• NCERT Solutions
    • NCERT Library
  • RD Sharma
    • RD Sharma Class 12 Solutions
    • RD Sharma Class 11 Solutions Free PDF Download
    • RD Sharma Class 10 Solutions
    • RD Sharma Class 9 Solutions
    • RD Sharma Class 8 Solutions
    • RD Sharma Class 7 Solutions
    • RD Sharma Class 6 Solutions
  • Class 12
    • Class 12 Science
      • NCERT Solutions for Class 12 Maths
      • NCERT Solutions for Class 12 Physics
      • NCERT Solutions for Class 12 Chemistry
      • NCERT Solutions for Class 12 Biology
      • NCERT Solutions for Class 12 Economics
      • NCERT Solutions for Class 12 Computer Science (Python)
      • NCERT Solutions for Class 12 Computer Science (C++)
      • NCERT Solutions for Class 12 English
      • NCERT Solutions for Class 12 Hindi
    • Class 12 Commerce
      • NCERT Solutions for Class 12 Maths
      • NCERT Solutions for Class 12 Business Studies
      • NCERT Solutions for Class 12 Accountancy
      • NCERT Solutions for Class 12 Micro Economics
      • NCERT Solutions for Class 12 Macro Economics
      • NCERT Solutions for Class 12 Entrepreneurship
    • Class 12 Humanities
      • NCERT Solutions for Class 12 History
      • NCERT Solutions for Class 12 Political Science
      • NCERT Solutions for Class 12 Economics
      • NCERT Solutions for Class 12 Sociology
      • NCERT Solutions for Class 12 Psychology
  • Class 11
    • Class 11 Science
      • NCERT Solutions for Class 11 Maths
      • NCERT Solutions for Class 11 Physics
      • NCERT Solutions for Class 11 Chemistry
      • NCERT Solutions for Class 11 Biology
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Computer Science (Python)
      • NCERT Solutions for Class 11 English
      • NCERT Solutions for Class 11 Hindi
    • Class 11 Commerce
      • NCERT Solutions for Class 11 Maths
      • NCERT Solutions for Class 11 Business Studies
      • NCERT Solutions for Class 11 Accountancy
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Entrepreneurship
    • Class 11 Humanities
      • NCERT Solutions for Class 11 Psychology
      • NCERT Solutions for Class 11 Political Science
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Indian Economic Development
  • Class 10
    • NCERT Solutions for Class 10 Maths
    • NCERT Solutions for Class 10 Science
    • NCERT Solutions for Class 10 Social Science
    • NCERT Solutions for Class 10 English
    • NCERT Solutions For Class 10 Hindi Sanchayan
    • NCERT Solutions For Class 10 Hindi Sparsh
    • NCERT Solutions For Class 10 Hindi Kshitiz
    • NCERT Solutions For Class 10 Hindi Kritika
    • NCERT Solutions for Class 10 Sanskrit
    • NCERT Solutions for Class 10 Foundation of Information Technology
  • Class 9
    • NCERT Solutions for Class 9 Maths
    • NCERT Solutions for Class 9 Science
    • NCERT Solutions for Class 9 Social Science
    • NCERT Solutions for Class 9 English
    • NCERT Solutions for Class 9 Hindi
    • NCERT Solutions for Class 9 Sanskrit
    • NCERT Solutions for Class 9 Foundation of IT
  • CBSE Sample Papers
    • Previous Year Question Papers
    • CBSE Topper Answer Sheet
    • CBSE Sample Papers for Class 12
    • CBSE Sample Papers for Class 11
    • CBSE Sample Papers for Class 10
    • CBSE Sample Papers for Class 9
    • CBSE Sample Papers Class 8
    • CBSE Sample Papers Class 7
    • CBSE Sample Papers Class 6
  • Textbook Solutions
    • Lakhmir Singh
    • Lakhmir Singh Class 10 Physics
    • Lakhmir Singh Class 10 Chemistry
    • Lakhmir Singh Class 10 Biology
    • Lakhmir Singh Class 9 Physics
    • Lakhmir Singh Class 9 Chemistry
    • PS Verma and VK Agarwal Biology Class 9 Solutions
    • Lakhmir Singh Science Class 8 Solutions

Learn CBSE

NCERT Solutions for Class 6, 7, 8, 9, 10, 11 and 12

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions

October 30, 2025 by Sastry CBSE

Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit Communicative with Solutions Set 1 are designed as per the revised syllabus.

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions

अवधि: – होरात्रयम्
पूर्णाङ्काः – 80

सामान्यनिर्देशा:-

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 पृष्ठानि मुद्रितानि सन्ति।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
  3. अस्मिन् प्रश्नपत्रे चत्वारः भागाः सन्ति-
    • ‘क’ भागः – अपठितावबोधनम् (10 अङ्काः)
    • ‘ख’ भागः – रचनात्मक कार्यम् (15 अङ्काः)
    • ‘ग’ भागः – अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
    • ‘घ’ भागः – पठितावबोधनम् (30 अङ्काः)
  4. प्रत्येकं भागम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
  5. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः।
  6. प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् एवं लेखनीयः।
  7. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।

भाग ‘क’ – अपठित अवबोधनम् (10 अंङ्काः)

प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (10)
अयं संसारः जनानां कर्मभूमिः अस्ति। अस्मिन् संसारे यावन्तः जनाः जन्म गृह्णन्ति तेषां पृथक् पृथक् कर्तव्यानि भवन्ति। एतानि कर्तव्यानि अनेकविधानि भवन्ति। कानिचिद् व्यक्तिगतानि कानिचित् पारिवारिकाणि कानिचित् सामाजिकानि। कानिचित् नित्यानि भवन्ति कानिचित् च नैमित्तिकानि। एतेषां सर्वेषां कर्तव्यानां पालनं मनुष्यस्य व्यक्तिगतहिताय देशहिताय च परमावश्यकं भवति। परमद्य जनेषु कर्तव्यपालनं प्रति न कापि निष्ठा। कोऽपि श्रमेण सत्यतया निष्ठया च कार्यं कर्तुं न वाञ्छति। अल्पेन एव प्रयासेन ते कार्यसिद्धिम् इच्छन्ति। ते केवलं स्वार्थपूर्ति कर्तुम् इच्छन्ति। अधिकाराय तु सर्वे प्रयतन्ते परं कर्तव्यं प्रति कोऽपि ध्यानं न ददाति। सत्यमेतद् यावद् वयं परिश्रमपूर्वकं श्रद्धापूर्वकं च स्वकर्तव्यानि न पालयामः पावद् देशस्य समाजस्य च उन्नतिः भवितुं न अर्हति। कर्तव्यपालनम् एव आत्मना देशस्य च उन्नतेः मूलमन्त्रोऽस्ति।

