Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit Communicative with Solutions Set 4 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Communicative Set 4 with Solutions
अवधि: – होरात्रयम्
पूर्णाङ्काः – 80
सामान्यनिर्देशा:-
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 पृष्ठानि मुद्रितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः भागाः सन्ति-
- ‘क’ भागः – अपठितावबोधनम् (10 अङ्काः)
- ‘ख’ भागः – रचनात्मक कार्यम् (15 अङ्काः)
- ‘ग’ भागः – अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
- ‘घ’ भागः – पठितावबोधनम् (30 अङ्काः)
- प्रत्येकं भागम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः।
- प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् एवं लेखनीयः।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
भाग ‘क’ – अपठित अवबोधनम् (10 अंङ्काः)
प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत। (10)
एकदा कश्चिन नरः आखेटाय अगच्छत्। सः सर्वं दिनं वने अभ्रमत्, किन्तु कमपि पशुं न अपश्यत् सायङ्काले यदा सः आखेटक: स्वगृहं प्रति आगच्छति स्म तदा एकां पुत्रसहितां मृगीभ् अपश्यत्। सः नरः अश्वेन तस्या अनुसरणम् अकरोत्। किन्तु सा मृगी कुत्रचित् अदृश्या अभवत्। ततः सः तस्याः शावकं गृहीत्वा अश्वस्य पृष्ठे बद्धवान्। अश्वम् आरुह्य सः नरः किञ्चिद् दूरं गत्वा अपश्यत् यत् पुत्रस्नेहव्याकुला सा मृगी अपि पुत्रम् अनुसरति स्म। एतद् दृष्ट्वा तस्य मनसि करुणा उत्पन्ना अभवत्। करुणार्द्रहृदयः सः अचिन्तयत् एषा मृगी स्वप्राणमोहं त्यक्त्वा पुत्रं रक्षितुम् इच्छति। अहो। एतां निराशां न करिष्यामि इति विचार्य सः मृगीशावकम् अमुञ्चत्। मृगी प्रसन्ना अभवत्। तस्याः नयनयोः कृतज्ञताभावः आसीत्। एतद् विलोक्य सः परमम् आनन्दं प्राप्तवान्।
(अ) एकपदेन उत्तरत- (2 × 1 = 2)
(i) स्वशावकं प्राप्य मृग्याः नयनयोः कः भावः आसीत्?
(ii) आखेटक: कदा स्वगृहं प्रति आगच्छति?
(iii) का स्वप्राणमोहं त्यक्तवा पुत्रं रक्षितुम् इच्छति?
उत्तर:
(i) कृतज्ञता
(ii) सायङ्काले
(iii) मृगी
(आ) पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) पुत्रस्नेहव्याकुला मृगी किं करोति स्म?
(ii) नरः मृगीशावकं गृहीत्वा किम् अकरोत्?
(iii) करुणार्द्रहृदयः सः आखेटक: किम् अचिन्तयत्?
उत्तर:
(i) पुत्रस्नेहव्याकुला मृगी स्वशावकम् अनुसरति स्म।
(ii) नरः मृगीशावकं गृहीत्वा अश्वस्य पृष्ठे बद्धवान्।
(iii) करुणार्द्रहृदय: आखेटक: अचिन्तयत्-एषा हिरणी स्वप्राणमोहं त्यक्त्वा पुत्रं रक्षितुम् इच्छति, अहो! एतां निराशां न करिष्यामि।
(इ) गद्यांशस्य समुचितं शीर्षकं लिखत। (1 × 1 = 1)
उत्तर:
शीर्षक – “मृगी-स्नेहः” अथवा “करुणायाः विजयः” (समानार्थक शीर्षक स्वीकृतम्)।
(ई) यथानिर्देशं समुचितमुत्तरं विकल्पेभ्यः चिनुत- (3 × 1 = 3)
(i) ‘पुत्रस्नेहव्याकुला सा मृगी अपि पुत्रम् अनुसरति स्म।’ वाक्येस्मिन् कर्तृपदं किं प्रयुक्तम्?
(A) पुत्रम्
(B) अपि
(C) सा
(D) मृगी
उत्तर:
(D) मृगी
(ii) ‘एकां पुत्रसहितां मृगाम् अपश्यत्।’ वाक्येऽस्मिन् विशेष्यपदं किमस्ति?
(A) एकाम्
(B) पुत्रसंहिताम्
(C) मृगीम्
(D) अपश्यत्
उत्तर:
(C) मृगीम्
![]()
(iii) ‘प्रातःकाले’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत ?
(A) प्रभाते
(B) रात्रौ
(C) मध्याहने
(D) सायङ्काले
उत्तर:
(D) सायङ्काले
भाग ‘ख’ – रचनात्मक कार्यम् (15 अंङ्का)
प्रश्न 2.
सुजाता दिल्लीमहानगरे वसति। तस्याः सखी दिव्यामहादेवन् चेन्नईनगरे निवसति। सुजातायाः विद्यालये पर्यावरणविषये एका गोष्ठी जाता। गोष्ठीं वर्णयन्ती सुजाता दिव्यायै पत्रम् एकं लिखति। मञ्जूषातः समुचितपदानि चित्वा पत्रं पूरयन्तु। (10 × ½ = 5)
20 वसन्तविहार, नवदिल्लीतः।
तिथि: 20-5-2025
(i) _____________ दिव्ये!
