वादने भोजनं करोमि।
(ii) तदन्तरं (8:45) पादोननव-वादने भ्रमणाय गच्छामि।
(iii) तदा (9:30) सार्धनव वादने मनोरञ्जनाय दूरदर्शनं पश्यामि।
प्रश्न 10.
मञ्जूषायाः उचितैः अव्ययैः चित्वा रिक्तस्थानानि पूरयत- (4 × 1 = 4)
(i) ते सभायां __________________ मा वदेयुः।
(ii) यदि त्वं मां मुक्त्वा यासि __________________ वेलाप्यवेला स्यात्।
(iii) यूयम् __________________ प्रयासं कुरुत।
(iv) मार्गेषु __________________ अवकरं न क्षिपेयुः।
मञ्जूषा – तदा, इतस्ततः, वृथा, अपि।
उत्तरा:
(i) ते सभायां वृथा मा वदेयुः।
(ii) यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
(iii) यूयम् अपि प्रयासं कुरुत।
(iv) मार्गेषु इतस्तत: अवकरं न क्षिपेयुः।
![]()
प्रश्न 11.
निम्नवाक्येषु रेखाङ्कितपदानां संशोधनं कृत्वा पुनर्लिखत। (3 × 1 = 3)
(i) क्रीडाक्षेत्रे छात्राः पठथः।
(A) पठसि
(B) पठथ
(C) पठाम
(D) पठन्ति
उत्तरा:
(D) पठन्ति
क्योंकि वाक्य में कर्ता ‘छात्रा:’ बहुवचन है इसलिए बहुवचन की क्रिया ‘पठन्ति’ सही है।
(ii) ह्य: विद्यालयस्य वार्षिकोत्सवः भविष्यति।
(A) भवति
(B) भवतु
(C) अभवत्
(D) भवेत्
उत्तरा:
(C) अभवत्
वाक्य में ‘ह्यः’ आने से भूतकाल का बोध होता है इसलिए ‘अभवत्’ उपयुक्त है।
(iii) बलीवर्दः शरीरेण दुर्बलम् आसीत्।
(A) दुर्बल
(B) दुर्बला
(C) दुर्बलस्य
(D) दुर्बलात्
उत्तरा:
(A) दुर्बल
इस वाक्य में कर्ता ‘बलिवर्द:’ पुल्लिंग है इसलिए कर्ता की विशेषता बताने वाला विशेषण भी पुल्लिंग का ही होगा।
भाग ‘घ’ – पठितावबोधनम् (30 अंङ्काः)
प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)
ज्वालमालाकुलाः अश्वाः प्राणत्राणाय इतस्तत: अधावन्। तेषु केचिद् दग्धाः केचिद् अर्धदग्धाः केचन च पञ्चत्वं गताः। दग्धां हयशालां विज्ञाय सविषादः राजा शालिहोत्रज्ञान् वैद्यान् आहूय अपृच्छत् – ‘हा! दग्धाः मे घोटकाः कथं रक्षणीयाः? सपदि उपायः क्रियताम्। ‘यथोचितं क्रियताम्’ इति राजादेशं श्रुत्वा सर्वे भयत्रस्ताः कपय: अचिन्तयन् ‘हा! हताः वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः।
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) के प्राणत्राणाय इतस्तत: अधावन्?
(ख) राजादेशं श्रुत्वा कीदृशाः कपय: अचिन्तयन्?
(ग) शालिहोत्रज्ञान् वैद्यान् आहूय कः अपृच्छत्?
उत्तरा:
(क) अश्वाः
(ख) भयत्रस्ताः
(ग) राजा
(ii) पूर्णवाक्येन उत्तरत- (केवल प्रश्नद्वयम्) (2 × 1 = 2)
(क) यदा अश्वाः प्राणत्राणाय अधावन् तदा किम् अभवत्?
(ख) कपय: किम् अचिन्तयन्?
(ग) राजा किमर्थं वैद्यान् आय अपृच्छत्?