(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(i) अयं संसार केषां कर्मभूमिः अस्ति?
(ii) उन्नते मूलमन्त्रं किम् अस्ति?
(iii) जना: किं विहाय केवलम् अधिकाराय प्रयतन्ते?
उत्तर:
(i) जनानाम्
(ii) कर्तव्यपालनम्
(iii) कर्तव्यम्

(आ) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) देशस्य उन्नतिः कदा भवितुम् अर्हति?
(ii) कर्तव्यपालनं किमर्थम् आवश्यकम्?
(iii) अद्यत्वे जनाः कथं कार्यसिद्धिम् इच्छन्ति?
उत्तर:
(i) यदा वयं परिश्रमपूर्वकं श्रद्धापूर्वकं च स्वकर्तव्यानि पालयामः तदा देशस्य उन्नतिः भवितुम् अर्हति।
(ii) कर्तव्यानां पालनं मनुष्यस्य व्यक्तिगतहिताय देशहिताय च परमावश्यकं भवति।
(iii) अद्यत्वे जनाः अल्पेन एव प्रयासेन कार्यसिद्धिम् इच्छन्ति।

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1)
उत्तर:
कर्तव्यपालनम् अथवा अन्यत् किमपि उचितं शीर्षकम्।
छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितं मूल्याङ्कनं करणीयम्।

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions

(ई) यथानिर्देशम् उत्तरत्-
(i) ‘अयं संसार: कर्मभूमिः अस्ति।’ अस्मिन् वाक्ये क्रियापदं किम्? (3 × 1 = 3)
(A) अयम्
(B) संसार:
(C) कर्मभूमि:
(D) अस्ति
उत्तर:
(D) अस्ति

(ii) ‘प्रयत्नं कुर्वन्ति’ एतदर्थं किं क्रियापदं गद्यांशे प्रयुक्तम्?
(A) प्रयतन्ते
(B) अर्हति
(C) इच्छन्ति
(D) भवन्ति
उत्तर:
(A) प्रयतन्ते

(iii) ‘प्रयासेन’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्?
(A) निष्ठा
(B) अल्पेन
(C) सत्यता
(D) श्रमेण
उत्तर:
(B) अल्पेन

भाग ‘ख’ – रचनात्मक कार्यम् (15 अंङ्का)

प्रश्न 2.
भवत्याः नाम शर्वाणी। भवत्याः सखी प्रज्ज्वला संस्कृतं पठितुं भवत्याः परामर्शं वाञ्छति। तां प्रेरयितुं लिखितं पत्रं मञ्जूषायां प्रदत्तपदानां सहायतया पूरयित्वा पत्रम् उत्तरपुस्तिकायां लिखतु- [10 × ½ = 5]
डी-401, जनकपुरी
(i) __________________
दिनाङ्क __________________
प्रिय (ii) __________________

सस्नेह नमस्ते।
अत्र कुशलं तत्रास्तु | आशासे त्वम् अपि कुशलिनी स्यात् । भवत्याः पत्रं प्राप्तम् भवती । संस्कृतभाषां पठितुम् इच्छति (iii) __________________ पठित्वा मम प्रसन्नतायाः सीमा नास्ति । एषा भाषा सर्वाधिका (iv) __________________ अस्ति। संस्कृतम् अस्माकं देशस्य प्रतिष्ठा वर्तते । वेदाः, उपनिषद्, रामायण, महाभारतं पुराणानि महाकाव्यानि कथासाहित्यम् इत्यादिकं सर्व (v) __________________ अत्यन्तं मार्गदर्शक, ज्ञानवर्धकं प्रेरणाप्रदं च अस्ति। यथा पुष्पेभ्यः सुगन्धः पृथक् कर्तुं न शक्यते तथैव भारतीयसंस्कृतेः संस्कृतभाषां पृथक् (vi) __________________ न शक्यते । संस्कृतेन सम्भाषणम् अस्माकं हृदयेषु (vii) __________________ वर्धयति हीनभावनां च नाशयति। अतः त्वम् अवश्यं (viii) __________________ पठ, पठित्वा च अस्याः भाषायाः (ix) __________________ कुरु । एवं वयं भारतमातुः सेवां कृत्वा धन्याः भवाम्ः। सर्वेभ्यः अग्रजेभ्यः मम प्रणामाः अनुजेभ्यः च आशीर्वादाः।

भवत्याः सखी,
(x) __________________

मञ्जूषा – वैज्ञानिकी, प्रचारम्, वाङ्मयम्, प्रज्ज्वले, कर्तुम्, शर्वाणी, इति गौरवम्, संस्कृतम्, नवदिल्लीतः।
उत्तर:
पत्रलेखनम्
डी-401, जनकपुरी
(i) नवदिल्लीत:
दिनाङ्क ________________
प्रिय (ii) प्रज्ज्वले!

सस्नेह नमस्ते।
अत्र कुशलं तत्रास्तु। आशासे त्वम् अपि कुशलिनी स्यात्। भवत्याः पत्रं प्राप्तम् । भवती संस्कृतभाषां पठितुम् इच्छति (iii) इति पठित्वा मम प्रसन्नतायाः सीमा नास्ति। एषा भाषा सर्वाधिका (iv) वैज्ञानिकी अस्ति। संस्कृतम् अस्माकं देशस्य प्रतिष्ठा वर्तते। वेदाः, उपनिषद्, रामायणं, महाभारत, पुराणानि, महाकाव्यानि कथासाहित्सम् इत्यादिकं सर्वं (v) वाङ्मयम् अत्यन्तं मार्गदर्शकं ज्ञानवर्धकं प्रेरणाप्रदं च अस्ति। यथा पुष्पेभ्यः सुगन्धः पृथक् कर्तुं न शक्यते तथैव भारतीयसंस्कृतेः संस्कृतभाषां पृथक् (vi) कर्तुं न शक्यते। संस्कृतेन सम्भाषणम् अस्माकं हृदयेषु (vii) गौरवं वर्धयति हीनभावनां च नाशयति। अतः त्वम् अवश्यं (viii) संस्कृतं पठ, पठित्वा च अस्याः भाषायाः (ix) प्रचारं कुरु। एवं वयं भारतमातुः सेवां कृत्वा धन्याः भवामः। सर्वेभ्यः अग्रजेभ्यः मम प्रणामाः अनुजेभ्यः च आशीर्वादाः।