सस्नेहं नमस्ते।
ह्यः अस्माकं विद्यालये (ii) _____________ एका महत्त्वपूर्णा गोष्ठी अभवत् । तत्र महानगरेषु वर्धमानं प्रदूषणं दृष्ट्वा पर्यावरणस्य (iii) _____________ उपायानां विषये चर्चा अभवत्। गोष्ठ्यां वक्ततॄणां विचारसारः आसीत् यत् गृहात् बहिः, (iv) _____________ रथ्यासु च अवकरः न क्षेपणीयः।(v) _____________ समये समये जलशुद्धिः करणीया मार्गेषु उद्यानेषु विद्यालयेषु च अधिकाधिक (vi) _____________ आरोपणीयाः। जनजागरणार्थं “वृक्षो रक्षति रक्षितः” जलम् एव जीवनम् एतादृशानि महावाक्यानि पट्टिकासु लिखित्वा यत्र-तत्र (vii) _____________ । ध्वनिप्रदूषणं निवारयितुं ध्वनिप्रसारकयन्त्राणां (viii) _____________ प्रयोगः करणीयः। अस्मिन् विषये भवत्याः विद्यालये किं किं भवति इति मां विस्तरेण लिखतु। तितरौ वन्दनीयौ।
भवत्याः सखी,
(ix) _____________
आवरणम्
सविधे
सुश्री (x) _____________
52, मरयापट्टी
चेन्नई-641008
मञ्जूषा – सुजाता, नदीजलेषु स्नेहस्निग्धे, पर्यावरणविषये, न्यूनतमः, वृक्षाः, रक्षणाय, दिव्यामहादेवन, टक्ङ्कनीयानि, जलप्रदूषण-निवारणाय।
उत्तर:
20, वसन्तविहार: नवदिल्लीतः।
तिथि: 20-5-2025
(i) स्नेहस्निग्धे दिव्ये!
सस्नेह नमस्ते।
ह्यः अस्माकं विद्यालये (ii) पर्यावरणविषये एका महत्त्वपूर्णा गोष्ठी अभवत्। तत्र महानगरेषु वर्धमानं प्रदूषणं दृष्ट्वा पर्यावरणस्य (iii) रक्षणाय उपायानां विषये चर्चा अभवत्। गोष्ठ्यां वक्ततॄणां विचारसारः आसीत् यत् गृहात् बहि:, (iv) नदीजलेषु रथ्यासु च अवकरः न क्षेपणीय:। (v) जलप्रदूषण निवारणाय समये समये जलशुद्धिः करणीया मार्गेषु उद्यानेषु विद्यालयेषु च अधिकाधिक (vi) वृक्षा: आरोपणीयाः। जनजागरणार्थं “वृक्षो रक्षति रक्षित:” जलम् एव जीवनम् एतादृशानि महावाक्यानि पट्टिकासु लिखित्वा यत्र तत्र (vii) टक्ङ्कनीयानि। ध्वनिप्रदूषणं निवारयितुं ध्वनिप्रसारकयन्त्राणां (viii) न्यूनतम प्रयोगः करणीयः। अस्मिन् विषये भवत्याः विद्यालये किं किं भवति इति मां विस्तरेण लिखतु।
पितरौ वन्दनीयौ।
भवत्याः सखी,
(ix) सुजाता
आवरणम्
सविधे
सुश्री (x) दिव्यामहादेवन
52, मरयापट्टी
चेन्नई-641008
प्रश्न 3.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायाः सहायतया पञ्च वाक्यानि रचयत- (5 × 1 = 5)

मञ्जूषा – प्रसीदति, दत्तचित्तः, आदर्श: पितुः चरणस्पर्शम्, कपाटिकायाम्, उपरि, ददाति, पुस्तकानि, भित्तौ, चित्रम्, पुष्पाधानी, आशीर्वादम्।
उत्तर:
संभावित-वाक्यानि (मञ्जूषा अनुसार:)
- बालकः पितुः चरणस्पर्शं करोति।
- पिता पुत्राय पुस्तकानि ददाति।
- अस्मिन् चित्रे पुष्पाधानी अस्ति।
- भित्तौ आदर्श चित्रम् अस्ति।
- पिता पुत्राय आशीर्वादं दत्त्वा प्रसीदति।
अथवा
“मम जननी” इत्यस्मिन् विषये मञ्जूषायाः सहायतया संस्कृतभाषायां एकम् अनुच्छेदं लिखत।
मञ्जूषा – चतुर्वादने, एकाकी प्रतिवेशिनाम्, स्निह्यति, महिला, विज्ञानस्य, परिश्रमी, मयि, करोति, अस्मि, अध्यापयति।
उत्तर:
- मम जननी परिश्रमी महिला अस्ति।
- सा प्रतिदिन चतुर्वादने अपि कार्यं करोति।
- सा मयि स्निह्यति च विज्ञानस्य अध्यापयति च।
- जननी एकाकी कार्यं न करोति प्रतिवेशिनाम् अपि सहाय करोति।
- अहं अस्मि भाग्यवान् यतः मम जननी सर्वदा मम हिताय प्रयत्नं करोति।
![]()
प्रश्न 4.