उत्तरा:
(क) तेषु केचिद् दग्धाः केचिद् अर्धदग्धाः केचन च पञ्चत्वं गताः।
(ख) कपयः अचिन्तयन् हा! हताः वयम् अवधीरिताः अस्माभिः गुरुजनोपदेशाः।
(ग) राजा अश्वानां रक्षणार्थं वैद्यान् आहूय अपृच्छत्।
(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) अश्वा:’ इति कर्तृपदस्य क्रियापद किम्?
(ख) ‘हयशालाम्’ इति पदस्य कि विशेषणपदं प्रयुक्तम्?
उत्तरा:
(क) अधावन्
(ख) दग्धाम्
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) वानराः इति पदस्य कि पर्यायपदं प्रयुक्तम्?
(ख) ‘तेषु केचिद् दग्धाः केचिद् अर्धदग्धाः’ अत्र तेषु सर्वनामं पंदम् कस्मै प्रयुक्तम्?
उत्तरा:
निर्देशानुसारम् उत्तरत।
(क) कपय:
(ख) अश्वेभ्यः / अश्वाय
प्रश्न 13.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) कृष्णः कदा इन्द्रियाणि नियन्त्रणं कर्तुं कथयति?
(ख) अर्जुनः कानि वशीकृत्य कामं हन्यात्?
(ग) श्लोके कः वदति?
उत्तरा:
(क) आदौ
(ख) इन्द्रियाणि
(ग) श्रीकृष्ण:
(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) श्रीकृष्णः आदौ अर्जुनं किं कर्तुम् उपदिशति?
(ख) इन्द्रियाणि किं कृत्वा अर्जुनः कामस्य हननं कुर्यात्?
(ग) कीदृशं कां प्रजहि?
उत्तरा:
(क) श्रीकृष्णः आदौ अर्जुनं इन्द्रियाणि नियम्य पाप्मानं प्रजहि इति उपदिशति।
(ख) अर्जुनः इन्द्रियाणि नियम्य कामस्य हननं कुर्यात्।
(ग) अर्जुनः ज्ञानविज्ञाननाशनं कामं प्रजहि।
(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) ‘प्रजहि’ इति क्रियापदस्य कर्तृपदं किम्?
(ख) ‘एनम्’ इति पदस्य विशेषणपदं किं प्रयुक्तम्?
उत्तरा:
(क) त्वम् (अर्जुन)
(ख) ज्ञानविज्ञाननाशनम्
अथवा
(आ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) ‘अर्जुन’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?
(ख) ‘ह्येनं’ पदस्य संधिच्छेदं कुरुत।
उत्तरा:
(क) भरतर्षभः
(ख) हि + एनम् = ह्येनम्
![]()
प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत। (5)
(ततः पुत्रशोकसन्तप्ताः युधिष्ठिरः भीमः द्रौपदी च रणभूमौ प्रविशन्ति।)
द्रौपदी – (दीर्घ निःश्वस्य) हा हन्त। किम् इदं घोरम् आपतितम्। पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम् अयं शोकः।
युधिष्ठिरः – शुभे! धैर्यं धारय। नूनं तव पुत्राः वीरगतिम् एव प्राप्ताः। वीरजननी त्वं शोचितुं न अर्हसि।
द्रौपदी – कथं मन्दभाग्या अहं धैर्यं धारयामि। यावत् असौ क्रूरकर्मा न दण्ड्यते तावत् अहम् इतः न गमिष्यामि, अत्रैव प्राणत्यागं च करिष्यामि।
युधिष्ठिरः – प्रिये! मा एवं ब्रूयाः। सः पापकर्मा कुत्र गतः इति न जानीमः। अतिदूरं किञ्चिद् दुर्गमवनं प्रविष्ट: भवेत्।
द्रौपदी – (भीमं प्रति) – आर्यपुत्र! क्षत्रधर्मम् अनुस्मरन् मां शोकसागरात् रक्ष। अस्मिन् संसारे कश्चित् अपि त्वया सदृशः पराक्रमी नास्ति। पुरा वारणावते त्वमेव पाण्डवान् रक्षितवान्। विराटनगरे अपि त्वं मां प्राणसङ्कटात् उद्धृतवान्।
भीमः – (युधिष्ठिरं प्रति) भ्रातः! द्रौणिम् अनुगन्तुं मह्यम् अनुमतिं ददातु भवान्।
युधिष्ठिरः – गच्छ वत्स! विजयी भव, नकुलः तव सारथिः भवतु। (भीमसेनः निर्गच्छति, श्रीकृष्ण: अर्जुनेन सह प्रविशति।)
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) का आत्मानं मन्दभाग्या इति कथयति?