भवत्याः सखी,
(x) शर्वाणी

प्रश्न 3.
(अ) प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- (5 × 1 = 5)
CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions Q3
मञ्जूषा – निर्वाचनम्, मतदानकेन्द्रम् पङ्क्तिबद्धा:, महिला, ग्रामीणा:, हस्तेषु परिचयपत्राणि, अधिकार:, जनप्रतिनिधि:, वृक्षा:, प्रतीक्षां, कुर्वन्ति।
उत्तर:
(अ) चित्रवर्णनम्
अत्र छात्रेभ्यः संक्षिप्तवाक्यरचना अपेक्षिता वर्तते। केवलं वाक्यशुद्धिः द्रष्टव्या। अस्य प्रश्नस्य प्रमुखम् उद्देश्यं वाक्यरचना अस्ति। वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्त्वपूर्णं नास्ति। प्रतिवाक्यम् अर्धः अङ्कः भावस्य कृते अर्धः अङ्कः च व्याकरणदृष्ट्या शुद्धतानिमित्तं निर्धारितः अस्ति। मञ्जूषायां प्रदत्ताः शब्दाः सहायतार्थं सन्ति। छात्रः तेषा वाक्येषु प्रयोगं कुर्यादेव इति अनिवार्य नास्ति। छात्रः स्वमेधया अपि वाक्यानि निर्मातुं शन्कोति। मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्यते।

संभावित व्याख्या:-

  • इदं चित्रं मतदानकेन्द्रस्य अस्ति।
  • चित्रे जनाः मतदान कर्तुं प्रतीक्षां कुर्वन्ति।
  • अस्मिन् चित्रे अनेकाः महिलाः सन्ति।
  • एकस्याः महिलाया ‘अङ्के शिशुः अस्ति।
  • सर्वासां महिलानां हस्तेषु परिचय पत्रम् अस्ति।
  • सर्वे स्वमताधिकारस्य प्रयोगं कुर्वन्ति।

अथवा

(आ) मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः, एकम् अनुच्छेदं लिखित-
“बालश्रमः”
मञ्जूषा – जलपानगृहेषु, भोजनालयेषु, उद्योगेषु, बालकाः, शिक्षातः, क्रीडनात्, वञ्चिताः जनाः, ग्रामेभ्यः, आगच्छन्ति, अपि, धनप्राप्त्यर्थम् कुर्वन्ति, संविधानम्, नियमः।
उत्तर:
(आ) अनुच्छेदलेखनम्
अयं विकल्पः सर्वेभ्यः अस्ति। छात्राः मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्नुवन्ति। अतः अङ्काः देयाः। अस्य मूल्याङ्कनाय अन्ये नियमाः चित्रवर्णनस्य अनुगुणं पालनीयाः

संभावित व्याख्या:-

  • बालश्रमः एकः अपराधः अस्ति।
  • अद्यत्वे बालाः धनप्राप्त्यर्थम् उद्योगेषु जलपानगृहेषु भोजनालयेषु च कार्यं कुर्वन्ति।
  • ते बाला: शिक्षातः वञ्चिताः भवन्ति।
  • शिक्षा सर्वेषां मौलिक अधिकारम् अस्ति।
  • निर्धानाः बालाः ग्रामेभ्यः आगत्य नगरेषु कार्यं कुर्वन्ति।

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions

प्रश्न 4.
(अ) मञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखित संवादं पुनः लिखत- (5 × 1 = 5)
छात्राः – (i) __________________
आचार्य: – स्वस्ति, यशस्विनः भवत।
आरुष: – मया श्रुतं यत् श्वः आरभ्य सद्यस्कमाध्यमेन (ऑनलाइन) कक्षा भविष्यति, किमर्थम्?
आचार्यः – (ii) __________________
मोहितः – अस्माकं कक्षाध्यापिका चर्चायां सामान्यरूपेण अकथयत् यत् कदाचित् श्वः आरभ्यः गृहात् एव कक्षा स्वीकरणीया भवेत् इति।
आचार्यः – भवतां कक्षाध्यापिका सम्यक् सूचितवती। ह्यः वायुगुणवत्ता सूचकाङ्कः महर्ती वृद्धिं प्राप्नोत् तस्मात् सर्वकारः जनानां स्वास्थ्यरक्षणाय सद्यस्कमाध्यमेन गृहात् एव पठितुं कार्यं कर्तुं च निर्देशम् अयच्छत्।
नव्याः – (iii) __________________
आचार्यः – सत्यं कथयति वयं शिक्षकाः अपि साक्षात् कक्षायाम् आगत्य पाठयितुम् इच्छामः।
भूमिका – (iv) __________________
आचार्यः – इदानीं तु ईश्वर एव जानीयात्। यदा प्रदूषणस्य निवारणाय प्रकृतेः च संरक्षणाय वयं जागरूकाः भविष्याम् तदा एवं अग्रे एतादृशी विकटा स्थिति नैव आगमिष्यति।
छात्रा: – वयं प्रणं कुर्मः यत् वयं पर्यावरण रक्षणाय निरन्तरं प्रयासरताः भविष्यामः।
आचार्यः – (v) __________________

मञ्जूषा
(i) महोदय! गृहे मनः न रमते, अत्रैव वयं पठने आनन्दम् अनुभवाम्ः।
(ii) सत्यं तदैव इयं वसुन्धरा सुरक्षिता भविष्यति।
(iii) भवन्तं कः असूचयत्?
(iv) आचार्य! प्रणमामः।
(v) पुनः कदा विद्यालये एव कक्षा भविष्यति?
उत्तर:
(अ) छात्रा: – (i) आचार्य! प्रणमामः।
आचार्यः – स्वस्ति, यशस्विनः भवत।
आरुषः – मया श्रुतं यत् श्वः आरभ्य सद्यस्कमाध्यमेन (ऑनलाइन) कक्षा भविष्यति, किमर्थम्?
आचार्यः – (ii) भवन्तं कः असूचयत्?
मोहितः – अस्माकं कक्षाध्यापिका चर्चायां सामन्यरूपेण अकथयत् यत् कदाचित् श्वः आरभ्य गृहात् एव कक्षा स्वीकरणीया भवेत् इति।
आचार्यः – भवतां कक्षाध्यापिका सम्यक् सूचितवती। ह्यः वायुगुणवत्ता-सूचकाङ्कः महर्ती वृद्धिं प्राप्नोत् तस्मात् सर्वकारः जनानां स्वास्थ्यरक्षणाय सद्यस्कमाध्यमेन गृहात् एव पठितुं कार्यं कर्तुं च निर्देशम् अयच्छत्।
नव्याः – (iii) महोदय ! गृहे मनः न रमते, अत्रैव वयं पठने आनन्दम् अनुभवाम्ः।
आचार्यः – सत्यं कथयति वयं शिक्षकाः अपि साक्षात् कक्षायाम् आगत्य पाठयितुम् इच्छामः।
भूमिका – (iv) पुनः कदा विद्यालये एव कक्षा भविष्यति?
आचार्यः – इदानीं तु ईश्वर एव जानीयात्। यदा प्रदूषणस्य निवारणाय प्रकृतेः च संरक्षणाय वयं जागरुका: भविष्याम् तदा एवं अग्रे एतादृशी विकटा स्थिति: नैव आगमिष्यति।
छात्रा: – वयं प्रणं कुर्मः यत् वयं पर्यावरण रक्षणाय निरन्तरं प्रयासरताः भविष्यामः।
आचार्यः – (v) सत्यं तदैव इयं वसुन्धरा सुरक्षिता भविष्यति।