अधोलिखित-कथां मञ्जूषायाः सहायतया पूरयत- (10 × ½ = 5)
एक: वृक्षः स्व-आत्मकथा (i) _____________ । मम जन्मस्थानम् एकं (ii) _____________ आसीत्। प्रारम्भ अहं लघुः एवं आसं परन्तु शनैः शनैः (iii) _____________ जात:। मम शाखा: (iv) पत्राणि च मनोहराणि आसन्। अहं श्रान्तानां (v) _____________ आश्रयः पक्षिणां निवास: च अस्मि। सर्वे जीवाः प्राणवायुः अत्र एवं (vi) _____________ । अहं परोपकारी धैर्यवान् च अस्मि। मनुष्याः यदा वृक्षं (vii) _____________ तदा अहं जीवनस्य सुखम् अनुभवामि। अहं जनेभ्यः अभीष्टानि (viii) _____________ यच्छामि। मम जीवनं तु (ix) _____________ एव अस्ति। परं लोभवशात् मनुष्यः वृक्षं छित्त्वा (x) _____________ एव करोति। वृक्षाणां संरक्षणमेव जीवनम् अस्ति।
मञ्जूषा – आत्महानिम् पथिकानाम्, पोषयन्ति कथयति, हरिताः वनम् उन्नतः वस्तूनि अन्येभ्यः प्राप्नुवन्ति।
उत्तर:
एकः वृक्षः स्व- आत्मकथा (i) कथयति। मम जन्मस्थानम् एकं (ii) वनम् आसीत्। प्रारम्भे अहं लघुः एवं आसम् परन्तु शनै: शनै: (iii) उन्नतः जातः। मम शाखा: (iv) हरिता: पत्राणि च मनोहराणि आसन्। अहं श्रान्तानां (v) पथिकानां आश्रयः पक्षिणां निवासः च अस्मि। सर्वे जीवाः प्राणवायुः अत्र एवं (vi) प्राप्नुवन्ति। अहं परोपकारी धैर्यवान् च अस्मि। मनुष्याः यदा वृक्षं (vii) प्राप्नुवन्ति तदा अहं जीवनस्य सुखम् अनुभवामि। अहं जनेभ्यः अभीष्टानि (viii) वस्तूनि यच्छामि। मम जीवनं तु (ix) अन्येभ्यः एव अस्ति। परं लोभवशात् मनुष्यः वृक्षं छित्वा (x) आत्महानिम् एव करोति। वृक्षाणां संरक्षणमेव जीवनम् अस्ति।
अथवा
अधोलिखितं संवादं मञ्जूषायाः सहायतया पूरयत- (5 × 1 = 5)
छात्र: – महोदय! नमो नमः।
अध्यापक: – (i) _____________
छात्र: – श्रीमन् अहं गृहं गन्तुम् इच्छामि।
अध्यापक: – काचित् समस्या अस्ति? (ii) _____________
छात्र: – अहं समये कार्यं कर्तुम् अशक्तः यतः अहं रुग्णः अस्मि।
अध्यापक: – रुग्ण: असि? (iii) _____________
छात्रः – यदि अहं गृहं गच्छेयं तर्हि कार्यहानिः भवेत्॥
अध्यापकः – अह जानामि परं (iv) _____________
छात्र: – धन्यवादः। अहं श्वः कार्यं कृत्वा अवश्यं तस्य निरीक्षणं कारयिष्यामि।
अध्यापकः – शुभकामनाः। (v) _____________
मञ्जूषा
(क) शीघ्रमेव स्वस्थो भव।
(ख) शुभप्रभातम्। किं सर्वं कुशलम्?
(ग) यथाशीघ्रं गृहं गच्छ।
(घ) तव कार्यमपि अपूर्णमस्ति।
(ङ) त्वं स्वास्थ्यस्य महत्त्वम् अपि अवबोधय।
उत्तर:
छात्र: – महोदय! नमो नमः।
अध्यापक – (i) शुभप्रभातम्! किं सर्वं कुशलम्?
छात्र: – श्रीमन्न् अहं गृहं गन्तुम् इच्छामि।
अध्यापक: – काचित् समस्या अस्ति? (ii) तव कार्यमपि अपूर्णम् अस्ति।
छात्र: – अहं समये कार्यं कर्तुम् अशक्तः यतः अहं रुग्ण अस्मि।
अध्यापकः – रुग्ण: असि? (iii) यथाशीघ्रं गृहं गच्छ।
छात्रः – यदि अहं गृहं गच्छेयं तर्हि कार्यहानिः भवेत्।।
अध्यापक: – अहं जानामि परं (iv) त्वं स्वास्थ्यस्य महत्त्वम् अपि अवबोधय।
छात्र: – धन्यवादः। अहं श्वः कार्यं कृत्वा अवश्यं तस्य निरीक्षणं कारयिष्यामि।
अध्यापक: – शुभकामना:। (v) शीघ्रमेव स्वस्थो भव।
भाग ‘ग’ – अनुप्रयुक्त-व्याकरणम् (25 अंङ्काः)
प्रश्न 5.