(ख) पुरा कुत्र भीमः पाण्डवान् रक्षितवान्?
(ग) युधिष्ठिरः भीमः द्रौपदी कुत्र प्रविशन्ति?
उत्तरा:
(क) द्रौपदी
(ख) वारणावते
(ग) रणभूमौ
(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) द्रौपदी दीर्घ निःश्वस्य किं कथयति?
(ख) भीमः कदा पाण्डवान् रक्षितवान्?
(ग) भीमः किमर्थम् अनुमतिम् इच्छति?
उत्तरा:
(क) हा हन्त। किम् इदं घोरम् आपतितम्। पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम् अयं शोकः।
(ख) पुरा वारणावते त्वमेव पाण्डवान् रक्षितवान्। विराटनगरे अपि त्वं मां प्राणसङ्कटात् उद्धृतवान्।
(ग) भीमः द्रौणिम् अनुगन्तुम् अनुमतिम् इच्छति।
(iii) (अ) निर्देशानुसारम् उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) ‘निर्गच्छति’ इत्यस्य किं विपर्यय-पदम् अत्र प्रयुक्तम्?
(ख) ‘श्रीकृष्ण: अर्जुनेन सह प्रविशति।’ अत्र कर्तृपदं किम् प्रयुक्तम्?
उत्तरा:
(क) प्रविशति
(ख) श्रीकृष्ण:
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) ‘घोरम् आपतितम्’ अनयोः पदयोः विशेषणपदं किम्?
(ख) ‘प्रिये! मा एवं ब्रूयाः’ अस्मिन् वाक्ये किं क्रिया पदम्?
उत्तरा:
(क) घोरम्
(ख) ब्रूयाः
प्रश्न 15.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कृत्वा वाक्यानि पुनः लिखत। (5 × 1 = 5)
(i) अरुणाचलप्रदेशे पञ्चाशदधिकाः नद्यः प्रवहन्ति।
(ii) चपलबालकेभ्यः भीषणानाम् अस्त्राणां प्रदानं न उचितम्।
(iii) मनसः नियन्त्रणं वायोः इव सुदुष्करम् मन्यते।
(iv) मेष: दाहवेदनया भूमौ लुठति।
(v) शिष्य एकचतुर्थांशं स्वमेधया आदत्ते।
उत्तरा:
(i) कुत्र
(ii) कीदृशानाम्
(iii) कस्य
(iv) कुत्र
(v) कया
प्रश्न 16.