अथवा

(आ) मञ्जूषाया: सहायता अधोलिखितां कथां पूरयित्वा पुनः लिखत- (10 × ½ = 5)
एक: मृत्तिका घटः आसीत्। (i) __________________ उपरि स्थितः शरावः यः घटस्य मुखम् आच्छादयति स एकदा घटम् अपृच्छत् – मित्र घट! मम (ii) __________________ एक: प्रश्नः अस्ति । इदानीं (iii) __________________ अस्ति। यत् किमपि पात्रं यदा भवतः समीपम् आगच्छति तदा भवान् तत्पात्रं (iv) __________________ जलेन परिपूरयति। तानि सर्वाणि पात्राणि जलं स्वीकृत्य तृप्तानि भवन्ति। भवन्तम् एकाकिनं विहाय दूरं गच्छन्ति। (v) __________________ स्वार्थपरायणानि सन्ति, तथापि भवान् तेभ्यः शीतलं जलं प्रदाय तेषु (vi) _______________________ करोति। अहं सर्वदा भवता सह एव तिष्ठामि कदापि भवन्तं (vii) __________________ कुत्रापि न गच्छामि परन्तु भवान् मह्यं कदापि बिन्दुमितम् अपि जलं न यच्छति, किमर्थम्? तदा स्मितं कुर्वन् घटः (viii) __________________ अवदत् – एतस्य कारणं भवतः प्रकृतिः अस्ति। तानि सर्वाणि पात्राणि शिरः अवनम्य जलं याचन्ते अहञ्च तेषाम् इच्छां पूरयामि परं भवान् तु सर्वदा मम (ix) __________________ एव तिष्ठति तर्हि कथम् अहं भवते जलं दद्याम्? भवान् अपि शिरः अवनम्य (x) __________________ याचना करोतु अहं भवन्तम् अपि निराशं न करिष्यामि।

मञ्जूषा – त्यक्त्वा, घर्मकालः शिरसि, शीतलेन, मनसि अनुग्रहम्, घटस्य, मन्दस्वरेण, तानि, जलार्थम्।
उत्तर:
एक: मृत्तिका घटः आसीत्। (i) घटस्य उपरि स्थितः शराव: यः घटस्य मुखम् आच्छादयति सः एकदा घटम् अपृच्छत् मित्र घट! मम (ii) मनसि एक प्रश्नः अस्ति। इदानीं (iii) घर्मकालः अस्ति। यत् किमपि पात्रं यदा भवतः समीपम् आगच्छति तदा भवान् तत्पात्रं (iv) शीतलेन जलेन परिपूरयति। तानि सर्वाणि पात्राणि जलं स्वीकृत्य तृप्तानि भवन्ति। भवन्तम् एकाकिनं विहाय दूरं गच्छन्ति। (v) तानि स्वार्थपरायणानि सन्ति, तथापि भवान् तेभ्य: शीतलं जलं प्रदाय तेषु (vi) अनुग्रहं करोति। अहं सर्वदा भवता सह एव तिष्ठामि कदापि भवन्तं (vii) त्यक्त्वा कुत्रापि न गच्छामि परन्तु भवान् मह्यं कदापि बिन्दुमितम् अपि जलं न यच्छति किमर्थम् ? तदा स्मितं कुर्वन् घटः (viii) मन्दस्वरेण अवदत् एतस्य कारणं भवतः प्रकृतिः अस्ति। तानि सर्वाणि पात्राणि शिर: अवनम्य जलं याचन्ते अहञ्च तेषाम् इच्छां पूरयामि परं भवान् तु सर्वदा मम (ix) शिरसि एव तिष्ठति तर्हि कथम् अहं भवते जलं दद्याम्? भवान् अपि शिरः अवनम्य (x) जलार्थं याचनां करोतु अहं भवन्तम् अपि निराशं न करिष्यामि।

भाग ‘ग’ – अनुप्रयुक्त-व्याकरणम् (25 अंङ्का)

प्रश्न 5.
(अ) अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (4 × 1 = 4)
(i) स्वाध्यायाभ्यसनं चैव वाङ्मयं तनः + उच्यते।
(ii) राज्ञः स्वस्य गात्रेष्वपि निरासक्तिं विज्ञाय सकलं ब्रह्माण्डं व्याकुलं सञ्जातम्।
(iii) मधुमासे कोकिलः पं + चम स्वरेण गायति।
(iv) विषयान् ध्यायतः पुंसः सङ्गस्तेषु उपजायते।
उत्तर:
(i) तप उच्यते।
व्याख्या- (‘विसर्गस्य लोपः’ सन्धि यहाँ पर विसर्ग से पहले ‘अ’ है तथा विसर्ग के बाद ‘अ’ को छोड़कर एनी स्वर आया है इसलिए विसर्ग का लोप हुआ है)
(ii) गात्रेषु + अपि
व्याख्या- (यण सन्धियण सन्धि में ‘उ’ के बाद यदि समान स्वर को छोड़कर कोई भी स्वर आता है तो ‘उ’ के स्थान पर ‘व्’ हो जाता है, इसलिए यहाँ पर ‘षु’ के ‘उ’ को ‘व्’ हुआ)
(iii) पञ्चम
व्याख्या- (परसवर्ण सन्धि- यदि अनुस्वार के बाद किसी भी वर्ग के प्रथम, द्वितीय, तृतीय, चतुर्थ वर्ण आए तो अनुस्वार के स्थान पर परसवर्ण होता है)
(iv) सङ्ग + तेषु
व्याख्या- (विसर्गस्य सत्वम् – यदि विसर्ग वाला वर्ण ‘अ’ युक्त हो तथा उसके बाद त, थ, स आए तो विसर्ग के स्थान पर ‘स’ हो जाता है)

अथवा

(आ) अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-
(i) तेषु केचित् + दग्धाः केचिद् अर्धदग्धाः केचन च पञ्चत्वं गताः।
(ii) अये कथं श्रीकृष्णार्जुनौ युधिष्ठिरश्य?
(iii) मनसः निग्रहम् अहं वायोः + इव सुदुष्करं मन्ये।
(iv) सुस्वागतं भोः अरुणाचलेऽस्मिन्।
उत्तर:
(i) केचिद् दग्धाः
व्याख्या- (वर्ग के प्रथम अक्षर को वर्ग तृतीय वर्ण होना- यदि वर्ग के प्रथम अक्षर के बाद किसी भी वर्ग का प्रथम, द्वितीय, तृतीय, चतुर्थ, य, र, ल, व या कोई भी स्वर आए तो वर्ग के प्रथम अक्षर के स्थान पर अपने ही वर्ग का तृतीय वर्ण हो जाता है)
(ii) युधिष्ठिर + च
व्याख्या- (विसर्गस्य शत्वं यदि विसर्ग वाला वर्ण ‘अ’ युक्त हो तथा उसके बाद च, छ, श आए तो विसर्ग के स्थान पर ‘श’ हो जाता है)
(iii) वायोरिव
व्याख्या- (विसर्गस्य सत्वम् यदि विसर्ग वाला वर्ण ‘अ’ को छोड़कर किसी अन्य स्वर से युक्त हो तो विसर्ग के स्थान पर ‘र’ हो जाता है)
(iv) अरुणाचले + अस्मिन्।
व्याख्या- (पूर्वरूप सन्धि- यदि पहले शब्द के अंत में ‘ए’ तथा उसके बाद हस्व ‘अ’ आए तो ह्रस्व ‘अ’ के स्थान पर अ का पूर्वरूप ‘s’ आ जाता है)