(अ) निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां सन्धिं विच्छेदं वा कृत्वा लिखत। (4 × 1 = 4)
(i) कीटोऽपि सुमनः सङ्गादारोहति सतां शिरः।
(ii) वृक्षस्य चित्रम्+ पश्य।
(iii) गच्छतु भवान् पुनर्दर्शनाय।
(iv) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
उत्तर:
(i) कीटः अपि
‘विसर्गस्य उत्त्वम्’ – यहाँ पर विसर्ग के बाद ‘अ’ आने से विसर्ग को ‘उ’ हुआ तथा विसर्ग वाले वर्ण के ‘अ’ के साथ ‘उ’ जुड़ने से ‘ओ’ हुआ।
(ii) चित्रं पश्य-
अनुस्वार संधि-यदि अंतिम ‘म्’ के बाद व्यञ्जन आए तो ‘म्’ के स्थान पर अनुस्वार हो जाता है।
(iii) पुन: + दर्शनाय-
विसर्गस्य रत्वम्-यहाँ पर अव्यय आने पर विसर्ग के स्थान पर ‘र’ हुआ।
(iv) जन्मभूमि: + च-
विसर्गस्य शत्वम्-यदि विसर्ग वाला वर्ण ‘अ’ युक्त हो तथा उसके बाद च, छ, श आए तो विसर्ग के स्थान पर ‘श्’ हो जाता है।
अथवा
(आ) अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (4 × 1 = 4)
(i) आचारः प्रथमः + धर्मः इत्येतद् विदुषां वचः।
(ii) कश्चन चौर: गृहाभ्यान्तरं प्रविष्टः।
(iii) कः इदं दुष्करं कुर्यात् + इदानीं शिविना विना?
(iv) जगत्पते: सृष्टिरेषा रमणीया।
उत्तर:
(i) प्रथमो धर्मः
‘विसर्गस्य उत्त्वम्’ – यहाँ पर विसर्ग के बाद ‘अ’ आने से विसर्ग को ‘उ’ हुआ तथा विसर्ग वाले वर्ण के ‘अ’ के साथ ‘उ’ जुड़ने से ‘ओ’ हुआ।
(ii) क: + चन
विसर्गस्य शत्वम् – यदि विसर्ग वाला वर्ण ‘अ’ युक्त हो तथा उसके बाद च, छ, श आए तो विसर्ग के स्थान पर ‘शू’ हो जाता है।
(iii) कुर्यादिदानीम्
वर्ग के प्रथम अक्षर को वर्ग तृतीय वर्ण होना – यदि वर्ग के प्रथम अक्षर के बाद किसी भी वर्ग का प्रथम, द्वितीय, तृतीय, चतुर्थ, य, र, ल, व या कोई भी स्वर आए तो वर्ग के प्रथम अक्षर के स्थान पर अपने ही वर्ग का तृतीय वर्ण हो जाता है।
(iv) सृष्टि: + एषा
विसर्गस्य रत्वम् – यदि विसर्ग वाला वर्ण ‘अ’ को छोड़कर किसी अन्य स्वर से युक्त हो तो विसर्ग के स्थान पर ‘र्’ हो जाता है।
प्रश्न 6.
रेखाङिङ्कतपदानां समासं विग्रहं वा कृत्वा लिखत। (4 × 1 = 4)
(i) मयूरः राष्ट्रपक्षी कथ्यते।
(A) राष्ट्राणां पक्षी
(B) राष्ट्रस्य पक्षी
(C) राज्ञ: पक्षी
(D) राष्ट्रे पक्षी
उत्तर:
(B) राष्ट्रस्य पक्षी
क्योंकि पद के अर्थ क अनुसार ‘राष्ट्र का पक्षी’ आना चाहिए जिसके लिए राष्ट्र में षष्ठी विभक्ति का प्रयोग किया गया है जो कि विकल्प (B) दर्शाता है
(ii) सर्व पक्षिकुलं त्वया अवमानितम्।
(A) पक्षे कुलम्
(B) पक्षिषु कुलम्
(C) पक्षीणाम् कुलम्
(D) पक्षि कुलम्
उत्तर:
(C) पक्षीणाम् कुलम्
क्योंकि पद के अर्थ क अनुसार ‘पक्षियों का कुल’ आना चाहिए जिसके लिए पक्षी में षष्ठी विभक्ति का प्रयोग किया गया है जो कि विकल्प (C) दर्शाता है
(iii) पिता पुत्राय बाल्ये विद्याधनं दीयते।
(A) विद्यया धनम्
(B) विद्यायाः धनम्
(C) विद्या धनम्
(D) विद्यायै धनम्
उत्तर:
(B) विद्यायाः धनम्
क्योंकि पद के अर्थ क अनुसार ‘विद्या का धन’ आना चाहिए जिसके लिए विद्या में षष्ठी विभक्ति का प्रयोग किया गया है जो कि विकल्प (B) दर्शाता है