अधोलिखितयोः श्लोकयोः अन्वयम् उचितैः पदैः पूरयित्वा पुनर्लिखत- (4 × ½ = 2)
न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया।
प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी॥
अन्वयः – यथा मधुरभाषि (i) __________________ पुरुषम् प्रह्लादयति (ii) __________________ शीतलसलिलम् न चन्दनरसः न (iii) __________________ छाया च (iv) __________________ (प्रह्लादयति)।
मञ्जूषा – शीतला, वाणी, न तथा।
उत्तरा:
अन्वयः – यथा मधुरभाषिणी (i) वाणी पुरुषम् प्रह्लादयति (ii) न शीतलसलिलम् न चन्दनरसः न (iii) शीतला छाया च (iv) तथा (प्रह्लादयति)।
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत-
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥
भावार्थ: – यदि कश्चित् (i) __________________ स्वस्य कल्याणं (ii) __________________ जीवनं च इच्छति तर्हि (iii) __________________ परेभ्यः अहितं कर्म न (iv) __________________ अर्थात् यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एवं अन्ये तेन सह व्यवहरिष्यन्ति।
मञ्जूषा – सुखमयम्, कुर्यात्, जनः, कदापि।
उत्तरा:
भावार्थ: – यदि कश्चित् (i) जनः स्वस्य कल्याणं (ii) सुखमयं जीवनं च इच्छति तर्हि (iii) कदापि परेभ्यः अहितं कर्म न (iv) कुर्यात् अर्थात् यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एवं अन्ये तेन सह व्यवहरिष्यन्ति।
प्रश्न 17.
रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् अर्थं लिखत- (4 × 1 = 4)
(i) शारदा अम्भोज-वदना।
(A) कमलम्
(B) मुखम्
(C) सरस्वती
(D) वाचिकम्
उत्तरा:
(B) मुखम्
(ii) विचित्रा खलु दैवगतिः।
(A) देवरूपम्
(B) देवी
(C) भाग्यविलासः
(D) गतियन्त्रम्
उत्तरा:
(C) भाग्यविलासः
(iii) जनाः परस्परम् शालिचूर्णं लिम्पन्ति।
(A) अक्षतचूर्णम्
(B) पर्वतचूर्णम्
(C) पाषाणम्
(D) शिल्पम्
उत्तरा:
(A) अक्षतचूर्णम्
(iv) शैलाः विदीर्यन्ते।
(A) पवन:
(B) सूर्य:
(C) अग्नि:
(D) पर्वता:
उत्तरा:
(D) पर्वता:
![]()
प्रश्न 18.
अधोलिखितं कथायां रिक्तस्थानानि पूरयित्वा पुनः लिखत- (8 × ½ = 4)
एकदा स्वपुण्यानां फलैः बोधिसत्वः शिवीनां राजा अभवत्। सः अतिविनम्रः (i) __________________ च आसीत् । प्रजाकल्याणार्थ सः सर्वत्र (ii) __________________ निर्माणम् अकरोत्। एतासु दानशालासु (iii) __________________ आगत्य अभीष्टानि वस्तूनि लभन्ते स्म। (iv) __________________ राजा दानशालासु विचरन् सन्तुष्टानाम् (v) __________________ विरलसंख्यां दृष्ट्वा दुःखी अभवत्। राजा स्वशरीरस्य दानं कर्तुं (vi) __________________ अकरोत्। एतत् ज्ञात्वा सर्वे एवं (vii) __________________ सञ्जाताः। तस्य दानशीलतां परीक्षितुम् (viii) __________________ तत्र आगच्छत्।
मञ्जूषा – व्याकुलाः, बुद्धिमान्, निश्चयम्, इन्द्रः, अर्थिनः, दानशालानाम्, एकदा, याचकानाम्।
उत्तरा:
एकदा स्वपुण्यानां फलैः बोधिसत्व: शिवीनां राजा अभवत्। सः अतिविनम्र (i) बुद्धिमान् च आसीत्। प्रजाकल्याणार्थं सः सर्वत्र (ii) दानशालानां निर्माणम् अकरोत्। एतासु दानशालासु (iii) अर्थिनः आगत्य अभीष्टानि वस्तूनि लभन्ते स्म। (iv) एकदा राजा दानशालासु विचरन् सन्तुष्टानां (v) याचकानां विरलसंख्यां दृष्ट्वा दुःखी अभवत्। राजा स्वशरीरस्य दानं कर्तुं (vi) निश्चयम् अकरोत्। एतत् ज्ञात्वा सर्वे एवं (vii) व्याकुलाः सञ्जाताः। तस्य दानशीलतां परीक्षितुम् (viii) इन्द्र तत्र आगच्छत्।