प्रश्न 6.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (4 × 1 = 4)
(i) पञ्चशतानां बौधभिक्षूणां निवासयोग्या स्थली इयम्
(A) निवासं योग्या
(B) निवासस्य योग्या
(C) निवासेन योग्या
(D) निवासाय योग्या
उत्तर:
(D) निवासाय योग्या
व्याख्या – (चतुर्थी तत्पुरुष- निवासयोग्या शब्द का अर्थ है निवास के लिए योग्य, इसलिए विकल्प (घ) सही है)

(ii) कलशपातशब्देन प्रबुद्धौ तौ जाया च पतिः च आश्चर्यचकितौ आस्ताम्।
(A) जायापती
(B) जायापति:
(C) दम्पती
(D) दमपतिः
उत्तर:
(C) दम्पती
व्याख्या- (द्वन्द्व समास – पति पत्नी को दम्पती कहा जाता है)

(iii) प्रकृतिमाता सस्नेहं सर्वान् बोधयति।
(A) स्नेहम् अनतिक्रम्य
(B) स्नेहेन सहितम्
(C) स्नेहस्य अभाव:
(D) स्नेहस्य योग्यम्
उत्तर:
(B) स्नेहेन सहितम्
व्याख्या- (अव्ययीभाव समास- अव्ययीभाव समास मे ‘स’ सहितम् अर्थ के लिये किया जाता है)

(iv) पितुः उपदेशेन न सन्तुष्टः सः एकदा द्वारिकापुरीम् आगच्छत्।
(A) असन्तुष्टः
(B) अनुसन्तुष्टः
(C) सन्तोषसहित
(D) नसन्तुष्टः
उत्तर:
(A) असन्तुष्टः
व्याख्या- (नञ् तत्पुरुष समास- नञ् तत्पुरुष समास में यदि ‘न’ के बाद व्यंजन आए तो ‘न’ के स्थान पर ‘अ’ होता है और यदि ‘न’ के बाद स्वर आए ‘न’ के स्थान पर ‘अन’ होता है, यहाँ पर ‘अ’ इसलिए हुआ क्योंकि ‘अ’ के बाद ‘स’ आया है)

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions

प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रक्रति प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत- (4 × 1 = 4)
(i) भवतः दानवीर + तलू आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि।
(A) दानवीरताम्
(B) दानवीरता
(C) दानवीरत्वम्
(D) दानवीरा
उत्तर:
(A) दानवीरताम्
व्याख्या- (तल् प्रत्यय क ‘ता’ शब्द में जुड़ता है। इसलिए दानवीरतां हुआ)

(ii) कथं मन्दभाग्या अहं धैर्यं धारयामि।
(A) मन्दभाग्य + तल्
(B) मन्दभाग्य + त्व
(C) मन्दभाग्य + टाप्
(D) मन्दभाग्य + ठक्
उत्तर:
(C) मन्दभाग्य + टाप्
व्याख्या – (टाप् प्रत्यय का ‘आ’ शब्द में जुड़ता है इसलिए मन्दभाग्य का मन्दभाग्या हुआ)

(iii) अत्र अनेकानि दर्शनीयानि स्थलानि सन्ति।
(A) दृश् + तव्यत्
(B) दृश् + अनीयर्
(C) दृश् + मतुप्
(D) दृश + ठक्
उत्तर:
(B) दृश् + अनीयर्
व्याख्या- (‘अनीयर’ प्रत्यय का अनीय शब्द में जुड़ता है)

(iv) एकदा भगवान् बोधिसत्त्वः शिवीनां राजा अभवत्।
(A) भग + टाप्
(B) भग + ठक्
(C) भग+ तल्
(D) भग + मतुप्
उत्तर:
(D) भग + मतुप्
व्याख्या – (मतुप् प्रत्यय जोड़ते समय यदि पदांत ‘अ’ हो तो मतुप् का ‘वान्’ जुड़ता है और यदि पदांत ‘अ’ को छोड़कर कोई और स्वर हो तो मतुप् का ‘मान्’ जुड़ता है)

प्रश्न 8.
(अ) वाच्यानुसारं मञ्जूषायाः उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत- (3 × 1 = 3)
माहिका – भूमिके! (i) __________________ किं लिखसि?
भूमिका – माहिके! मया श्लोकाः लिख्यन्ते।
माहिका – त्वं कान् (ii) __________________ लिखसि?
भूमिका – मया नीतिश्लोकाः लिख्यन्ते। त्वया अधुना किं (iii) __________________?
माहिका – अहं संस्कृतकथां पठामि।

मञ्जूषा – श्लोकान्, क्रियते, त्वम्।
उत्तर:
माहिका – भूमिके! (i) त्वं कि लिखसि?
भूमिका – माहिके! मया श्लोकाः लिख्यन्ते।
माहिका – त्वं कान् (ii) श्लोकान् लिखसि?
भूमिका – मया नीतिश्लोकाः लिख्यन्ते। त्वया अधुना किं (iii) क्रियते?
माहिका – अहं संस्कृतकथां पठामि।

अथवा

(आ) वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा वाक्यानि पुनः लिखत-
(i) पिता पुत्राय क्रीडनकं (दा) __________________।
(ii) शताक्ष्या __________________ (गीत) श्रूयन्ते।
(iii) __________________ (अध्यापक) छात्रा: पाठ्यन्ते।
उत्तर:
(i) पिता पुत्राय क्रीडनकं (दा) ददाति/यच्छति।
(ii) शताक्ष्या गीतानि (गीत) श्रूयन्ते।
(iii) अध्यापकेन/अध्यापकाभ्याम्/अध्यापकैः (अध्यापक) छात्राः पाठ्यन्ते।

प्रश्न 9.
कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत- (3 × 1 = 3)
(i) सुखदः (5:30) __________________ वादने धावनाय बहिः गच्छति।
(ii) नव्या रात्रौ (12:15) __________________ वादनपर्यन्तं गृहपाठम् अकरोत्।
(iii) रुचिरा सायं (6:45) __________________ वादने मन्दिरं गच्छति।
उत्तर:
(i) सार्ध – पञ्चवादने
(ii) सपाद – द्वादशवादनपर्यन्तम्
(iii) पादोन – सप्तवादने