(iv) विवेक: तत्त्वार्थनिर्णयः कर्तुं शक्नोति।
(A) तत्त्वस्य अर्थाणम् निर्णय:
(B) तत्त्वानाम् अर्थस्य निर्णयः
(C) तत्त्वार्थाणाम् निर्णयः
(D) तत्त्वार्थस्य निर्णयः
उत्तर:
(D) तत्त्वार्थस्य निर्णय:
क्योंकि पद के अर्थ के अनुसार तत्त्व के अर्थ का निर्णय’ आना चाहिए जिसके लिए तत्त्व एवम अर्थ में षष्ठी विभक्ति का प्रयोग किया गया है जो कि विकल्प (D) दर्शाता है।
प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृति-प्रत्ययान् संयोज्य विभञ्ज्य वा लिखत। (4 × 1 = 4)
(i) भगवान् बोधिसत्त्वः अपूर्व: धैर्य + मतुप् अपि आसीत्।
(A) धैर्यमान्
(B) धैर्यवान्
(C) धैर्यमान्यः
(D) धैर्यवत्
उत्तर:
(B) धैर्यवान्
मतुप् प्रत्यय का मान् (अंत में अ / आ को छोड़कर कोई अन्य स्वर), वान् (अंत में अ / आ आने पर) पद में जुड़ता है
(ii) तस्य दानशीलता लौकिकी नासीत्।
(A) लोक + इकी
(B) लोक + ईक
(C) लौक + इकी
(D) लोक + ठक्
उत्तर:
(D) लोक + ठक्
क्योंकि ‘ठक्’ प्रत्यय का ‘इक’ शेष रह जाता है जिससे ‘लौकिकी’ बना।
(iii) अभिमानी कदापि सुखं न विन्दति।
(A) अभिमान + इन्
(B) अभिमान + इनी
(C) अभिमान + ङीप्
(D) अभिमान + ई
उत्तर:
(C) अभिमान + ङीप्
क्योंकि ‘ङीप्’ प्रत्यय का प्रयोग पुल्लिंग शब्द को स्त्रीलिंग बनाने के लिए किया जाता जाता है तथा ‘टाप्’ का ‘ई’ शब्द में जुड़ता है।
(iv) श्रद्धा + मतुप् ज्ञानं लभते।
(A) श्रद्धामत्
(B) श्रद्धामान्
(C) श्रद्धावान्
(D) श्रद्धावानम्
उत्तर:
(C) श्रद्धावान्
मतुप् प्रत्यय का मान् (अंत में अ / आ को छोड़कर कोई अन्य स्वर), वान् (अंत में अ / आ आने पर) पद में जुड़ता है।
![]()
प्रश्न 8.
(अ) वाच्यानुसार कोष्ठकेषु प्रदत्तपदैः रिक्तस्थानानि पूरयत। (3 × 1 = 3)
(i) मणि: – सुगन्धे! अद्य समारोहे किं भवति?
सुगन्धा – अद्य मेधाविनः छात्राः…..
(A) सम्मानयन्ति
(B) सम्मान्यन्ते
(C) सम्मानयते
(D) सम्मानयति
उत्तर:
(A) सम्मानयन्ति
(ii) मणि: – कः छात्रान् सम्मानयति?
सुगन्धाः – अस्माकं राज्यस्य शिक्षानिदेशक:… सम्मानयति।
(A) अस्मान्
(B) अध्यापकान्
(C) छात्रान्
(D) युष्मान्
उत्तर:
(A) अस्मान्
(iii) मणिः – किं छात्रा: तत्र सांस्कृतिक कार्यक्रमम् अपि प्रस्तौष्यन्ति?
सुगन्धाः – आम्, … सांस्कृतिक कार्यक्रमः अपि प्रस्तूयते।
(A) छात्रा:
(B) छात्रान्
(C) छात्रैः
(D) छात्रेभ्य:
मणिः – तदा अहम् अपि त्वया सह चलामि।
सुगन्धा: – अवश्यमेव। त्वम् मया सह आगच्छ।
उत्तर:
(C) छात्रैः
अथवा
(आ) वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यानि पुनः लिखत। (4)
(i) _____________ (बालक) पायसः खाद्यते।
(ii) मया फलं _____________ (खाद)।
(iii) _____________ (त्वम्) किं श्रूयते?
उत्तर:
(i) बालकेन
(ii) खाद्यते
(iii) त्वया
प्रश्न 9.
उचितकालबोधकपदैः रिक्तस्थानानि पूरयत- (3)
(i) सञ्जीव प्रातः (5:00) _____________ जागति।
(ii) अधीर: (5:30) _____________ ईशवन्दनां करोति।
(iii) हार्दिक (6:45) _____________ विद्यालयं गच्छति।
उत्तर:
(i) पञ्च वादने
(ii) सार्धं पञ्च वादने
(iii) पादोन सप्तवादने
प्रश्न 10.