प्रश्न 10.
मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत- (4 × 1 = 4)
(i) __________________ मधुरभाषिणी वाणी पुरुषं प्रह्लादयति तथा चन्दनरसः न प्रह्लादयति।
(ii) चञ्चलं मनः अभ्यासेन वैराग्येण __________________ गृह्यते।
(iii) आचारः प्रथमो धर्मः __________________ एतत् विदुषां वचः।
(iv) अहं __________________ वनं गच्छामि।

मञ्जूषा – इति, तु, च, यथा।
उत्तर:
(i) यथा
(ii) च
(iii) इति
(iv) तु

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions

प्रश्न 11.
अधोलिखितवाक्येषु रेखाङ्कित अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत- (3 × 1 = 3)
(i) अस्मिन् प्रदेशे पञ्चाशद्धिकाः नद्यः प्रवहति।
(A) प्रवहसि
(B) प्रवहतः
(C) प्रवहन्ति
(D) प्रवहामि
उत्तर:
(C) प्रवहन्ति
व्याख्या – (क्योंकि ‘नद्यः’ बहुवचन शब्द है इसलिए ‘प्रवहन्ति’ आएगा)

(ii) इन्द्रस्य प्रभावेण राज्ञः सत्यपुण्यबलेन एकं चक्षुः प्रतिष्ठितः अभवत्।
(A) प्रतिष्ठिता
(B) प्रतिष्ठितम्
(C) प्रतिष्ठिता:
(D) प्रतिष्ठितानि
उत्तर:
(B) प्रतिष्ठितम्
व्याख्या – (क्योंकि प्रतिष्ठित यहाँ पर कर्म है इसलिए द्वितीय विभक्ति का प्रयोग हुआ है)

(iii) तर्हि न जानासि भवान् तस्य मनोवृत्तिम्।
(A) त्वम्
(B) भवन्तः
(C) युवाम्
(D) भवन्तौ
उत्तर:
(A) त्वम्
व्याख्या- (जानासि क्रिया होने के कारण यहाँ पर त्वम् आएगा)

भाग ‘घ’ – पठितावबोधनम् (30 अंङ्काः)

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
अस्ति कर्मपुरनाम्नि नगरे प्रच्छन्नभाग्य-नामधेयः कश्चित् कुमारः। बाल्ये वयसि विद्यापराङ्मुखः स केनचित् दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि निरतः सञ्जातः। एकदा स दुष्टबुद्धिना सार्धं कस्यचित् श्रेष्ठिनः गेहे धनहरणार्थं ग्रामान्तरं प्रस्थितः। अथ व्रजन्तौ तौ गर्तसङ्कले मार्गे क्रीडतः कांश्चित् बालकान् प्रेक्ष्य अवदताम् भो भो बालकाः! कथमत्र नतोन्नते विषमे मार्गे क्रीडथ? यदि कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्। तच्छ्रुत्वा तेषु कश्चित् उद्दण्डः बालकः उवाच अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ? अपि इदं श्रेयस्करम्?

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) कुत्र प्रच्छन्नभाग्य-नामधेयः कश्चित् कुमारः आसीत्?
(ख) प्रच्छन्नभाग्यः केन सार्धं धनहरणार्थं ग्रामान्तरं प्रस्थित:?
(ग) कीदृशः बालकः उवाच?
उत्तर:
(क) कर्मपुरनगरे / कर्मपुरनाम्नि नगरे
(ख) दृष्टबुद्धिना
(ग) उद्दण्डः

(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) उद्दण्डः बालकः किम् अकथयत्?
(ख) अथ व्रजन्तौ तौ मार्गे क्रीडतः बालकान दृष्टवा किम अवदताम्?
(ग) प्रच्छन्नभाग्यः कदा केन सह च चौर्यकर्मणि निरतः सञ्जात:?
उत्तर:
(क) उद्दण्डः बालकः अकथयत् – अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवत्तौ? अपि इदं श्रेयस्करम्?
(ख) अथ व्रजन्तौ तौ मार्गे क्रीडतः बालकान् दृष्ट्वा अवदताम् – यदि कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्।
(ग) प्रच्छन्नभाग्यः बाल्ये वयसि विद्यापराङ्मखः स केनचित् दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि निरतः सञ्जातः।

(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) ‘कश्चित् उद्दण्डः बालकः उवाच।’ अत्र किं कर्तृपदम् अस्ति?
(ख) ‘स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्।’ अत्र क्रियापदं किम्?
उत्तर:
(क) बालक:
(ख) अनुभवेत्

अथवा

(आ) निर्देशानुसारम् उत्तरत-
(क) ‘त्यक्त्वा’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम?
(ख) ‘विषमे’ इत्यस्य विशेष्यपदं गद्यांशात् चित्वा लिखत।
उत्तर:
(क) परित्यज्य
(ख) मार्गे

प्रश्न 13.
अधोलिखितपद्ये पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)

अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत सदाचारं प्राणेभ्योऽपि विशेषतः॥

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) चित्ते तथा वाचि किं भवेत्?
(ख) कः प्रथमो धर्म:?
(ग) किं प्राणेभ्योऽपि विशेषतः रक्षेत्?
उत्तर:
(क) अवक्रता
(ख) आचार:
(ग) सदाचारम्

(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) विदुषां किं वचः?
(ख) समत्वं किं भवति?
(ग) सदाचारं कथं रक्षेत्?
उत्तर:
(क) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
(ख) यथा चित्ते अवक्रता तथा यदि वाचि भवेद् तदेव समत्वं भवति।
(ग) सदाचारं प्राणेभ्योऽपि विशेषतः रक्षते।

(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) “तदेवाहु: महात्मानः समत्वमिति तथ्यतः।” अत्र वाक्ये क्रियापदं किम्?
(ख) ‘सरलता’ इत्यस्य किं समानार्थकं पदं प्रयुक्तम?
उत्तर:
(क) आहुः
(ख) अवक्रता

अथवा

(आ) निर्देशानुसारम् उत्तरत-
(क) ‘प्रथमो धर्म:’ इत्यनयो: विशेषणपदं चित्वा लिखत।
(ख) ‘वाण्याम्’ इत्यस्य पर्यायपदं लिखत।
उत्तर:
(क) प्रथमः
(ख) वाचि