मञ्जूषायाः उचितैः अव्ययैः चित्वा रिक्तस्थानानि पूरयत- (केवलं प्रश्नचतुष्टयम्) (4 × 1 = 4)
(i) प्रिये द्रौपदि! एवं _____________ ब्रूयाः।
(ii) युधिष्ठिरः ‘_____________ आश्वस्तः अस्मि’ इत्यवदत्।
(iii) _____________ कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्।
(iv) गुरूपदेशेन _____________ अनेन बालवचसा मम चक्षुषी समुन्मीलिते।
उत्तर:
(i) प्रिये द्रौपदि! एवं मा ब्रूयाः।
(ii) युधिष्ठिरः सम्प्रति आश्वस्तः अस्मि इत्यवदत्।
(iii) यदि कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्।
(iv) गुरूपदेशेन इव अनेन बालवचसा मम चक्षुषी समुन्मीलिते।
मञ्जूषा – इव, सम्प्रति, मा, यदि।
प्रश्न 11.
निम्नवाक्येषु रेखाङ्कितपदानां संशोधनं कृत्वा पुनर्लिखत। (3 × 1 = 3)
(i) कृष्ण! मनः हि चञ्चलः।
(A) चञ्चलम्
(B) चञ्चला
(C) चञ्चल!
(D) चञ्चलानि
उत्तर:
(A) चञ्चलम्
क्योंकि ‘चञ्चल’ शब्द नपुंसकलिंग है इसलिए ‘चञ्चलम्’ होगा।
(ii) सः शस्यक्षेत्रे हलकार्य कर्तुम् आरभे।
(A) आरभन्त
(B) आरभध्वम्
(C) आरभेताम्
(D) आरभत्
उत्तर:
(D) आरभत्
क्योंकि ‘स’ कर्ता के साथ ‘आरभत्’ क्रिया का प्रयोग उचित है।
(iii) ‘साडकेन’ एकम् अन्यत् पर्व सन्ति।
(A) अस्मि
(B) अस्ति
(C) असि
(D) स्त:
उत्तर:
(B) अस्ति
यहाँ पर एक पर्व के विषय में बताया जा रहा है इसलिए ‘अस्ति’ का प्रयोग होगा।
भाग ‘घ’ – पठितावबोधनम् (25 अंङ्का)
प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)
नाहं स्वर्गं न मोक्षं वा कामये किन्तु आर्तानां परित्राणाय एव मे निश्चयः। अस्य याच्ञा वृथा मा अस्तु। इत्युक्त्वा स राजा वैद्योक्तविधिना नीलोत्पलम् इव एकं चक्षुः शनैः अक्षतम् उत्पाट्य प्रीत्या याचकाय समर्पितवान्। सः अपि तत् नेत्रं यथास्थानम् अस्थापयत्। ततो महीपालः द्वितीयं नेत्रमपि शनैः निष्कास्य तस्मै ददौ। अथ विस्मितः शक्रः अचिन्तयत्- अहो धृतिः! अहो सत्त्वम्! अहो सत्त्वहितैषिता!
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) कः स्वर्गं मोक्षं वा न इच्छति?
(ख) कः तन्नेत्रं यथास्थानम् अस्थापयत्?
(ग) स राजा कति चक्षुः याचकाय समर्पितवान्?
उत्तर:
(क) राजा
(ख) याचकः
(ग) द्वे
(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) राजा वैद्योक्तविधिना किं शनैः उत्पाट्य याचकाय समर्पितवान्?
(ख) विस्मितः इन्द्रः किम् अचिन्तयत्?
(ग) नाहं स्वर्ग न मोक्षं वा कामये इति कः वदति?
उत्तर:
(क) राजा वैधोत्तविधिना नीलोत्पलय् इव एकं चक्षु उत्पाट्य प्रीत्या याचकाय समर्पितवान्।
(ख) अहो धृतिः! अहो सत्त्वम्! अहो सत्त्वहितैषिता, इत्यचिन्तयत्।
(ग) ‘नाहं स्वर्ग न मोक्षं वा कामये’ इति राजा वदति।
(iii) (अ) निर्देशानुसारम् उत्तरत- (1 × 2 = 2)
(क) अस्मिन् अनुच्छेदे ‘नेत्रम्’ पदस्य पर्यायः कः लिखित:?
(ख) ‘अथ विस्मितः शक्रः अचिन्तयत्।’ अत्र वाक्ये विशेषणपदं किम्?
उत्तर:
(क) चक्षुः
(ख) विस्मितः
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) ‘ततो महीपालः द्वितीयं नेत्रमपि शनैः निष्कास्य तस्मै ददौ।’ अस्मिन् वाक्ये ‘ददौ’ इति क्रियायाः कर्तृपदं किम्?
(ख) ‘नाहं स्वर्ग न मोक्षं वा कामये’ अस्मिन् वाक्ये किं कर्तृपदम्?
उत्तर:
(क) महीपालः
(ख) अहम्
![]()
प्रश्न 13.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत- (5)
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) क्रोधात् किं भवति?
(ख) प्राणी कथं प्रणश्यति?
(ग) सम्मोहः कस्मात् भवति?
उत्तर:
(क) सम्मोहः
(ख) बुद्धिनाशात्
(ग) क्रोधात्
(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) स्मृतिविभ्रमः बुद्धिनाशः च कस्मात् भवतः?
(ख) बुद्धिनाशात् किं भवति?
(ग) स्मृतिविभ्रमः कस्मात् भवति?
उत्तर:
अथवा
(क) (नर:) सम्मोहात् स्मृति विभ्रमः बुद्धिनाशात् च प्रणश्यति:।
(ख) बुद्धिनाशात् प्राणी प्रणश्यति।
(ग) सम्मोहात्स्मृति विभ्रमः भवति।
(आ) (क) बुद्धिनाशात् (ख) स्मृति:
(iii) (अ) निर्देशानुसारम् उत्तरत- (1 × 2 = 2)
(क) ‘नष्ट: भवति’ इत्यर्थे अत्र श्लोके किं पदं प्रयुक्तम्?
(ख) अस्मिन् श्लोके ‘सम्मोह:’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तर:
(क) प्रणश्यति
(ख) भवति
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) ‘बुद्धिनाशात् प्रणश्यति’ इति वाक्ये क्रियापदस्य कर्तृपदं किम् अस्ति?
(ख) ‘बुद्धि:’ इत्यस्मिन् अर्थे किं पर्यायपदम् अत्र प्रयुक्तम्?
उत्तर:
(क) बुद्धिनाशात्
(ख) स्मृति:
प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत। (5)
भीमः – (युधिष्ठिरं प्रति) भ्रातः! द्रौणिम् अनुगन्तुं मह्यम् अनुमतिं ददातु भवान्।
युधिष्ठिरः – गच्छ वत्स! विजयी भव, नकुलः तव सारथिः भवतु। (भीमसेनः निर्गच्छति, श्रीकृष्ण: अर्जुनेन सह प्रविशति)
श्रीकृष्णः – भो धर्मराज! समीचीनं न कृतं भवता। पुत्रशोकविह्वल: भीमसेनः एकाकी एव द्रौणिं हन्तुम् अभिधावति।
युधिष्ठिरः – भगवन्! सः तु एकाकी एव द्रोणपुत्राय अलम्।
श्रीकृष्णः – वत्स! न जानाति भवान् द्रौणे: चपलां प्रकृतिम्। पितुः द्रोणात् प्राप्तं ब्रह्मशिरो नाम अस्त्रं विद्यते तस्य पार्श्वे। यदि तत् प्रयुज्यते सर्वा पृथ्वी दग्धा स्यात्।
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) क: एकाकी एव द्रोणपुत्राय अलम् आसीत्?
(ख) श्रीकृष्णः युधिष्ठिरं केन पदेन सम्बोधयति?
(ग) भीमसेनः एकाकी एव कं हन्तुम् अभिधावति?
उत्तर:
(क) भीम:
(ख) धर्मराज:
(ग) द्रोणपुत्रम्
(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) यदि ब्रह्मास्त्रं प्रयुज्यते तदा पृथ्वी कीदृशी स्यात्?
(ख) भीमस्य सारथिः कः भवतु?
(ग) कः निर्गच्छति, क: अर्जुनेन सह प्रविशति?
उत्तर:
(क) यदि ब्रहमास्त्रं प्रयुज्यते तदा सर्वा पृथ्वी दग्धा स्यात्।
(ख) भीमस्य सारथिः नकुलः भवतु।
(ग) भीमः निर्गच्छति, श्रीकृष्ण: अर्जुनेन सह प्रविशति।
(iii) (अ) निर्देशानुसारम् उत्तरत- (1 × 2 = 2)
(क) ‘अश्वत्थामानम्’ अस्य किं पर्यायपदं संवादे प्रयुक्तम्?
(ख) ‘चपलां प्रकृतिम्’ अनयोः किं विशेषणपदम्?
उत्तर:
(क) द्रौणि:
(ख) चपलाम्
अथवा
(आ) निर्देशानुसारम् उत्तरत-
(क) ‘भीमः तं हन्तुम् अभिधावति’ अत्र क्रियापदं किम्?
(ख) ‘पुत्रशोकविह्वल: भीमसेनः’ अनयो: किं विशेष्यपदम्?
उत्तर:
(क) अभिधावति
(ख) भीमसेनः
प्रश्न 15.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कृत्वा वाक्यानि पुनः लिखत। (5 × 1 = 5)
(i) भूयः प्रीतः शक्रः वरम् अददात्।
(ii) सकलं ब्रह्माण्डं व्याकुलं सञ्जातम्।
(iii) दीयमानम् हि निधानतां याति।
(iv) जनाः तं देशम् आयान्ति स्म।
(v) त्वत्तः एकस्य चक्षुषः दानम् इच्छामि।
उत्तर:
(i) कः
(ii) कीदृशम्
(iii) काम्
(iv) के
(v) कस्य
प्रश्न 16.
अधोलिखितयोः श्लोकयोः अन्वयम् उचितैः पदैः पूरयित्वा पुनर्लिखत- (4 × ½ = 2)
आयुषः क्षणमेकोऽपि न लभ्यः स्वर्णकोटिकैः।
स चेन्निरर्थकं नीतः का नु हानिस्ततोऽधिका॥
अन्वयः – आयुषः एकः (i) _____________ अपि स्वर्ण (ii) _____________ न लभ्यः। (iii) _____________ चेत् निरर्थकं नीतः ततः (iv) _____________ नु हानि: का?