प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
स्थानम् – सरस्तीरम्। समयः प्रभातबेला। तत्र राजहंस हंसी च विहरतः। नेपथ्ये काकध्वनिः श्रूयते।,
राजहंसः – अये! किन्नु खलु सरस्तीरे विहरति मयि केनापि कर्कशैः ‘का का’ शब्दैः वातावरणम् आकुलीक्रियते?
राजहंसी – भर्त! काकात् अन्यः को भवितुमर्हति? अस्य वर्णः अपि कृष्ण, कर्म अपि कृष्णम्। मेध्यम् अमेध्यं सर्वमेव भक्षयति। कर्णकटुशब्दैः __________________
काकः – (प्रविश्य सक्रोधम्) आः किम् उक्तवती भवती? यदि अहं कृष्णवर्णः तर्हि श्रीरामस्य वर्णः कीदृश:? श्रीवासुदेवस्य वर्ण: कीदृश:? मुग्धे अहं तु अतीव कर्तव्यपरायणः। प्रभाते ‘का का’ ध्वनिना सुप्तान् प्रबोधयामि कर्मसु च विनियोजयामि।
राजहंस: – हुं! किमनेन? एतत् कार्यं तु कुक्कुटोऽपि करोति।
काकः – (विहस्य) कुक्कुट! अरे अद्य कुतः कुक्कुटा नगरेषु। अहमेव सर्वत्र सुलभः।

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × ½ = 1)
(क) कर्तव्यपरायणः कः अस्ति?
(ख) काकस्य वर्णः कीदृशः अस्ति?
(ग) काकध्वनिः कुत्र श्रूयते?
उत्तर:
(क) काक:
(ख) कृष्णः
(ग) नेपथ्ये

(ii) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (2 × 1 = 2)
(क) राजहंस राजहंस किं पृच्छति?
(ख) काकः सक्रोधं किं वदति?
(ग) राजहंसी भर्तारं किम् उत्तरति?
उत्तर:
(क) राजहंस राजहंसीं पृच्छति – अये! किन्नु खलु सरस्तीरे विहरति मयि केनापि कर्कशैः ‘का का’ शब्दैः वातावरणम् आकुलीक्रियते? इति
(ख) काकः सक्रोधं वदति आः किम् उक्तवती भवती? यदि अहं कृष्णवर्णः तर्हि श्री रामस्य वर्णः कीदृश:? श्रीवासुदेवस्य वर्णः कीदृश:? मुग्धे अहं तु अतीव कर्तव्यपरायणः। प्रभाते का का’ ध्वनिना सुप्तान् प्रबोधयामि कर्मसु च विनियोजयामि इति।
(ग) राजहंसी भर्तारम् उत्तरति भर्तः! काकात् अन्यः को भवितुमर्हति? अस्य वर्णः अपि कृष्णः, कर्म अपि कृष्णम्। मेध्यम् अमेध्यं सर्वमेव भक्षयति। कर्णकटुशब्दैः … इति।

(iii) (अ) निर्देशानुसारम् उत्तरत- (2 × 1 = 2)
(क) ‘पवित्रम्’ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
(ख) ‘करोति’ इति क्रियापदस्य कर्तृपदं किम् अत्र प्रयुक्तम्?
उत्तर:
(क) मेध्यम्
(ख) कुक्कुटः

अथवा

(आ) निर्देशानुसारम् उत्तरत-
(क) ‘वर्ण: कृष्ण:’ इत्यनयोः पदयोः विशेष्यपदं चित्वा लिखत।
(ख) ‘एतत् कार्यं तु कुक्कुटोऽपि करोति’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तर:
(क) वर्ण:
(ख) करोति

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions

प्रश्न 15.
रेखाङ्कित पदानि आधृत्य प्रश्ननिर्माणं कुरुत- (5 × 1 = 5)
(i) अनुद्वेगकरं वाक्यं वाङ्मयं तपः उच्यते?
(ii) कामः एव अस्माकं शत्रुः?
(iii) गगनात् सहस्रशः उल्काः भूमौ पतन्ति?
(iv) अरुणाचलप्रदेशे अनेके उत्सवाः मान्यन्ते?
(v) दानशालासु विचरन् राजा अचिन्तयत्?
उत्तर:
(i) कीदृशं वाक्यं वाङ्मयं तपः उच्यते?
(ii) कामः एव केषां शत्रुः?
(iii) गगनात् सहस्रशः काः भूमौ पतन्ति?
(iv) अरुणाचलप्रदेशे अनेके के मान्यन्ते?
(v) कुत्र / कासु विचरन् राजा अचिन्तयत्?

प्रश्न 16.
(अ) मञ्जूषातः समुचितपदानि चित्वा अधोलिखित- श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत- (4 × ½ = 2)

शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।।

अन्वयः – शूश्रूषा (i) __________________ च एव, ग्रहणम् तथा (ii) __________________, ऊह-अपोह-अर्थविज्ञानम्,
(iii) __________________ च (iv) __________________ (सन्ति)।

मञ्जूषा – तत्त्वज्ञानम्, श्रवणम्, धीगुणाः, धारणम्।
उत्तर:
अन्वयः – शूश्रूषा (i) श्रवणम् च एव, ग्रहणम् तथा (ii) धारणम्, ऊह-अपोह-अर्थविज्ञानम्, (iii) तत्त्वज्ञानम् च (iv) धीगुणा: (सन्ति)।

(आ) मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत-

असंशयं महाबाहो! मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय! वैराग्येण च गृह्यते।।

भावार्थ:- हे महाबाहो! अत्र संशयः नास्ति यत् एतत् (i) __________________ अतीव चञ्चलम् अस्ति। इदं (ii) __________________ नियन्त्रितं भवति परन्तु यदि वयं पुनः पुनः (iii) __________________ कुर्मः, विरक्ताः च भवामः तदा निश्चयेन एतत् वशीकर्तुं (iv) __________________

मञ्जूषा – बहुकष्टेन, अभ्यासम्, शक्नुम्, मनः।
उत्तर:
भावार्थ:- हे महाबाहो! अत्र संशयः नास्ति यत् एतत् (i) मनः अतीव चञ्चलम् अस्ति । इदं (ii) बहुकष्टेन नियन्त्रितं भवति परन्तु यदि वयं पुनः पुनः (iii) अभ्यासं कुर्मः, विरक्ताः च भवामः तदा निश्चयेन एतत् वशीकर्तुं (iv) शक्नुमः।

प्रश्न 17.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत- (4 × 1 = 4)
(i) वनौषधीनां तु अयं स्रोतः एव।
(A) प्रवाह
(B) निर्झर:
(C) उद्गमस्थलम्
(D) प्रकार:
उत्तर:
(C) उन्दग्मस्थलम्

(ii) पवनः स्तब्धः जातः।
(A) स्वच्छः
(B) आरब्धः
(C) प्रदेषित
(D) स्थगित:
उत्तर:
(D) स्थगित:

(iii) शिष्य आचार्यात् पादम् आदत्ते।
(A) श्लोकस्य पङ्क्तिः
(B) चतुर्थांशम्
(C) चरणम्
(D) ग्रन्थम्
उत्तर:
(B) चतुर्थांशम्

(iv) राज्ञ: नेत्रदान-निश्चयं ज्ञात्वा अमात्याः विषण्णाः अभवन्।
(A) खिन्ना:
(B) विमुखाः
(C) चिन्तिता:
(D) प्रसन्ना:
उत्तर:
(A) खिन्ना:

CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions

प्रश्न 18.
मञ्जूषायाः पदसहायतया रिक्तस्थानानि पूरयित्वा अधोलिखित-कथाम् उत्तरपुस्तिकायां लिखत- (8 × ½ = 4)
कस्मिंञ्चित् नगरे चन्द्रः (i) __________________ एक: भूपतिः अवसत्। तस्य पुत्राः वानरक्रीडारता: प्रतिदिनं वानरसमूहं (ii) __________________ भोज्यपदार्थैः सन्तुष्टं कुर्वन्ति स्म । तत्रैव राजगृहे बालवाहनयोग्यं मेषयूथम् अपि (iii) __________________ । तत्र एकः मेषः जिह्वायाः लोलुपतावशात् अहर्निशं महानसं प्रविश्य तत्र यद् वस्तु पश्यति तदेव (iv) __________________ स्म। ततः पाचकाः यत्किञ्चित् काष्ठं मृत्तिकापात्रं कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति स्म तेन एव शीघ्रं ताडयन्ति स्म। मेषस्य सूपकाराणां च (v) __________________ दृष्ट्वा बुद्धिमान् वानरयूथपति: अचिन्तयत्- “एतेषां कलहो (vi) __________________ हिताय नास्ति ।” एवं चिन्तयित्वा सः सर्वान् वानरान् आहूय एकान्ते अवदत्- (vii) __________________ प्रतिदिनं मेषेण सह सूपकाराणाम् अयं कलहः नूनम् अस्माकं विनाशस्य कारणं भविष्यति अतः वयत् एतत् (viii) __________________ त्यक्त्वा वनं गच्छामः। तस्य इमं परामर्शम् अश्रद्धेयं मत्वा रसनास्वादलुब्धाः वानराः गन्तुं सिद्धाः न अभवन्।

मञ्जूषा- भोः बान्धवाः! आसीत्, कलहम् नामकः, राजभवनम् विविधै, वानराणाम्, खादति।
उत्तर:
कस्मिंञ्चित् नगरे चन्द्रः (i) नामक एक भूपतिः अवसत्। तस्य पुत्राः वानरक्रीडारता: प्रतिदिनं वानरसमूहं (ii) विविधै: भोज्यपदार्थै: सन्तुष्टं कुर्वन्ति स्म। तत्रैव राजगृहे बालवाहनयोग्यं मेषयूथमपि (iii) आसीत्। तत्र एक मेष: जिह्वायाः लोलुपतावशात् अहर्निशं महानसं प्रविश्य तत्र यद् वस्तु पश्यति तदेव (iv) खादति स्म ततः पाचकाः यत्किञ्चित् काष्ठं मृत्तिकापात्रं कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति स्म तेन एव शीघ्रं ताडयन्ति स्म। मेषस्य सूपकाराणां च (v) कलहं दृष्ट्वा बुद्धिमान् वानरयूथपतिः अचिन्तयत्- “एतेषां कलहों (vi) वानराणां हिताय नास्ति।” एवं चिन्तयित्वा सः सर्वान् वानरान् आहूय एकान्ते अवदत्- (vii) भोः बान्धवाः। प्रतिदिनं मेषेण सह सूपकाराणाम् अयं कलह: नूनम् अस्माकं विनाशस्य कारणं भविष्यति अतः वयत् एतत् (viii) राजभवनं त्यक्त्वा वनं गच्छामः। तस्य इमं परामर्शम् अश्रद्धेयं मत्वा रसनास्वादलुब्धाः वानराः गन्तुं सिद्धाः न अभवन्।

Filed Under: CBSE Sample Papers

LearnCBSE.in Student Education Loan
  • Student Nutrition - How Does This Effect Studies
  • Words by Length
  • NEET MCQ
  • Factoring Calculator
  • Rational Numbers
  • CGPA Calculator
  • TOP Universities in India
  • TOP Engineering Colleges in India
  • TOP Pharmacy Colleges in India
  • Coding for Kids
  • Math Riddles for Kids with Answers
  • General Knowledge for Kids
  • General Knowledge
  • Scholarships for Students
  • NSP - National Scholarip Portal
  • Class 12 Maths NCERT Solutions
  • Class 11 Maths NCERT Solutions
  • NCERT Solutions for Class 10 Maths
  • NCERT Solutions for Class 9 Maths
  • NCERT Solutions for Class 8 Maths
  • NCERT Solutions for Class 7 Maths
  • NCERT Solutions for Class 6 Maths
  • NCERT Solutions for Class 6 Science
  • NCERT Solutions for Class 7 Science
  • NCERT Solutions for Class 8 Science
  • NCERT Solutions for Class 9 Science
  • NCERT Solutions for Class 10 Science
  • NCERT Solutions for Class 11 Physics
  • NCERT Solutions for Class 11 Chemistry
  • NCERT Solutions for Class 12 Physics
  • NCERT Solutions for Class 12 Chemistry
  • NCERT Solutions for Class 10 Science Chapter 1
  • NCERT Solutions for Class 10 Science Chapter 2
  • Metals and Nonmetals Class 10
  • carbon and its compounds class 10
  • Periodic Classification of Elements Class 10
  • Life Process Class 10
  • NCERT Solutions for Class 10 Science Chapter 7
  • NCERT Solutions for Class 10 Science Chapter 8
  • NCERT Solutions for Class 10 Science Chapter 9
  • NCERT Solutions for Class 10 Science Chapter 10
  • NCERT Solutions for Class 10 Science Chapter 11
  • NCERT Solutions for Class 10 Science Chapter 12
  • NCERT Solutions for Class 10 Science Chapter 13
  • NCERT Solutions for Class 10 Science Chapter 14
  • NCERT Solutions for Class 10 Science Chapter 15
  • NCERT Solutions for Class 10 Science Chapter 16

Free Resources

RD Sharma Class 12 Solutions RD Sharma Class 11
RD Sharma Class 10 RD Sharma Class 9
RD Sharma Class 8 RD Sharma Class 7
CBSE Previous Year Question Papers Class 12 CBSE Previous Year Question Papers Class 10
NCERT Books Maths Formulas
CBSE Sample Papers Vedic Maths
NCERT Library

NCERT Solutions

NCERT Solutions for Class 10
NCERT Solutions for Class 9
NCERT Solutions for Class 8
NCERT Solutions for Class 7
NCERT Solutions for Class 6
NCERT Solutions for Class 5
NCERT Solutions for Class 4
NCERT Solutions for Class 3
NCERT Solutions for Class 2
NCERT Solutions for Class 1

Quick Resources

English Grammar Hindi Grammar
Textbook Solutions Maths NCERT Solutions
Science NCERT Solutions Social Science NCERT Solutions
English Solutions Hindi NCERT Solutions
NCERT Exemplar Problems Engineering Entrance Exams
Like us on Facebook Follow us on Twitter
Watch Youtube Videos NCERT Solutions App