मञ्जूषा – सः, कोटिकै: अधिका, क्षणम्।
उत्तर:
अन्वयः – आयुष: एक: (i) क्षणम् अपि स्वर्ण (ii) कोटिकै: न लभ्यः। (iii) सः चेत् निरर्थकं नीतः तत: (iv) अधिका हानि का?
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (4 × ½ = 2)
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥
भावार्थ: यदि कश्चित् (i) _____________ स्वस्य कल्याणं (ii) _____________ जीवनं च इच्छति तर्हि सः (iii) _____________ परेभ्यः अहितं कर्म न (iv) _____________ अर्थात् यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एवं अन्ये तेन सह व्यवहरिष्यन्ति।
मन्जूषा – सुखमयम्, कुर्यात्, जनः, कदापि।
उत्तर:
भावार्थ: यदि कश्चित् (i) जनः स्वस्य कल्याणं (ii) सुखमयम् जीवनम् च इच्छति तर्हि सः (iii) कदापि परेभ्यः अहितं कर्म न (iv) कुर्यात् अर्थात् यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एवं अन्ये तेन सह व्यवहरिष्यन्ति।
प्रश्न 17.
रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् अर्थ लिखत। (4 × 1 = 4)
(i) सूपकाराणां मेषेण सह कलहः भवति स्म।
(A) वानराणाम्
(B) अश्वानाम्
(C) पाचकानाम्
(D) एडकानाम्
उत्तर:
(C) पाचकानाम्
(ii) हयशालां दग्धां विज्ञाय राजा विषादम् अगच्छत्।
(A) पाकशालाम्
(B) अश्वशालाम्
(C) रंगशालाम्
(D) यज्ञशालाम्
उत्तर:
(B) अश्वशालाम्
(iii) अवधीरिताः अस्माभिः गुरुजनोपदेशाः।
(A) न मानिता:
(B) मानिता:
(C) स्वीकृता:
(D) त्यक्ता:
उत्तर:
(A) न मानिता:
(iv) केन प्रयुक्तः पुरुषः पापं चरति?
(A) प्रेरित:
(B) प्रसिद्धः
(C) युक्त:
(D) प्रकटित:
उत्तर:
(A) प्रेरित
![]()
प्रश्न 18.
अधोलिखितं कथायां रिक्तस्थानानि पूरयित्वा पुनः लिखत- (8 × ½ = 4)
कस्मिंश्चित् नगरे चन्द्रः नामकः एकः (i) _____________ अवसत्। तस्य पुत्राः (ii) _____________ प्रतिदिनं वानरसमूहं विविधैः (iii) _____________ पुष्टं कुर्वन्ति स्म। तत्रैव राजगृहे (iv) _____________ मेषयूथमपि आसीत्। तस्य एकः मेष: (v) _____________ लोलुपतावशात् दिवारात्रं महानसं प्रविश्य तत्र यद् (vi) _____________ पश्यति तदेव खादति। ततः पाचकाः यत्किञ्चित् काष्ठं मृण्मय-कांस्य (vii) _____________ वा पश्यन्ति तेन एव शीघ्रं ताडयन्ति स्म। मेषस्य सूपकारणाम् च कलहं दृष्ट्वा बुद्धिमान् वानरयूथपति: अचिन्तयत्- “एतेषा कलहः (viii) _____________ हिताय नास्ति।” एवं चिन्तयित्वा सः सर्वान् वानरान् आहूय एकान्ते अवदत्।
मञ्जूषा – भोज्यपदार्थैः, वस्तु, भूपतिः, जिह्वायाः, वानराणाम्, वानरक्रीडारताः, बालवाहनयोग्यम्, ताम्रपात्रम्।
उत्तर:
कस्मिंश्चित् नगरे चन्द्रः नामक एक: (i) भूपति: अवसत्। तस्य पुत्राः (ii) वानरक्रीडारता प्रतिदिनं वानरसमूहं विविधैः (iii) भोज्यपदार्थै: पुष्टं कुर्वन्ति स्म। तत्रैव राजगृहे (iv) बालवाहनयोग्यम् मेषयूथमपि आसीत्। तस्य एक: मेष: (v) जिह्वायाः लोलुपतावशात् दिवारात्रं महानसं प्रविश्य तत्र यद् (vi) वस्तु पश्यति तदेव खादति। ततः पाचकाः यत्किञ्चित् काष्ठं मृण्मय कांस्य (vii) ताम्रपात्रम् वा पश्यन्ति, तेन एव शीघ्रं ताडयन्ति स्म। मेषस्य सूपकारणाम् च कलहं दृष्ट्वा बुद्धिमान् वानरयूथपति: अचिन्तयत् – “एतेषा कलह: (viii) वानराणाम् हिताय नास्ति।” एवं चिन्तयित्वा सः सर्वान् वानरान् आहूय एकान्ते अवदत्।